ऋषभकृता श्रीगणेशस्तुतिः

|| ऋषभकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ऋषभ उवाच । नमस्ते ब्रह्मरूपाय गणेश करुणानिधे । भेदाभेदादिहीनाय गणानां पतये नमः ॥ ४२॥ निराकाराय नित्याय जगदाकारमूर्तये । अनन्ताय परेशाय परात्परतराय ते ॥ ४३॥ आदिमध्यान्तहीनाय गुणाकाराय ते नमः । गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ ४४॥ नमो नानावताराय भक्तपालनहेतवे । सुरासुरमयायैव सुरासुरसुपूजित ॥ ४५॥ योगाय योगदात्रे च…

श्रीशिवकृतं श्रीगणेशवज्रपञ्जरस्तोत्रम्

|| श्रीशिवकृतं श्रीगणेशवज्रपञ्जरस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ढुण्ढये । परेशाय च हेरम्बाय पाशिने नमो नमः ॥ १९॥ मूषकवाहनायैव नमः परशुपाणये । दन्ताभयधरायैव त्रिनेत्राय नमो नमः ॥ २०॥ शूर्पकर्णाय वीराय चन्द्ररेखाधराय ते । सिन्दूरभूषणायैव रक्तरङ्गाय ते नमः ॥ २१॥ हेरम्बाय महाविघ्नवारणाय गजानन । आदिपूज्याय सर्वेषां पूज्याय ते नमो नमः…

गणेशलीलास्तुतिः

|| गणेशलीलास्तुतिः || अद्रिराजज्येष्ठपुत्र हे गणेश विघ्नहन् पद्मयुग्मदन्तलड्डुपात्रमाल्यहस्तक । सिंहयुग्मवाहनस्थ भालनेत्रशोभित कल्पवृक्षदानदक्ष भक्तरक्ष रक्ष माम् ॥ १॥ एकदन्त वक्रतुण्ड नागयज्ञसूत्रक सोमसूर्यवह्निमेयमानमातृनेत्रक । रत्नजालचित्रमालभालचन्द्रशोभित कल्पवृक्षदानदक्ष भक्तरक्ष रक्ष माम् ॥ २॥ वह्निसूर्यसोमकोटिलक्षतेजसाधिक- द्योतमानविश्वहेतिवेचिवर्गभासक । विश्वकर्तृविश्वभर्तृविश्वहर्तृवन्दित कल्पवृक्षदानदक्ष भक्तरक्ष रक्ष माम् ॥ ३॥ स्वप्रभावभूतभव्यभाविभावभासक कालजालबद्धवृद्धबाललोकपालक । ऋद्धिसिद्धिबुद्धिवृद्धिभुक्तिमुक्तिदायक कल्पवृक्षदानदक्ष भक्तरक्ष रक्ष माम् ॥ ४॥ मूषकस्थ विघ्नभक्ष्य रक्तवर्णमाल्यधृन्- मोदकादिमोदितास्यदेववृन्दवन्दित । स्वर्णदीसुपुत्र…

गणेशलीलास्तुतिः २

|| गणेशलीलास्तुतिः २ || ॐलाक्षासिन्दूरवर्णं सुरवरनमितं मोदकैर्मोदितास्यं हस्ते दन्तं ददानं हिमकरसदृशं तेजसोग्रं त्रिनेत्रम् । दक्षे रत्नाक्षसूत्रं वरपरशुधरं साखु सिंहासनस्थं गाङ्गेयं रौद्रमूर्तिं त्रिपुरवधकरं विघ्नभक्षं नमामि ॥ १॥ गौरीपुत्रं त्रिनेत्रं गजमुखसहितं नागयज्ञोपवीतं पद्माक्षं सर्वभक्षं सकलजनप्रियं सर्वगन्धर्वपूज्यम् । सम्पूर्णभालचन्द्रं वरदमतिबलं हन्तृकं चासुराणां हेरम्बमादिदेवं गणपतिममलं सिद्धिदातारमीडे ॥ २॥ यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथान्ये । विश्वोद्गतेः कारणमीश्वरं…

श्रीगणेशमानसपूजास्तोत्रम्

|| श्रीगणेशमानसपूजास्तोत्रम् || श्रीजगद्गुरु श‍ृङ्गेरी श्रीचन्द्रशेखरभारती स्वामि अनुगृहीता वात्सल्यभाजनमगाधिपकन्यकाया मात्सर्यशून्यहृदयैर्भुवि भावनीयम् । प्रत्यूहजातविनिपातनलब्धवर्ण- मत्यूर्जितं हृदि भजामि गणाधिनाथम् ॥ १॥ आवाहयामि गणनाथमुमामहेश- सर्वस्वभूतमपनीतदुरन्तरायम् । योगीन्द्रमानससरोरुहंसविकास- लीलाविशेषचतुरं निगमान्तनिष्ठम् ॥ २॥ माणिक्यमञ्जुलमरीचिमनोज्ञपार्श्वं सान्द्रीभवन्मरकतावलिमेचकाभम् । मुक्तामणिप्रकरमेदुरितान्तरालं रत्नासनं तव हृदा परिकल्पयामि ॥ ३॥ गङ्गादिपुण्यसरितां परिपूततीर्थैः पाद्यं तवाद्यवधिशून्य समर्पयामि । अर्घ्यं ददाम्यहमनर्घगुणाभिराम प्रत्यूहवारण सुवारणवक्त्र तुभ्यम् ॥ ४॥ प्रत्याहृतैरखिलपुण्यसरिद्वराभ्य- स्तीर्थैर्ददाम्यमलमाचमनं च तुभ्यम्…

