श्रीशिवकृतं श्रीगणेशस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshastotram Shrishivakrritam Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीशिवकृतं श्रीगणेशस्तोत्रम् संस्कृत Lyrics
|| श्रीशिवकृतं श्रीगणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
गणेशाय परेशाय धूम्रवर्णाय ढुण्ढये ।
शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ २२॥
गणेशाय गुणानां ते स्रष्ट्रे पात्रे महात्मने ।
संहर्त्रे देवदेवाय हेरम्बाय नमो नमः ॥ २३॥
अनन्तविभवायैवानन्तमायाप्रचालक ।
अनन्तोदरगायैव विघ्नेशाय नमो नमः ॥ २४॥
ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठरूपिणे ।
सर्वपूज्याय ते सर्वादिपूज्याय नमो नमः ॥ २५॥
स्वानन्दपतये तुभ्यं मूषकध्वजधारिणे ।
सिद्धिबुद्धिपते नाथेक्षुसागरपते नमः ॥ २६॥
मनोवाणीविहीनाय मनोवाणीमयाय ते ।
योगेशाय महाविष्णुसुताय ते नमो नमः ॥ २७॥
शेषपुत्राय त्रैलोक्यक्षेत्रस्थाय नमो नमः ।
दण्डकारण्यदेवाय ब्रह्मेशाय नमो नमः ॥ २८॥
यत्र वेदादयो नाथ योगिनः शान्तिमाययुः ।
तं पश्यामि गणाधीशं धन्योऽहं सर्वभावतः ॥ २९॥
नेत्राणि धन्यरूपाणि प्रभो त्वत् दर्शनेन मे ।
मस्तकानि नमस्कारात् स्तवनान् मे मुखानि ते ॥ ३०॥
हस्ताः पूजनतस्ते मे धन्याः सर्वं मदीयकम् ।
धन्यं ते पादपद्मस्य दर्शनेन गजानन ॥ ३१॥
भक्तिं देहि त्वदीयां मे तयाऽहं गणनायक ।
कृतकृत्यो भविष्यामि शान्तियोगपरायणः ॥ ३२॥
त्रिपुरस्य वधार्थाय सामर्थ्यं देहि शाश्वतम् ।
महेश त्वं गणाधीश सार्थकं कुरु नित्यदा ॥ ३३॥
इति श्रीशिवकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीशिवकृतं श्रीगणेशस्तोत्रम्
READ
श्रीशिवकृतं श्रीगणेशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
