|| दयाष्टकम् ||
मातस्त्वां रमणेशसद्गुरुकृपे ! नाथामि नत्वा मुहुः
क्रुद्धे शान्तिनिकेतनेऽपि रमणे मत्सञ्चितैर्दुष्कृतैः ।
तत्काले भवती तदीयहृदये सान्निध्यमाबिभ्रती
यद्यस्मत्प्रियमातनोषि तदलं तस्य प्रिया त्वं यतः ॥ १॥
देवि ! त्वं करुणे ! श्रितासि रमणं सोऽपि त्वदावर्जितः
त्वां हित्वा प्रियवल्लभां स च नृणां भद्रं न कर्तुं क्षमः ।
त्वं चेत्तस्य विभोर्भवत्कृतपरिष्वङ्गैरपाङ्गैरमुं
मामालोकयसे क्षतिस्तव तु का किंस्याच्च मे दुर्दशा ॥ २॥
नाम्नासौ रमणस्समस्तजगतां जागर्ति ते गृह्यकः
भक्तार्तिप्रविधूननैकचतुरा मूर्तिस्तवान्यादृशी ।
तस्मान्मामकमानसार्तिहरणं कुर्या न चेत्त्वं कृपे !
नश्येद्धन्त तवाकृतिर्वद कथं स्यादात्मलाभस्तव ॥ ३॥
त्यक्त्वाऽन्यानखिलान् सुरान् सुरपतिं त्वद्वल्लभं सेवितुं
शान्तं श्रान्तिहरं तदाश्रमपदं मय्युद्यते गाहितुम् ।
मातः ! श्रीरमणैकवासिनि ! दये ! विघ्नाः प्ररूढा मुहुः
भिन्दंस्तान्पततात् कदा मयि जडे ते श्रान्तिहारी झरः ॥ ४॥
किं वा ते रचितं दये ! न रुचितं किञ्चिन्मयोपायनं
प्रागेव प्रबलापराधकबलस्त्वत्पादयोरर्पितः ।
सत्येवं हृदयज्वरं मम कथं हर्तुं विलम्बोऽब ! ते
बालस्यार्तिहृतौ समस्ति भुवने को वा विना मातरम् ॥ ५॥
एतस्यां दुरवस्थितौ विमुखता यद्यस्ति मत्पालने
मग्नोहं विपदम्बुधौ विगलितः क्लिश्नामि नश्यामि च ।
मग्ना स्या अयशोम्बुधौ त्वमपि, मे यत्किञ्चिदास्तामिदं
स्वोद्धारे तु दये ! स्वयं प्रयतनं कर्तव्यमेव त्वया ॥ ६॥
सार्वश्यादिगुणास्सहस्रगुणिता ये सन्ति दिव्याद्भुताः
ते सर्वे रमणं श्रिता अपि सदा व्यर्था भवत्या विना ।
स्वीयाख्यां रमणस्य निर्वहयितुं ते न क्षमास्त्वामृते
तस्मान्मामक मन्तुजालमखिलं क्षन्तुं दये ! अभ्यर्थये ॥ ७॥
पापौघं दलयस्यये ! कबलयस्यार्तीश्च कीर्तिं तनो-
ष्यानन्दं परमं च कन्दलयसि श्रेयांसि भूयांसि नः ।
ब्रह्माद्यानपि किङ्करान् वितनुषे मुक्तिं विदत्सेतरां
अम्ब ! श्रीरमणस्वरूपिणि कृपे! बद्धः प्राणामाञ्जलिः ॥ ८॥
कलिना बलिना कदर्थितानां स्वहितज्ञानविलुप्तमानसानाम् ।
इदमस्तु परायणं नराणां रमणेशीयदयाष्टकं धरण्याम् ॥ ९॥
इति दयाष्टकं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now