श्रीगणेशमन्त्रप्रभावस्तुतिः

|| श्रीगणेशमन्त्रप्रभावस्तुतिः || ओमित्यादौ वेदविदो यं प्रवदन्ति ब्रह्माद्या यं लोकविधाने प्रणमन्ति । योऽन्तर्यामी प्राणिगणानां हृदयस्थः तं विघ्नेशं दुःखविनाशं कलयामि ॥ १॥ गङ्गागौरीशङ्करसन्तोषकवृत्तं गन्धर्वालीगीतचरित्रं सुपवित्रम् । यो देवानामादिरनादिर्जगदीशः तं विघ्नेशं दुःखविनाशं कलयामि ॥ २॥ गच्छेत्सिद्धिं यन्मनुजापी कार्याणां गन्ता पारं संसृतिसिन्धोर्यद्वेत्ता । गर्वग्रन्थेर्यः किल भेत्ता गणराजः तं विघ्नेशं दुःखविनाशं कलयामि ॥ ३॥ तण्येत्युच्चैर्वर्णजमादौ पूजार्थं यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम्…

श्रीगणेशमङ्गलाष्टकम्

|| श्रीगणेशमङ्गलाष्टकम् || गजाननाय गाङ्गेय सहजाय सदात्मने । गौरीप्रियतनूजाय गणेशायास्तु मङ्गलम् ॥ १॥ नागयज्ञोपवीताय नतविघ्नविनाशिने । नन्द्यादिगणनाथाय नायकायास्तु मङ्गलम् ॥ २॥ इभवक्त्राय चेन्द्रादिवन्दिताय चिदात्मने । ईशानप्रेमपात्राय नायकायास्तु मङ्गलम् ॥ ३॥ सुमुखाय सुशुण्डाग्रोक्षिप्तामृतघटाय च । सुरवृन्दनिषेव्याय चेष्टदायास्तु मङ्गलम् ॥ ४॥ चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च । चरणावनतानर्थतारणायास्तु मङ्गलम् ॥ ५॥ वक्रतुण्डाय वटवे वन्याय वरदाय च । विरूपाक्षसुतायास्तु विघ्ननाशाय…

श्रीगणेशपञ्चाशन्नामस्तोत्रम्

|| श्रीगणेशपञ्चाशन्नामस्तोत्रम् || श्री गणेशाय नमः । ऋषय ऊचुः । गणेशो गणनाथश्च हेरम्बो गिरिशात्मजः । पार्वतीनन्दनो वीरो देवराजो गजाननः ॥ १॥ लम्बोदरो विघ्नराजो योगी सद्योगलक्षणः । अग्रपूज्यश्चतुर्बाहुरेकदन्तो लिपीश्वरः ॥ २॥ व्याघ्रचर्माम्बरो धीरः सदामङ्गलरूपवान् । शुक्लास्यो मूषिकारोही केवलो मोक्षदायकः ॥ ३॥ पद्मी दन्तकरो दन्ती वैष्णवः परमार्थदृक् । पञ्चपाणिः पञ्चवक्त्रः शिवः शङ्कर ईश्वरः ॥ ४॥ हरिगाता नृत्यकारी…

श्रीगणेशपञ्चचामरस्तोत्रम्

|| श्रीगणेशपञ्चचामरस्तोत्रम् || श्रीगणेशाय नमः । ललाट-पट्टलुण्ठितामलेन्दु-रोचिरुद्भटे वृताति-वर्चरस्वरोत्सररत्किरीट-तेजसि । फटाफटत्फटत्स्फुरत्फणाभयेन भोगिनां शिवाङ्कतः शिवाङ्कमाश्रयच्छिशौ रतिर्मम ॥ १॥ अदभ्र-विभ्रम-भ्रमद्-भुजाभुजङ्गफूत्कृती- र्निजाङ्कमानिनीषतो निशम्य नन्दिनः पितुः । त्रसत्सुसङ्कुचन्तमम्बिका-कुचान्तरं यथा विशन्तमद्य बालचन्द्रभालबालकं भजे ॥ २॥ विनादिनन्दिने सविभ्रमं पराभ्रमन्मुख- स्वमातृवेणिमागतां स्तनं निरीक्ष्य सम्भ्रमात् । भुजङ्ग-शङ्कया परेत्यपित्र्यमङ्कमागतं ततोऽपि शेषफूत्कृतैः कृतातिचीत्कृतं नमः ॥ ३॥ विजृम्भमाणनन्दि-घोरघोण-घुर्घुरध्वनि- प्रहास-भासिताशमम्बिका-समृद्धि-वर्धिनम् । उदित्वर-प्रसृत्वर-क्षरत्तर-प्रभाभर- प्रभातभानु-भास्वरं भवस्वसम्भवं भजे ॥ ४॥ अलङ्गृहीत-चामरामरी…

काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रम्

|| काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रम् || नमोऽनन्तशक्ते गुणानामधीश नमोऽरिष्टहन्त्रे नमः सृष्टिकर्त्रे । नमो विश्वपात्रे नमो विघ्नहन्त्रे नमो ज्ञानदात्रे नमोऽज्ञानहन्त्रे ॥ ४६॥ अकालप्रलयाद् देव ! वीतिहोत्राज्जगत्पते । लीलावतार ! दैत्योभ्यो रक्षिता लीलया त्वया ॥ ४७॥ कस्य सामर्थ्यमेतावद् वह्निं पातुं महाबलम् । भूगोलसदृशास्यं को हन्यादन्यो महासुरम् ॥ ४८॥ मृतानां जीवनं को नु त्वदन्यः कर्तुमुत्सहेत् । त्वमेव जननी देव !…

श्रीगणेशनामाष्टकस्तोत्रम्

|| श्रीगणेशनामाष्टकस्तोत्रम् || श्रीकृष्ण उवाच श्रुणु देवि महाभागे वेदोक्तं वचनं मम । यच्छ्रुत्वा हर्षिता नूनं भविष्यसि न संशयः । विनायकस्ते तनयो महात्मा महतां महान् ॥ यं कामः क्रोध उद्वेगो भयं नाविशते कदा । वेदस्मृतिपुराणेषु संहितासु च भामिनि ॥ नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः । यानि तानि प्रवक्ष्यामि निखिलाघहराणि च ॥ प्रमथानां गणा यै च नानारूपा महाबलाः ।…

श्रीगणेशद्वादशाङ्गेषुमन्त्राः

|| श्रीगणेशद्वादशाङ्गेषुमन्त्राः || ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अर्चनं द्वादशाङ्गेषु यः कुर्यान् मन्त्रपूर्वकम् । सर्वाङ्गलेपनेनैव तत्र मन्त्रान् श‍ृणु प्रभो ॥ ११॥ गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतो न्यसेत् । स्वानन्दवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥ १२॥ ललाटं गणनाथाय नम उच्चार्य चार्चयेत् । दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥ १३॥ वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः…

श्रीगणेशद्वादशनामस्तोत्रम् नामावलीसहितम्

|| श्रीगणेशद्वादशनामस्तोत्रम् नामावलीसहितम् || ब्रह्मोवाच । सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ ३६॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ ३७॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ३८॥ शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ३९॥ कोटिकन्याप्रदानानि कोटियज्ञं व्रतानि च…

श्रीगणेशदुर्गस्तोत्रम्

|| श्रीगणेशदुर्गस्तोत्रम् || श्रीकृष्ण उवाच । वद शिवमहानाथ पार्वतीरमणेश्वर । दैत्यसङ्ग्रामवेलायां स्मरणीयं किमीश्वर ॥ १॥ ईश्वर उवाच । श‍ृणुकृष्ण प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । गणेशदुर्गदिव्यं च श‍ृणु वक्ष्यामि भक्तितः ॥ २॥ त्रिपुरवधवेलायां स्मरणीयं कमीश्वर । दिव्यदुर्गप्रसादेन त्रिपुराणां वधः कृतः ॥ ३॥ श्रीकृष्ण उवाच । हेरम्बस्य दुर्गमिदं वद त्वं भक्तवत्सल । ईश्वर उवाच । श‍ृणु वत्स प्रवक्ष्यामि…

श्रीगणपति तोटकपञ्चकस्तुतिः

|| श्रीगणपति तोटकपञ्चकस्तुतिः || प्रणवःप्रभशोभित शान्ततनो शिवपार्वतिलालित बालतनो । वरमोदकहस्त मनोज्ञतनो वहते हृदये गणराजतनो ॥ (१) अपरोक्षसुधारसहर्षनिधे परमार्थविबोधकसत्त्वनिधे । श्रुतिवन्दितचित्परतत्त्वनिधे शरणं शरणं गजवक्त्रगुरो ॥ (२) अतिसुन्दर कुञ्जर बालगुरो अवबोध निसर्ग सुजूर्णिमयम् । परितुष्य पदाम्बुरुहं भवतां दयया परिदर्शय मां सततम् ॥ (३) परितप्यति दुःसह लोक जना कृमिजातिज मण्डित घोरविषात् । कृपया परिरक्षतु विघ्नहर शरणागत वत्सल भक्तपते…

