Misc

ब्रह्माण्यकृता धूम्रवर्णस्तुतिः

Dhumravarnastutihbrahmanyakrrita Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| ब्रह्माण्यकृता धूम्रवर्णस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

ब्रह्माण्यूचुः ।
नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे ।
बिम्बाय शङ्करायैव शम्भवे ते नमो नमः ॥ २९॥

अमेयशक्तये तुभ्यं पार्वतीपतये नमः ।
वृषध्वजाय देवाय सहजाय नमो नमः ॥ ३०॥

मायाश्रयाय मायायाश्चालकाय परात्मने ।
महेश्वराय पूर्णाय हेरम्बाय नमो नमः ॥ ३१॥

जटाजूटधरायैव निर्मोहाय सदाशिव ।
परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥ ३२॥

स्वाधीनाय नमस्तुभ्यं पञ्चवक्त्रधराय च ।
अनाथाय सनाथाय नाथाय नाथरूपिणे ॥ ३३॥

परब्रह्मस्वरूपाय ब्रह्मादिपतये नमः ।
गिरीशाय गिरौ शायिंश्चिताभस्माङ्गधारिणे ॥ ३४॥

मुण्डमालाधरायैव नमस्ते सर्पभूषण ।
नानाभेदप्रकारेण खेलकाय नमो नमः ॥ ३५॥

वामभागे ह्यसत्याय सत्याय दक्षिणाङ्गके ।
तयोरभेदयोगे चानन्दाय ते नमो नमः ॥ ३६॥

समरूपा महामाया देहस्ते नात्र संशयः ।
तस्य आत्मस्वरूपस्त्वमर्धनारीधृषे नमः ॥ ३७॥

एतादृशं महेशानं पश्यामो ब्रह्मरूपिणम् ।
सर्वेषां नेतिकर्तारं तेन धन्यानि वै वयम् ॥ ३८॥

धूम्रवर्णस्त्वमेवेह न भेदो दृश्यते कदा ।
कस्त्वां स्तोतुं समर्थः स्यात् प्रभोऽतस्ते नमामहे ॥ ३९॥

इति धूम्रवर्णस्तुतिः ब्रह्माण्यकृता धूम्रवर्णस्तुतिः सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download ब्रह्माण्यकृता धूम्रवर्णस्तुतिः PDF

ब्रह्माण्यकृता धूम्रवर्णस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App