Misc

धूम्रवर्णस्तुतिः देवर्षिभिः प्रोक्ता

Dhumravarnastutihdevarshibhihprokta Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| धूम्रवर्णस्तुतिः देवर्षिभिः प्रोक्ता ||

॥ श्रीगणेशाय नमः ॥

शिव उवाच
शान्तिरूपधरं पूर्णं गाणेशाहङ्कृतिस्थितम् ।
अहं दृष्ट्वा सुरा विप्रा विस्मिता अभवन् द्विजाः । १
ततस्ते धूम्रवर्णं वै पुपूजुर्भक्तिसंयुताः ।
पुनः प्रणम्य तं सर्वे तूष्टुवुः करसम्पुटाः ॥ २॥

देवर्षय ऊचुः
अजायाथ सर्वादिपूज्याय नित्यं निरालम्बनेति स्वरूपाय ढुण्ढे ! ।
सदाऽव्यक्तरूपाय सर्वान्तगाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ३॥

सदा मोहहीनाय मोहप्रदाय जनेभ्यः प्रभो! मोहहन्त्रे निजानाम् ।
महानन्दत्रैविध्यभावैः परेश! नमो धूम्रवर्णाय सर्वेश्वराय ॥ ४॥

नमः सिद्विबुद्धिप्रदात्रे गणेश! पुरे वासकारिन्! स्वसंवेद्यनाम्नि ।
अनाथाय नाथाय सर्वेश्वराणां नमो धूम्रवर्णाय सर्वेश्वराय ॥ ५॥

सदा स्वेच्छया खेलकाराय तुभ्यं सगौणाय नैर्गुण्यभावाय ब्रह्मन्! ।
महाऽऽखुध्वजायाऽथ हेरम्बकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ६॥

गजाकारतुण्डाय लम्बोदराय त्रिनेत्राय शूर्पश्रुतिक्षोभकारिन्! ।
मदासक्तयोगीन्द्र! भृङ्गात्मकानां नमो धूम्रवर्णाय सर्वेश्वराय ॥ ७॥

चतुर्बाहवे चैकदन्ताय तुभ्यं विचित्रैरनर्घैस्तु सम्भूषिताय ।
अलङ्कारकैर्देवदेवेश! पात्रे नमो धूम्रवर्णाय सर्वेश्वराय ॥ ८॥

त्वया सृष्टमाद्यं समं सर्वभावयुतं मोहदं मायिनां नन्दनाद्वै ।
तदाकाररूपेण तत्स्थाय भूम्ने नमो धूम्रवर्णाय सर्वेश्वराय ॥ ९॥

त्वया प्रेरितेनाथ तेनाऽपि सृष्टं सदात्मस्वरूपं परं जीवनं यत् ।
अभेदात्मकं तत्र संस्थाय तुभ्यं नमो धूम्रवर्णाय सर्वेश्वराय ॥ १०॥

तत्स्तेन सृष्टं सदा भेदकानां निजं दैवतं ब्रह्मभावेन तत्स्थम् ।
तदाकाररूपेण तत्स्थाय ब्रह्मन्! नमो धूम्रवर्णाय सर्वेश्वराय ॥ ११॥

असद्भावयुक्तेन सृष्टं विदेहं परं ब्रह्म साङ्ख्यात्मकं मूलबीजम् ।
त्वया प्रेरितेनात्र वासप्रदायिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥ १२॥

स्वतोत्थानरूपं विदेहेन सृष्टं त्वदीयप्रबोधेन विघ्नेश्वराय ।
तदाकाररूपाय तत्रस्थकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १३॥

ततस्तेन ते सत्तया सृष्टमाद्यं सदैकस्वरूपं परं सोऽहमेवम् ।
तथा त्वं च तत्रैव संस्थः परात्मन्! नमो धूम्रवर्णाय सर्वेश्वराय ॥ १४॥