श्रीगणेशचतुर्युगावतारस्तोत्रम्

|| श्रीगणेशचतुर्युगावतारस्तोत्रम् || मुनिरुवाच । गौरि ! तेऽयं सुतो ब्रह्मस्वरूपो भासते मम ॥ ९॥ षट्चक्रभेदनरता योगनिष्ठा महर्षयः । वायुभक्षा उपासन्ते यं ते सोऽयं तवात्मजः ॥ १०॥ गुणत्रयविभेदेन त्रितनुस्त्रिक्रियाकरः । यत्सत्तयाऽथ शेषोऽपि वहते मस्तके भुवम् ॥ ११॥ अणुरूपः स्थूलरूपः सप्तविंशतितत्त्वकृत् । चेतनाचेतनं विश्वं यद्रूपं सर्वकर्मकृत् ॥ १२॥ युगे दशभुजः पूर्वे सिंहारूढो विनायकः । द्वितीये षड्भुजो बर्हिवाहनः…

श्रीगणेशगीतासारस्तोत्रम्

|| श्रीगणेशगीतासारस्तोत्रम् || श्री गणेशाय नमः । शिव उवाच । गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः । पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥ १॥ गणेश उवाच । देहश्चतुर्विधः प्रोक्तस्त्वंपदं ब्रह्मभिन्नतः । सोऽहं देहि चतुर्धा तत्पदं ब्रह्म सदैकतः ॥ २॥ संयोग उभयोर्यच्चासिपदं ब्रह्म कथ्यते । स्वत उत्थानकं देवा विकल्पकरणात्रिधा ॥ ३॥ सदा स्वसुखनिष्ठं यद्ब्रह्म सांख्यं प्रकीर्तितम् ।…

श्रीगणेशकुण्डतीर्थस्तोत्रम्

|| श्रीगणेशकुण्डतीर्थस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नमामि तीर्थं गणनायकस्य गणेशकुण्डं गणनातिगं च । अनन्ततीर्थप्रभवं पुराणं संसेविनां ब्रह्मप्रदं निजात्म्यम् ॥ २॥ अभेदभेदादिविहीनरूपं चतुष्पदं पञ्चममाद्यभूतम् । गणेशमायाकृतदृश्यभावं नमामि कैवल्यघनं परेषाम् ॥ ३॥ भवत्प्रसूतं च तुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् । अहं विशुद्धोऽपि च दर्शनेनाऽभवं कृतब्रह्मकमण्डलुस्थम् ॥ ४॥ तदेव त्रैगुण्यमयं बभूव भागीरथीस्थं रविजामयं च । सरस्वतीस्थं…

श्रीगणेशकीलकस्तोत्रम्

|| श्रीगणेशकीलकस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् । मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥ १॥ मुद्गल उवाच । कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः । आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ २॥ तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः । भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम् ॥ ३॥ समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् ।…

श्रीगणेशकवचम्

|| श्रीगणेशकवचम् || श्रीगणेशाय नमः ॥ गौर्युवाच । एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । (बालो दैत्यान्हन्ति बहूनपि) अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥ दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः । अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धमर्हसि ॥ २॥ मुनिरुवाच । ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्…

मुद्गलकृतं गणेशकवचम्

|| मुद्गलकृतं गणेशकवचम् || मुनिरुवाच । ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायान्तु मयूरवाहनमिमं षड्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ १८॥ विनायकः शिखां पातु परमात्मा परात्परः । अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ १९॥ ललाटं काश्यपः पातु भ्रूयुगन्तु महोदरः । नयने भालचन्द्रस्तु गजास्यत्वोष्ठपल्लवौ ॥ २०॥ जिह्वां पातु गणक्रीडश्चिबुकं…

श्रीगणाध्यक्षस्तोत्रं ईक्ष्वाकुकृत

|| श्रीगणाध्यक्षस्तोत्रं ईक्ष्वाकुकृत || भरद्वाज उवाच कथं स्तुतो गणाध्यक्षस्तेन राज्ञा महात्मना । यथा तेन तपस्तप्तं तन्मे वद महामते ॥ १॥ सूत उवाच चतुर्थीदिवसे राजा स्नात्वा त्रिषवणं द्विज । रक्ताम्बरधरो भूत्वा रक्तगन्धानुलेपनः ॥ २॥ सुरक्तकुसुमैर्हृद्यैर्विनायकमथार्चयत् । रक्तचन्दनतोयेन स्नानपूर्वं यथाविधि ॥ ३॥ विलिप्य रक्तगन्धेन रक्तपुष्पैः प्रपूजयत् । ततोऽसौ दत्तवान् धूपमाज्ययुक्तं सचन्दनम् । नैवेद्यं चैव हारिद्रं गुडखण्डघृतप्लुतम् ॥…

