Misc

स्कन्दकृता देवीस्तुतिः

Devistutihskandakrrita Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| स्कन्दकृता देवीस्तुतिः ||

नौमि स्तौमि जगत्प्रसादघटनासंस्थानसम्पादितां
लोकालोकनतत्परां भगवतीं मायां महेशाश्रयाम् ।
विष्णुब्रह्ममरुद्गणेश्वरमहासाम्राज्यदानक्षमा-
मीशाङ्काधिकृतां प्रसादमुखरां कायेन वाचा सदा ॥ १३॥

इन्दुकुन्दकरिमत्तजबिम्बस्फारधारविजिताखिलवृन्दाम् ।
नीलमेघनलिनामलकान्तिं केसरीन्द्रवरभूधरकूर्माम् ॥ १४॥

वक्त्रदन्तगमनाधरकेशैर्लोचनेन जघनेन कुचाभ्याम् ।
पादपङ्कजरजःपरिभूता नागयक्षसुरमानवकन्याः ॥ १५॥

अम्बामम्भोरुहाक्षीं सकलसुरकदम्बैकशालिमपूर्णां
काशीशेशान्नपूर्णा विधिहरिहरसत्संस्तुतां भर्गकान्ताम् ।
शान्तां शान्तान्तरङ्गां भजदघपटलीव्यालनागान्तकान्तां
कान्तान्देवस्य देवीमगवरवरजान्नौमि चिन्नित्यसंस्थाम् ॥ १६॥

नलिनजवनितापद्मसंस्थाकरस्थैः ।
विधिवहगरुदाभैश्चामरैर्वीज्यमानां शशिमुखनिजभर्तुर्भार्यया छत्रवत्या ।
सितनभसटसिह्मस्कन्धसिह्मासनस्थां गजमुखशिखिवाहप्रेमजानन्ददृष्टिम् ॥

रक्तबीजतुरगारिधूम्रजाचामरारिवरशुम्भनिशुम्भान् ।
चण्डमुण्डवरभण्डजमुण्डैराजिभूमिकमलैरिवदेवी ॥ १८॥

कोदण्डाकृष्टदण्डोच्चलितवरशरासारधारादिभिर्या
तस्तारामरवीरसंस्तुतपदा सा पातु नश्श्रेयसे ॥ १९॥

॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये स्कन्दकृता देवीस्तुतिः ॥

Found a Mistake or Error? Report it Now

Download स्कन्दकृता देवीस्तुतिः PDF

स्कन्दकृता देवीस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App