Misc

श्रीदक्षिणास्यनक्षत्रमालास्तोत्रम्

Dakshinasyanakshatramalastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीदक्षिणास्यनक्षत्रमालास्तोत्रम् ||

श्रीकण्ठमिन्द्वर्भकभासिचूडं श्रीज्ञानदानव्रतबद्धदीक्षम् ।
श्रीशाम्बुजन्मप्रभवादिपूज्यं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १॥

हरन्तमानम्रजनानुतापं हयेभवक्त्रे डितपादपद्मम् ।
हृदा मुनीन्द्रैः परिचिन्त्यमानं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २॥

हस्ताब्जराजद्वरपुस्तमुद्रामुक्ताक्षमालामृतपूर्णकुम्भम् ।
हरिद्धवाकाङ्क्षितपादसेवं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ३॥

हंसाग्निचन्द्रेक्षणमन्धकारिमाकारनिर्धूतमनोजगर्वम् ।
हृतादिमाज्ञानमगोद्भवेशं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ४॥

हत्वा पुरा कालमखर्वगर्वं मृकण्डुसूनोः परिरक्षणं यः ।
चकार कारुण्यवशात्तमेनं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ५॥

हृत्वा तमः सत्वरमेव हार्दं दत्वा च बोधं परमार्थसंस्थम् ।
मोक्षं ददात्याशु नताय यस्तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ६॥

हसन्मुखाम्भोरुहमिन्दुकुन्दनीकाशदन्तावलिशोभमानम् ।
रदाम्बराधःकृतपक्वबिम्बं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥

हेलालवान्निर्मितविश्ववृन्दं बालारुणाभाङ्घ्रियुगं दयालुम् ।
पश्यन्तमुत्सङ्गगतं षडास्यं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ८॥

ह्रीमान्भवेद्देवगुरुर्यदीयपादाब्जसंसेवकलोकवाचा ।
तं दिव्यवाग्दानधुरीणमाशु श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ९॥

हारायिताहीशमनङ्गगर्वभङ्गप्रगल्भान्प्रणतानशेषान् ।
कुर्वन्तभिष्टप्रदमष्टमूर्तिं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १०॥

हरिर्जहाराचलकन्यका च यद्वर्ष्मणोऽर्धं तपसा हि पूर्वम् ।
अतोऽशरीरं तमशेषसंस्थं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ११॥

हन्यादशेषं कलुषं यदङ्घ्रिपूजा प्रदद्यादपि सर्वमिष्टम् ।
तं पार्वतीमानसराजहंसं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १२॥

हठादियोगान् प्रविधाय चित्तस्थैर्यं प्रपद्याङ्घ्रियुगं यदीयम् ।
ध्यायन्ति योगिप्रवरा मुदा तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १३॥

हितोपदेष्टा दयया नतानां निसर्गया यो यमिनां जवाद्धि ।
न्यग्रोधमूलैकनिकेतनं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १४॥

हतारिषट्कैरनुभूयमानं नितान्तमानन्दघनस्वरूपम् ।
नतापराधान्सहमानमीशं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १५॥

हित्वा धनापत्यकलत्रबन्धून् दत्त्वाभयं भूतततेर्द्विजाग्र्याः ।
यं यान्ति लोके शरणं सदा तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १६॥

हृदम्बुजाते विनिवेश्य चित्तं निरुध्य चक्षुःप्रमुखाक्षवर्गम् ।
ध्यायन्ति यं शैलसुतायुतं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १७॥

हासप्रभानिर्जितभाभिमानं प्रासार्थजुष्टां कवितां दिशन्तम् ।
नतोत्तमाङ्गेषु करं दधानं श्रीदक्षिणास्यं हृदि भाबयेऽहम् ॥ १८॥

हैय्यङ्गवीनं हृदयम्रदिम्ना स्वरेण हंसं चरणेन पद्मम् ।
हसन्तमंसाग्रलसज्जटालं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १९॥

हरेर्विधेश्चैव विवादशान्त्यै लिङ्गात्मना यः प्रबभूव पूर्वम् ।
तमादिमध्यान्तविहीनरूपं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २०॥

हुताशनादित्यमहीप्रमुख्या यस्याष्टमूर्तीर्निजगाद वेदः ।
तं सर्वलोकावनसक्तचित्तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २१॥

हस्त्यन्तलक्ष्मीमपि दीनवर्यः प्राप्नोति यत्पादसरोजनत्या ।
तं कल्पवल्लीमदभङ्गदक्षं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २२॥

हयाग्र्यमारुह्य गजोत्तमं वा समेत्य यत्पादयुगार्चकाय ।
यच्छन्ति राज्यं धरणीधवास्तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २३॥

हवींषि सञ्जुह्वति भूसुराग्र्याः कालेषु वह्नौ यदनुग्रहार्थम् ।
कर्मानुगुण्येन फलप्रदं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २४॥

हेत्या ललाटस्थशुचेर्महाघवनं दहन्तं तरसैव मोदात् ।
कुर्वन्तमारान्नतचित्तशुद्धिं श्रीदक्षिणास्यं हदि भावयेऽहम् ॥ २५॥

हेमाश्मनोः साम्यमतिं करोति यत्पादपाथोरुहसक्तचित्तः ।
वैराग्यदानैकधुरन्धरं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २६॥

हालास्यगोकर्णमुखेषु दिव्यक्षेत्रेषु वासं कृपया करोति ।
यः पादनम्रोद्धतये सदा तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २७॥

हंसेन केनापि परादिनेमां कृतां प्रयत्नादतिमोदतश्च ।
नक्षत्रमालां दधतां नराणां कण्ठे भविष्यत्यचिरात्पराप्तिः ॥ २८॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीदक्षिणास्यनक्षत्रमालास्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीदक्षिणास्यनक्षत्रमालास्तोत्रम् PDF

श्रीदक्षिणास्यनक्षत्रमालास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App