श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम्

|| श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् || श्रीगणेशाय नमः । श्रीशक्तिशिवावूचतुः । नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥ वरदाभयहस्ताय नमः परशुधारिणे । नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३॥ अनामयाय सर्वाय सर्वपूज्याय ते नमः । सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च…

योगशान्तिप्रदं गणाधीशस्तोत्रम्

|| योगशान्तिप्रदं गणाधीशस्तोत्रम् || श्रीगणेशाय नमः । कर्दम उवाच । केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते । तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥ १॥ कपिल उवाच । गणेशभजनं मुख्यं शान्तियोगप्रदं मतम् । योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥ २॥ सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने । य आदिः प्रलयान्ते स तिष्ठति शास्त्रसंमतम् ॥ ३॥ ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति…

सूर्यकृता श्रीगणाधीशस्तुतिः

|| सूर्यकृता श्रीगणाधीशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ सूर्य उवाच । नमस्ते विकटायैव मायामायिकरूपिणे । वामाङ्गे संज्ञया युक्त दक्षिणाङ्गे च भानवे ॥ १०॥ तयोर्योगे गणाधीश सिद्धिबुद्धिपतिर्मतः । गजाननादिचिह्नैश्च संयुतस्ते नमो नमः ॥ ११॥ एकमेवाद्वितीयं यद्ब्रह्म तद्वर्णये कथम् । धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥ १२॥ गजाननाय सर्वादिपूज्याय परमात्मने । हेरम्बाय सदा ज्येष्ठराजाय ते नमो नमः…

श्रीगणाधिपति पञ्चरत्नस्तोत्रम्

|| श्रीगणाधिपति पञ्चरत्नस्तोत्रम् || ॐ सरागिलोकदुर्लभं विरागिलोकपूजितं सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चकाः नमामि तं गणाधिपं कृपापयः पयोनिधिम् ॥ १॥ गिरीन्द्रजामुखाम्बुज प्रमोददान भास्करं करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् । सरीसृपेश बद्धकुक्षिमाश्रयामि सन्ततं शरीरकान्ति निर्जिताब्जबन्धुबालसन्ततिम् ॥ २॥ शुकादिमौनिवन्दितं गकारवाच्यमक्षरं प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये । चकासतं चतुर्भुजैः विकासिपद्मपूजितं प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३॥ नराधिपत्वदायकं स्वरादिलोकनायकं ज्वरादिरोगवारकं निराकृतासुरव्रजम् । कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैः…

श्रीगणपतिस्तोत्रम् ७

|| श्रीगणपतिस्तोत्रम् ७ || आस्ते घोरसमुद्रवासवदिशापारस्थलीगोपुरात् बाह्ये वामकरर्थकाशविषये माद्यं महान् पिप्पलः । आस्थानं यदुपान्तधन्यधरणीमास्थाय देवः स्वयं दन्तीन्द्राननविग्रहस्त्रिभुवनं पुष्णाति तैस्तैर्व रैः ॥ १॥ पुरप्रसरदद्भुतं प्रथितदानतिभ्यत्करं विभोरभिनवात्मजं वटतरुस्थलावासितम् । मुहुः फलितपिप्पलद्रुमतटीनिरूढास्पदं- महागजमदाननं मणिनिधानमाराधये ॥ २॥ परिमलपरिणम्रैः कम्रनानाप्रसूनै- रविरतमभिरामैरात्तभूषाविशेषम् । अपि च निचितलीलाकल्पशिल्पोपचारै- रुपचितमभिवन्दे दैवतं दन्तिवक्त्रम् ॥ ३॥ चलदलतटभूमिभूषणं मदकलकुञ्जरमञ्जुलाननम् । भजत भजत वृष्टिभि —- र्हरितहरेण करेण भूषितम्…

श्रीगणपतिस्तोत्रम् ५

|| श्रीगणपतिस्तोत्रम् ५ || द्विरदानन विघ्नकाननज्वलन त्वं प्रथमेशनन्दन । मदनपतिमाखुवाहन ज्वलनाभासितपिङ्गलोचन ॥ १॥ अहिबन्धन रक्तचन्दन प्रियदूर्वाङ्कुरभारपूजन । शशिभूषण भक्तपालन ज्वलनाक्षाऽव निजान्निजावन ॥ २॥ विविधामरमत्र्यनायकः प्रथितस्त्वं भुवने विनायकः । तव कोऽपि हि नैव नायकस्तत एव त्वमजो विनायक ॥ ३॥ बलिनिग्रह ईश केशवस्त्रिपुराख्यासुरनिग्रहे शिवः । जगदुद्भवनेऽब्जसम्भवः सकलान्जेतुमहो मनोभवः ॥ ४॥ महिषासुरनिग्रहे शिवा भवमुक्त्यै मुनयो धृताशिवाः । यमपूजयदिष्टसिद्धये…

