विघ्नासुरकृता श्रीगजाननस्तुतिः
|| विघ्नासुरकृता श्रीगजाननस्तुतिः || ॥ श्रीगणेशाय नमः ॥ विघ्नासुर उवाच । नमस्ते गणनाथाय गजाननस्वरूपिणे । योगाय योगनाथाय योगिभ्यो योगदायिने ॥ १५॥ अनाकाराय साकाररूपाय ते नमो नमः । नानाभेदविहीनाय भेदानां पतये नमः ॥ १६॥ विघ्नेशाय परेशाय कालभीतिहराय ते । हेरम्बाय परेषां वै परात्पर नमो नमः ॥ १७॥ अनादये ह्यनाथाय सर्वेषामादिमूर्तये । भक्तेशाय सदा भक्तवाञ्छितप्रद ते नमः…