Shri Krishna

देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम्

Devaihkrritamshrikrrishnachaitanyastotram Sanskrit Lyrics

Shri Krishna ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम् ||

देवा ऊचुः ।
कुलिशध्वजपद्मगदाङ्कुशाभं चरणं तव नाथ महाभरणम् ।
रमणं मुनिभिर्विधिशम्भुयुतं प्रणमाम वयं भवभीतिहरम् ॥ २७॥

दरचक्रगदाम्बुजमानधरः सुरशत्रुकठोरशरीरहरः ।
सचराचरलोकभरश्चपलः खलनाशकरस्सुरकार्यकरः ॥ २८॥

नमस्ते शचीनन्दनानन्दकारिन्महापापसन्तापदुर्लापहारिन् ।
सुरारीन्निहत्याशु लोकाधिधारिन्स्वभक्त्याघजाताङ्गकोटिप्रहारिन् ॥ २९॥

त्वयाहं स्वरूपेण सत्यं प्रपाल्य त्वया यज्ञरूपेण वेदः प्ररक्ष्यः ।
स वै यज्ञरूपो भवाँल्लोकधारी शचीनन्दनः शक्रशर्मप्रसक्तः ॥ ३०॥

अनर्पितचरो चिरात्करुणयावतीर्णः
कलौ समर्पयितुमुन्नतोज्वलरसां स्वभक्तिश्रियम् ।
हरेः पुनरसुन्दरद्युतिकदम्बसन्दीपितः
सदा स्फुरतु नो हृदयकन्दरे शचीनन्दनः ॥ ३१॥

विसर्जति नरान्भवान्करुणया प्रपाल्य क्षितौ
निवेदयितुमुद्भवः परात्परं स्वकीयं पदम् ।
कलौ दितिजसम्भवाधिव्यथाब्धिसुरमग्नगान्
समुद्धर महाप्रभो कृष्णचैतन्य शचीसुत ॥ ३२॥

माधुर्यैर्मधुभिस्सुगन्धवदनः स्वर्णाम्बुजानां वनं
कारुण्यामृतनिर्झरैरुपचितः सत्प्रेमहेमाचलः ।
भक्ताम्भोधरधारिणी विजयिनी निष्कम्पसप्तावली
देवो नः कुलदैवतं विजयते चैतन्यकृष्णो हरिः ॥ ३३॥

देवारातिजनैरधर्मजनितैस्सपीडितेयं मही
सङ्कुच्याशु कलौ कलेवरमिदं बीजाय हा वर्तते ।
त्वन्नाम्नैव सुरारयो विदलिताः पातालगाः पीडिता
म्लेच्छा धर्मपराः सुरेशनमनास्तस्मै नमो व्यापिने ॥ ३४॥

इति भविष्यपुराणे प्रतिसर्गपर्वणि चतुर्थखण्डे दशमाध्यायान्तर्गं
देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम् PDF

देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App