गणपतिस्तोत्रम् ४

|| गणपतिस्तोत्रम् ४ || जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्वलिं बध्नता स्त्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धरम् । पार्वत्या महिषासुरप्रमथने सिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितये पायात् स नागाननः ॥ १॥ विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाड् विघ्नव्यालकुलाभिमानगरुडो विघ्नेभपञ्चाननः । विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधेर्वाडवो विघ्नाघौधघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥ २॥ खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम् । दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकर वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ॥…

गणपतिस्तोत्रम्

|| गणपतिस्तोत्रम् || सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् । चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ १॥ किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकङ्कणं प्रशोभिताङ्ङ्घ्रयष्टिकम् । प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरलहेमनूपुरं प्रशोभिताङ्घ्रिपङ्कजम् ॥ २॥ सुवर्णदण्डमण्डितप्रचण्डचारुचामरं गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् । कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं षडक्षरस्वरूपिणं भजेद्गजेन्द्ररूपिणम् ॥ ३॥ विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतिं गिरीशदर्शनेच्छया समर्पितं पराशया । निरन्तरं सुरासुरैः सपुत्रवामलोचनैः महामखेष्टमिष्टकर्मसु (स्मृतं) भजामि तुन्दिलम् ॥ ४॥ मदौघलुब्धचञ्चलार्कमञ्जुगुञ्जितारवं प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम्…

श्रीगणपतिस्तोत्रम् २

|| श्रीगणपतिस्तोत्रम् २ || श्री गणेशाय नमः । ॐ नमो विघ्नराजाय सर्वसौख्यप्रदायिने । दुष्टारिष्टविनाशाय पराय परमात्मने ॥ १॥ लम्बोदरं महावीर्यं नागयज्ञोपशोभितम् । अर्धचन्द्रधरं देवं विघ्नव्यूहविनाशनम् ॥ २॥ ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः हेरम्बाय नमो नमः । सर्वसिद्धिप्रदोऽसि त्वं सिद्धिबुद्धिप्रदो भव ॥ ३॥ चिन्तितार्थप्रदस्त्वं हि सततं मोदकप्रियः । सिन्दूरारुणवस्त्रैश्च पूजितो वरदायकः ॥ ४॥ इदं…

श्रीमहालक्ष्मिकृतम् गणपतिस्तोत्रम्

|| श्रीमहालक्ष्मिकृतम् गणपतिस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ श्रीमहालक्ष्मीरुवाच । नमो महाधरायैव नानालीलाधराय ते । सदा स्वानन्दसंस्थाय भक्तिगम्याय वै नमः ॥ १॥ अनन्ताननदेहाय ह्यनन्तविभवाय ते । अनन्तहस्तपादाय सदानन्दाय वै नमः ॥ २॥ चराचरमयायैव चराचरविवर्जित । योगशान्तिप्रदात्रे ते सदा योगिस्वरूपिणे ॥ ३॥ अनादये गणेशायादिमध्यान्तस्वरूपिणे । आदिमध्यान्तहीनाय विघ्नेशाय नमो नमः ॥ ४॥ सर्वातिपूज्यकायैव सर्वपूज्याय ते नमः ।…

गणपतिमालामन्त्राः

|| गणपतिमालामन्त्राः|| ॐ क्लीं ह्रीं श्रीं ऐं ग्लौं ॐ ह्रीं क्रौं गं ॐ नमो भगवते महागणपतये स्मरणमात्रसन्तुष्टाय सर्वविद्याप्रकाशाय सर्वकामप्रदाय भवबन्धविमोचनाय ह्रीं सर्वभूतबन्धनाय क्रों साध्याकर्षणाय क्लीं जगत्त्रय वशीकरणाय सौः सर्वमनःक्षोभणाय श्रीं महासम्पत्प्रदाय ग्लौं भूमण्डलाधिपत्यप्रदाय महाज्ञानप्रदाय चिदानन्दात्मने गौरीनन्दनाय महायोगिने शिवप्रियाय सर्वानन्दवर्धनाय सर्वविद्याप्रकाशनप्रदाय द्रां चिरञ्जीविने ब्लूं सम्मोहनाय ॐ मोक्षप्रदाय, फट् वशीकुरु वशीकुरु, वौषडाकर्षणाय हुं विद्वेषणाय विद्वेषय विद्वेषय, फट्…

श्रीगणपतिमङ्गलमालिकास्तोत्रम्

|| श्रीगणपतिमङ्गलमालिकास्तोत्रम् || श्रीकण्ठप्रेमपुत्राय गौरीवामाङ्गवासिने । द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् ॥ १॥ आदिपूज्याय देवाय दन्तमोदकधारिणे । वल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् ॥ २॥ लम्बोदराय शान्ताय चन्द्रगर्वापहारिणे । गजाननाय प्रभवे श्रीगणेशाय मङ्गलम् ॥ ३॥ पञ्चहस्ताय वन्द्याय पाशाङ्कुशधराय च । श्रीमते गजकर्णाय श्रीगणेशाय मङ्गलम् ॥ ४॥ द्वैमातुराय बालाय हेरम्बाय महात्मने । विकटायाखुवाहाय श्रीगणेशाय मङ्गलम् ॥ ५॥ पृष्णिश‍ृङ्गायाजिताय क्षिप्राभीष्टार्थदायिने । सिद्धिबुद्धिप्रमोदाय…