त्वया प्रेरितेनाथ तेनैव सृष्टं चतुर्णां प्रमूलं महद्बिन्दुरूपम् ।
सदा साहजेनैव योगेन तत्स्थो नमो धूम्रवर्णाय सर्वेश्वराय ॥ १५॥

ततो नादरूपं समं यत्सुषुप्तं परं सूक्ष्मरूपं ततः स्थूलभावम् ।
सदा साहजेनैव योगेन तत्स्थो नमो धूम्रवर्णाय सर्वेश्वराय ॥ १६॥

नमो विश्वरूपाय सर्वाकराय ह्यनन्ताननाद्यैः सुचिह्नाय तुभ्यम् ।
चरैः स्थावरैर्भोगभोगिन्! नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ १७॥

चरायाऽथ ते स्थावरायैव तुभ्यं नमो सृष्टिकर्त्रे सुपात्रे हराय ।
प्रकाशाय सूर्याय देवीमयाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १८॥

नमो देवपक्षाय साध्याय तुभ्यं नरायाऽथ देवेद्र! देवात्मकाय ।
दिगीशाय वृक्षादिबीजात्मकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १९॥

नमः सर्परूपाय दैत्यात्मकाय समुद्रादिनानाप्रभेदस्थमूर्ते! ।
अनन्तैः स्वरूपैः सदा क्रीडसि त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ २०॥

तथाऽपि त्वमेवं तदाकारहीनः सदा साहजेनैव योगेन योगिन्! ।
स्वसत्तात्मकायैव तुभ्यं नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ २१॥

अतो वेदवादा विशेषेण धूम्रा भवन्ति ह्यहो वर्णितुं ते स्वरूपम् ।
बुधैः कथ्यसे धूम्रवर्णस्ततस्त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ २२॥

सुशान्तिं गता वेदयोगीन्द्रमुख्यास्त्वयि ब्रह्मनाथे सदा धूम्रवर्णम् ।
वयं किं स्तुवीमोऽल्पबोधा नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ २३॥

(फलश्रुतिः ।)
श्रीशिव उवाच ।
एवं स्तुत्वा गणेशानं प्रणेमुरमरर्षयः ।
तानुवाच महाभागान् धूम्रवर्णः प्रतापवान् ॥ २४॥

धूम्रवर्ण उवाच ।
वरान् ब्रूत महाभागा दास्यामि स्तोत्रतोषितः ।
देवर्षयो हृदि स्थान् वः सुदुर्लभतरानपि ॥ २५॥

स्तोत्रं भवत्कृतं मे तु भविष्यति सुसिद्धिदम् ।
ब्रह्मभूयकरं विप्रा भविष्यति न संशयः ॥ २६॥

पुत्रपौत्रकलत्रादि सौखदं धनधान्यदम् ।
आयुरारोग्यकैश्वर्यदायकं प्रभविष्यति ॥ २७॥

पठते श‍ृण्वते देवा नानाभावप्रपूरकम् ।
धर्मार्थकाममोक्षाणां दायकं भजतामिदम् ॥ २८॥

मारणोच्चाटनादीनि ह्येकविंशतिपाठतः ।
एकविंशतिभिर्नित्यं दिवसैः प्रभवन्ति हि ॥ २९॥

परकृत्यादिकं सर्वं नाशमेति न संशयः ।
अनेन स्तोत्रमुख्येन स्तुवतः सर्वदा द्विजाः ॥ ३०॥

यं यं चिन्तयेत् कामं तं तं दास्यामि सर्वदा ।
स्तुतोऽनेन महादेवाः स्तोत्रेण तुष्टिमागतः ॥ ३१॥

इति देवर्षिभिःप्रोक्ता धूम्रवर्णस्तुतिः समाप्ता ।

Found a Mistake or Error? Report it Now

Download धूम्रवर्णस्तुतिः देवर्षिभिः प्रोक्ता PDF

धूम्रवर्णस्तुतिः देवर्षिभिः प्रोक्ता PDF

Leave a Comment

Join WhatsApp Channel Download App