देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम् PDF संस्कृत
Download PDF of Devaihkrritamshrikrrishnachaitanyastotram Sanskrit
Shri Krishna ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम् संस्कृत Lyrics
|| देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम् ||
देवा ऊचुः ।
कुलिशध्वजपद्मगदाङ्कुशाभं चरणं तव नाथ महाभरणम् ।
रमणं मुनिभिर्विधिशम्भुयुतं प्रणमाम वयं भवभीतिहरम् ॥ २७॥
दरचक्रगदाम्बुजमानधरः सुरशत्रुकठोरशरीरहरः ।
सचराचरलोकभरश्चपलः खलनाशकरस्सुरकार्यकरः ॥ २८॥
नमस्ते शचीनन्दनानन्दकारिन्महापापसन्तापदुर्लापहारिन् ।
सुरारीन्निहत्याशु लोकाधिधारिन्स्वभक्त्याघजाताङ्गकोटिप्रहारिन् ॥ २९॥
त्वयाहं स्वरूपेण सत्यं प्रपाल्य त्वया यज्ञरूपेण वेदः प्ररक्ष्यः ।
स वै यज्ञरूपो भवाँल्लोकधारी शचीनन्दनः शक्रशर्मप्रसक्तः ॥ ३०॥
अनर्पितचरो चिरात्करुणयावतीर्णः
कलौ समर्पयितुमुन्नतोज्वलरसां स्वभक्तिश्रियम् ।
हरेः पुनरसुन्दरद्युतिकदम्बसन्दीपितः
सदा स्फुरतु नो हृदयकन्दरे शचीनन्दनः ॥ ३१॥
विसर्जति नरान्भवान्करुणया प्रपाल्य क्षितौ
निवेदयितुमुद्भवः परात्परं स्वकीयं पदम् ।
कलौ दितिजसम्भवाधिव्यथाब्धिसुरमग्नगान्
समुद्धर महाप्रभो कृष्णचैतन्य शचीसुत ॥ ३२॥
माधुर्यैर्मधुभिस्सुगन्धवदनः स्वर्णाम्बुजानां वनं
कारुण्यामृतनिर्झरैरुपचितः सत्प्रेमहेमाचलः ।
भक्ताम्भोधरधारिणी विजयिनी निष्कम्पसप्तावली
देवो नः कुलदैवतं विजयते चैतन्यकृष्णो हरिः ॥ ३३॥
देवारातिजनैरधर्मजनितैस्सपीडितेयं मही
सङ्कुच्याशु कलौ कलेवरमिदं बीजाय हा वर्तते ।
त्वन्नाम्नैव सुरारयो विदलिताः पातालगाः पीडिता
म्लेच्छा धर्मपराः सुरेशनमनास्तस्मै नमो व्यापिने ॥ ३४॥
इति भविष्यपुराणे प्रतिसर्गपर्वणि चतुर्थखण्डे दशमाध्यायान्तर्गं
देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदेवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम्
READ
देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
