Shri Ganesh

श्रीशिवकृतं श्रीगणेशस्तोत्रम्

Ganeshastotram Shrishivakrritam Sanskrit Lyrics

Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीशिवकृतं श्रीगणेशस्तोत्रम् ||

॥ श्रीगणेशाय नमः ॥

श्रीशिव उवाच ।
गणेशाय परेशाय धूम्रवर्णाय ढुण्ढये ।
शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ २२॥

गणेशाय गुणानां ते स्रष्ट्रे पात्रे महात्मने ।
संहर्त्रे देवदेवाय हेरम्बाय नमो नमः ॥ २३॥

अनन्तविभवायैवानन्तमायाप्रचालक ।
अनन्तोदरगायैव विघ्नेशाय नमो नमः ॥ २४॥

ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठरूपिणे ।
सर्वपूज्याय ते सर्वादिपूज्याय नमो नमः ॥ २५॥

स्वानन्दपतये तुभ्यं मूषकध्वजधारिणे ।
सिद्धिबुद्धिपते नाथेक्षुसागरपते नमः ॥ २६॥

मनोवाणीविहीनाय मनोवाणीमयाय ते ।
योगेशाय महाविष्णुसुताय ते नमो नमः ॥ २७॥

शेषपुत्राय त्रैलोक्यक्षेत्रस्थाय नमो नमः ।
दण्डकारण्यदेवाय ब्रह्मेशाय नमो नमः ॥ २८॥

यत्र वेदादयो नाथ योगिनः शान्तिमाययुः ।
तं पश्यामि गणाधीशं धन्योऽहं सर्वभावतः ॥ २९॥

नेत्राणि धन्यरूपाणि प्रभो त्वत् दर्शनेन मे ।
मस्तकानि नमस्कारात् स्तवनान् मे मुखानि ते ॥ ३०॥

हस्ताः पूजनतस्ते मे धन्याः सर्वं मदीयकम् ।
धन्यं ते पादपद्मस्य दर्शनेन गजानन ॥ ३१॥

भक्तिं देहि त्वदीयां मे तयाऽहं गणनायक ।
कृतकृत्यो भविष्यामि शान्तियोगपरायणः ॥ ३२॥

त्रिपुरस्य वधार्थाय सामर्थ्यं देहि शाश्वतम् ।
महेश त्वं गणाधीश सार्थकं कुरु नित्यदा ॥ ३३॥

इति श्रीशिवकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीशिवकृतं श्रीगणेशस्तोत्रम् PDF

श्रीशिवकृतं श्रीगणेशस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App