|| अहंकृतं धूम्रवर्णभक्तिपञ्चकस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
अहमुवाच ।
यदि मे वरदोऽसि त्वं धूम्रवर्ण गजानन ।
तदा ते पादपद्मे वै भक्तिं देहि परां विभो ॥ १॥
गाणपत्यं कुरुष्व त्वं मां गणेशपरायणम् ।
गाणपत्यप्रियं तात सदा सद्भावभाविकम् ॥ २॥
स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् ।
तत्रस्थस्त्वां भविष्यामि दासोऽहं ते गजानन ॥ ३॥
नान्यं याचे कदा नाथ श्र्योङ्कारामोहमोहितम् ।
सिद्धिबुद्धियुतं त्वाहं भजिष्यामि विशेषतः ॥ ४॥
बोधितो गुरुणाऽत्यन्तं तस्य वाक्यपरायणः ।
योगशान्तिमयं रूपं भजिष्यामि महोदर ॥ ५॥
(फलश्रुतिः)
धूम्रवर्ण उवाच ।
मयि भक्तिर्दृढा तेऽस्तु मयि दास्यपरायणः ।
गाणपत्यप्रियो भूत्वा चरिष्यसि न संशयः ॥ ६॥
यत्रादौ मे महादैत्य पूजनं नैव विद्यते ।
तत्र कर्मसु ते स्थानं भुङ्क्ष्व कर्मफलं महत् ॥ ७॥
कार्यादौ स्मरणं मे न तत्र त्वं सुस्थिरो भव ।
आसुरेण स्वभावेन भ्रंशयस्व निरन्तरम् ॥ ८॥
स्वपुरे गच्छ दैत्येन्द्र मद्भक्तान् रक्ष सर्वदा ।
मदहङ्कृतिसंयुक्तान् कुरु त्वं नित्यमादरात् ॥ ९॥
यत्र मे स्मरणं चादौ पूजनं सर्वकर्मसु ।
तत्र साधुस्वभावेन वर्तस्व तदहङ्कृतिः ॥ १०॥
गणेशभक्तिसंयुक्तो मदीयाहङ्कृतेर्धरः ।
भविष्यसि न सन्देहो गच्छ गच्छ मदाज्ञया ॥ ११॥
श्रीशिव उवाच ।
एवमुक्त्वा गणाधीशस्तमहं विरराम है ।
प्रणम्य तमहङ्कारः ययौ स्वनगरं मुदा ॥ १२॥
तादृशं तं परिज्ञाय दैत्येशा दुःखसंयुताः ।
त्यक्त्वा पातालगाः सर्वे बभूवुर्भयविह्वलाः ॥ १३॥
स एव सुखसंयुक्तोऽभजत्तं गणनायकम् ।
अनन्यमनसा ध्यात्वा धूम्रवर्णधरं परम् ॥ १४॥
यथा जगाद विघ्नेशस्तथा चकार भावतः ।
अहङ्कारासुरश्चैव शान्तरूपो बभूव ह ॥ १५॥
इति अहंकृतं धूम्रवर्णभक्तिपञ्चकस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now