|| एकविंशतिगणेशमन्त्राः ||
अथातः सम्प्रवक्ष्यामि चैकविंशतिसङ्ख्यकान् ।
गणेशान्राजमातङ्ग्या सम्बद्धान् योगिनीयुतान् ॥ १॥
बीजषट्कं गणेशस्य ङेऽन्तं तन्नाम चोच्चरेत् ।
नमोऽन्ता मनवस्तेषां क्रमान्नामानि वच्म्यहम् ॥ २॥
अग्रे पृष्ठे द्विदन्तादिद्वितुण्डाक्षो विनायकः ।
ज्येष्ठो विनायकश्चैव तथा गजविनायकः ॥ ३॥
विनायकः कालसंज्ञो नागेशाख्यो विनायकः ।
अथान्तर्गृहमावृत्य स्थिताञ्छृणु विनायकान् ॥ ४॥
तथा सृष्टिगणेशश्च यक्षविघ्नेश एव च ।
गजकर्णश्चित्रघण्टः स्यान्मङ्गलविनायकः ॥ ५॥
विनायकश्च मित्रादिरथ वानन्दकानने ।
व्यवस्थिता गणेशा ये ते वक्ष्यन्ते मयाधुना ॥ ६॥
मोदः प्रमोदः सुमुखो दुर्मुखो गणनायकः ।
विनायको ज्ञानपूर्वो द्वारविघ्नेश एव च ॥ ७॥
अविमुक्तेशनिकटे त्वविमुक्तविनायकः ।
योगिन्यश्च क्रमादेषां कीर्त्यन्ते प्रेतवाहनाः ॥ ८॥
दन्दशूककरा रौद्री मृगशीर्षा वृषानना ।
व्यालास्या धूर्तविश्वासा व्योमैकचरणार्धदृक् ॥ ९॥
तापिनी तुष्टिपूर्वा च शोषिणी कोटरी तथा ।
विद्युत्प्रभा स्थूलनासा मार्जारी कण्ठपूरणा ॥ १०॥
कामाक्ष्यट्टाट्टहासा च बलाका गतिपुण्यदा ।
मूकास्या चेति योगिन्यो ङेऽन्तं नाम नमोऽन्तकम् ॥ ११॥
स्वबीजाद्यं भवेन्मन्त्रो यथानामार्थकारकः ।
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते
पश्चिमाम्नायगणपतिमन्त्रकथने एकोनविंशे प्रकाशे
प्रोक्ताः एकविंशतिगणेशमन्त्राः सम्पूर्णाः ।
- hindiगणेश अंग पूजा मंत्र
Found a Mistake or Error? Report it Now