श्रीदुर्गाम्बास्तोत्रम्
< || श्रीदुर्गाम्बास्तोत्रम् || ज्ञानमात्रावशेषाया निष्पप्रपञ्चा निरङ्कुशा । चिदानन्दघनात्यच्छा दुर्गाम्बां तां उपास्महे ॥ १॥ मन्त्राणां मातृका देवि ज्ञानानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ २॥ यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता । दुर्गात्सन्त्रायते यस्मात् देवी दुर्गेति कथ्यते ॥ ३॥ प्रपद्ये शरणं देवि दुराचारविधातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ ४॥ इति श्रीसमर्थरामदासानुग्रहित श्रीरामपदपङ्कजभृङ्गायमान श्रीमत्परमहंसपरिव्राजकाचार्यवरभगवताश्रीश्रीधरस्वामिना विरचितं...