Download HinduNidhi App
Misc

श्री दीनबन्ध्वष्टकम्

Dinbandhu Ashtakam Hindi

MiscAshtakam (अष्टकम निधि)हिन्दी
Share This

॥ श्री दीनबन्ध्वष्टकम् ॥

यस्मादिदं जगदुदेति चतुर्मुखाद्यं
यस्मिन्नवस्थितमशेषमशेषमूले।
यत्रोपयाति विलयं च समस्तमन्ते
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

चक्रं सहस्रकरचारु करारविन्दे
गुर्वी गदा दरवरश्च विभाति यस्य।
पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

येनोद्धृता वसुमती सलिले निमग्ना नग्ना
च पाण्डववधूः स्थगिता दुकूलैः।
संमोचितो जलचरस्य मुखाद्गजेन्द्रो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिं
कोपेक्षणेन दनुजा विलयं व्रजन्ति।
भीताश्चरन्ति च यतोऽर्कयमानिलाद्या।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

गायन्ति सामकुशला यमजं मखेषु
ध्यायन्ति धीरमतयो यतयो विविक्ते।
पश्यन्ति योगिपुरुषाः पुरुषं शरीरे।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

आकाररूपगुणयोगविवर्जितोऽपि मदद
भक्तानुकम्पननिमित्तगृहीतमूर्तिः।
यः सर्वगोऽपि कृतशेषशरीरशय्यो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै
राराध्यते भवदवानलदाहशान्त्यै।
सर्वापराधमविचिन्त्य ममाखिलात्मा।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

यन्नामकीर्तनपरः श्वपचोऽपि नूनं
हित्वाखिलं कलिमलं भुवनं पुनाति।
दग्ध्वा ममाघमखिलं करुणेक्षणेन।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

दीनबन्ध्वष्टकं पुण्यंब्रह्मानन्देन भाषितम्।
यः पठेत् प्रयतो नित्यंतस्य विष्णुः प्रसीदति॥

॥ इति श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री दीनबन्ध्वष्टकम् PDF

श्री दीनबन्ध्वष्टकम् PDF

Leave a Comment