गणनायकाष्टकम्

|| गणनायकाष्टकम् || एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् । लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १॥ मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् । बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २॥ अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् । भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३॥ चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् । चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ ४॥ गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् । पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ५॥ मूषकोत्तममारुह्य देवासुरमहाहवे योद्धुकामं महावीर्यं वन्देऽहं…

जन्ममृत्युविहीनं श्रीगणनाथस्तोत्रम्

|| जन्ममृत्युविहीनं श्रीगणनाथस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ गर्भ उवाच । नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे । अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ १॥ ज्येष्ठराजाय देवाय देवदेवेशमूर्तये । अनादये परेशाय चादिपूज्याय ते नमः ॥ २॥ सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः । सर्वादये परब्रह्मन् सर्वेशाय नमो नमः ॥ ३॥ गजाकारस्वरूपाय गजाकारमयाय ते । गजमस्तकधाराय गजेशाय नमो नमः…

गणनाथस्तुतिः वैराटदेवेन कृता

|| गणनाथस्तुतिः वैराटदेवेन कृता || श्रीगणेशाय नमः । पार्वत्युवाच । श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् । कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ १॥ शिव उवाच । पञ्चकोटिप्रविस्तारे योजनानां समन्ततः । तस्य देहे च भूतानि स्थावराणि चराणि च ॥ २॥ संस्थितानि च सर्वाणि भुवनानि चतुर्दश । तत्तेऽहं संप्रवक्ष्यामि समाहितमनाः श‍ृणु ॥ पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् ।…

रामकृता श्रीगणनाथस्तुतिः

|| रामकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ राम उवाच । नमस्ते गणनाथाय भक्तानन्दविवर्धन । भक्तिप्रियाय देवाय हेरम्बाय नमो नमः ॥ ४०॥ वेदान्तवेद्यरूपाय मनोवाणीमयाय च । मनोवाणीविहीनाय योगाकाराय ते नमः ॥ ४१॥ गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे । सगुणाय च कण्ठाधो नराकाराय ते नमः ॥ ४२॥ अनादये च पूज्याय सर्वेषां सर्वदायिने । आदिपूज्याय विघ्नेश नानाविघ्नप्रचालक ॥…

मयूरेशकृता श्रीगणनाथस्तुतिः

|| मयूरेशकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ मयूरेश उवाच । नमस्ते गणनाथाय सर्वविघ्नविदारिणे । भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥ ४८॥ ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने । अमेयमायया युक्ताय नमो ढुण्ढये नमः ॥ ४९॥ वक्रतुण्डाय वक्राणां नाशकार परात्मने । लम्बोदराय सर्वेषां जठरस्थाय ते नमः ॥ ५०॥ चिन्तामणिस्वरूपाय पञ्चचित्तप्रधारिणे । हेरम्बाय परेशानां दीनानां बीजरूपिणे ॥ ५१॥…

ब्रह्माद्याकृता श्रीगणनाथस्तुतिः

|| ब्रह्माद्याकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ब्रह्माद्या ऊचुः । अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासम् । मनोवचोहीनमनोवचःस्थं नमामहे तं गणनाथमीड्यम् ॥ २४॥ अजं पुराणं सकलादिपूज्यं परेशमानन्दप्रदं हृदिस्थम् । चतुःप्रचालं परमार्थभूतं नमामहे तं गणनाथमीड्यम् ॥ २५॥ जगत् स्वकोत्थानबलेन सृष्ट्वा स्वबोधगं यं जगतीशसंस्थम् । विदेहभावेन सदात्मसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २६॥ तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं…

देवर्षयकृता श्रीगणनाथस्तुतिः

|| देवर्षयकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्तेऽस्तु मयूरेश सर्वसिद्धिप्रदायक । ज्ञानदात्रे स्वभक्तेभ्यः पालकाय नमो नमः ॥ ८॥ स्वानन्दवासिने तुभ्यं परात्परतराय च । ढुण्ढिराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ९॥ अनादये च सर्वेषां पूज्याय परमात्मने । अनन्ताननधारायानन्तरूपाय ते नमः ॥ १०॥ सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिवराय च । ज्येष्ठराजाय ज्येष्ठेभ्यो वरदाय नमो…

