Download HinduNidhi App
Shri Ganesh

गणाधिपाष्टकम्

Ganadhipashtakam Sanskrit

Shri GaneshAshtakam (अष्टकम संग्रह)संस्कृत
Share This

|| गणाधिपाष्टकम् ||

श्रियमनपायिनीं प्रदिशतु श्रितकल्पतरुः
शिवतनयः शिरोविधृतशीतमयूखशिशुः ।
अविरतकर्णतालजमरुद्गमनागमनै-
रनभिमतं (धुनोति च मुदं) वितनोति च यः ॥

सकलसुरासुरादिशरणीकरणीयपदः
करटिमुखः करोतु करुणाजलधिः कुशलम् ।
प्रबलतरान्तरायतिमिरौघनिराकरण-
प्रसृमरचन्द्रिकायितनिरन्तरदन्तरुचिः ॥

द्विरदमुखो धुनोतु दुरितानि दुरन्तमद-
त्रिदशविरोधियूथकुमुदाकरतिग्मकरः ।
नतशतकोटिपाणिमकुटीतटवज्रमणि-
प्रचुरमरीचिवीचिगुणिताङ्ग्रिनखांशुचयः ॥

कलुषमपाकरोतु कृपया कलभेन्द्रमुखः
कुलगिरिनन्दिनीकुतुकदोहनसंहननः ।
तुलितसुधाझरस्वकरशीकरशीतलता-
शमितनताशयज्वलदशर्मकृशानुशिखः ॥

गजवदनो धिनोतु धियमाधिपयोधिवल-
त्सुजनमनःप्लवायितपदाम्बुरुहोऽविरतम् ।
करटकटाहनिर्गलदनर्गलदानझरी-
परिमललोलुपभ्रमददभ्रमदभ्रमरः ॥

दिशतु शतक्रतुप्रभृतिनिर्जरतर्जनकृ-
द्दितिजचमूचमूरुमृगराडिभराजमुखः ।
प्रमदमदक्षिणाङ्घ्रिविनिवेशितजीवसमा-
घनकुचकुम्भगाढपरिरम्भणकण्टकितः ।

अतुलबलोऽतिवेलमघवन्मतिदर्पहरः
स्फुरदहितापकारिमहिमा वपुषीढविधुः ।
हरतु विनायकः स विनताशयकौतुकदः
कुटिलतरद्विजिह्वकुलकल्पितखेदभरम् ।

निजरदशूलपाशनवशालिशिरोरिगदा-
कुवलयमातुलुङ्गकमलेक्षुशरासकरः ।
दधदथ शुण्डया मणिघटं दयितासहितो
वितरतु वाञ्छितं झटिति शक्तिगणाधिपतिः ॥

पठतु गणाधिपाष्टकमिदं सुजनोऽनुदिनं
कठिनशुचाकुठावलिकठोरकुठारवरम् ।
विमतपराभवोद्भटनिदाघनवीनघनं
विमलवचोविलासकमलाकरबालरविम् ॥

इति गणाधिपाष्टकं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
गणाधिपाष्टकम् PDF

Download गणाधिपाष्टकम् PDF

गणाधिपाष्टकम् PDF

Leave a Comment