कार्तवीर्यकृता श्रीगणनाथस्तुतिः

|| कार्तवीर्यकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ कार्तवीर्य उवाच । नमस्ते गणनाथाय विघ्नेशाय नमो नमः । विनायकाय देवेश सर्वेषां पतये नमः ॥ २८॥ निर्गुणाय परेशाय परात्परतराय वै । अनादये च सर्वादिपूज्याय तु नमो नमः ॥ २९॥ सर्वपूज्याय हेरम्ब दीनपालाय ते नमः । ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः ॥ ३०॥ निराकाराय साकाररूपाय परमात्मने ।…

सर्वेष्टप्रदं गजाननस्तोत्रम्

 || सर्वेष्टप्रदं गजाननस्तोत्रम् || श्रीगणेशाय नमः । कपिल उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १॥ आकाशाय च भूतानां मनसे चामरेषु ते । बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २॥ देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् । तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३॥ साङ्ख्याय वै विदेहानां संयोगानां निजात्मने । चतुर्णां पञ्च…

गजाननस्तोत्रं देवर्षिकृतम्

|| गजाननस्तोत्रं देवर्षिकृतम् || श्रीगणेशाय नमः ॥ मुद्गल उवाच – शान्ति-रूप-धरं लोभं दृष्ट्वा देवर्षयोऽमलाः । गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥ गजाननं पूजयित्वा विधानेन सुरर्षयः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटैः ॥ (सुरर्षय ऊचुः -) देवर्षय ऊचुः । (मुद्गल उवाच ।) विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वसुखप्रदम् तम् । अमेयसांख्येन च लक्ष्मीशं गजाननं भक्तियुतं भजामः…

श्रीगजाननस्तोत्रम्

|| श्रीगजाननस्तोत्रम् || श्रीगणेशाय नमः । जय देव गजानन प्रभो जय सर्वासुरगर्वभेदक । जय सङ्कटपाशमोचन प्रणवाकार विनायकाऽव माम् ॥ १॥ तव देव जयन्ति मूर्तयः कलितागण्यसुपुण्यकीर्तयः । मनसा भजतां हतार्तयः कृतशीघ्राधिककामपूर्तयः ॥ २॥ तव रम्यकथास्वनादरः स नरो जन्मलयैकमन्दिरम् । न परत्र न चेह सौख्यभाङ् निजदुष्कर्मवशाद्विमोहभाक् ॥ ३॥ गजवक्त्र तवाङ्घ्रिपङ्कजे ध्वजवज्राङ्कयुते सदा भजे । तव मूर्तिमहं परिष्वजे…

विघ्नासुरकृता श्रीगजाननस्तुतिः

|| विघ्नासुरकृता श्रीगजाननस्तुतिः || ॥ श्रीगणेशाय नमः ॥ विघ्नासुर उवाच । नमस्ते गणनाथाय गजाननस्वरूपिणे । योगाय योगनाथाय योगिभ्यो योगदायिने ॥ १५॥ अनाकाराय साकाररूपाय ते नमो नमः । नानाभेदविहीनाय भेदानां पतये नमः ॥ १६॥ विघ्नेशाय परेशाय कालभीतिहराय ते । हेरम्बाय परेषां वै परात्पर नमो नमः ॥ १७॥ अनादये ह्यनाथाय सर्वेषामादिमूर्तये । भक्तेशाय सदा भक्तवाञ्छितप्रद ते नमः…

गजाननस्तुतिः लोभासुरेण प्रोक्ता

|| गजाननस्तुतिः लोभासुरेण प्रोक्ता || ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच – तं प्रणम्य महादैत्यो लोभः परशुं उत्तमम् । कृताञ्जलिः प्रतुष्टाव भयभीतः समन्ततः ॥ ३॥ लोभासुर उवाच । नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे । नानाशस्त्राणि शस्त्रेश! त्वदाधाराणि ते नमः ॥ ४॥ प्रलयानलसङ्काशं स्वरूपं धरते नमः । अनन्तवीर्ययुक्ताय भास्करामिततेजसे ॥ ५॥ दृश्यादृश्यमयायैव सर्वदर्पहराय ते । धर्मसंस्थापनार्थाय नानारूपधराय…

परशुरामकृता गजाननस्तुतिः

 || परशुरामकृता गजाननस्तुतिः || परशुराम उवाच । सहस्रादित्यसङ्काश ! नमस्ते जगदीश्वर ! । नमस्ते सर्वविद्येश ! सर्वसिद्धिप्रदायक ! ॥ ३१॥ विघ्नानां पतये तुभ्यं नमो विघ्ननिवारण ! । सर्वान्तर्यामिणे तुभ्यं नमः सर्वप्रियङ्कर ! ॥ ३२॥ भक्तप्रियाय देवाय नमो ज्ञानस्वरूपिणे । नमो विश्वस्य कर्त्रे ते नमस्तत्पालकाय च ॥ ३३॥ निवारय महाविघ्नं तपोनाशकरं मम । क उवाच ।…

Join WhatsApp Channel Download App