वसिष्ठकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Vasishthakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
वसिष्ठकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| वसिष्ठकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
वसिष्ठ उवाच ।
अद्येयं धरणी धन्या पितरौ तप आश्रमः ।
विद्याव्रतादि मे धन्यं दर्शनात्ते पदस्य च ॥ २॥
त्वं कर्ता कारणं चैव कारणानां न संशयः ।
गम्यागम्यमयः प्रोक्तो वेदे वै वेदवादिभिः ॥ ३॥
सर्वरूपश्च सर्वैस्त्वं हीनः सर्वप्रकाशकः ।
योगाभेदमयस्त्वं त्वां कथं स्तौमि गणाधिप ॥ ४॥
तथाऽपि भक्तिपाशेन यन्त्रितस्त्वं गजानन ।
अनुग्रहार्थमायातो नामरूपधरः प्रभो ॥ ५॥
त्वद्दर्शनजबोधेन स्तौमि त्वां ब्रह्मनायकम् ।
वेदादिभिः सहाद्यैश्च संस्तुतं योगिभिः परम् ॥ ६॥
नमस्ते गणनाथाय नमस्ते सर्वसाक्षिणे ।
सर्वाकाराय वै तुभ्यं स्वसंवेद्याय ते नमः ॥ ७॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च ।
अमेयशक्तये देव देव तुभ्यं नमो नमः ॥ ८॥
असम्प्रज्ञाततुण्डाय सम्प्रज्ञातशरीरिणे ।
तयोर्योगे च योगात्मदेहाय तु नमो नमः ॥ ९॥
शान्तियोगप्रकाशाय शान्तियोगमयाय ते ।
योगिभ्यो योगदात्रे च योगेशाय नमो नमः ॥ १०॥
वक्रतुण्डाय वै तुभ्यमेकदन्तधराय च ।
ब्रह्माकारात्मकानां ते चिह्नानां धारिणे नमः ॥ ११॥
स्तुवतस्तस्य हर्षेण कण्ठरोधः समाभवत् ।
ननर्त हृष्टरोमा वै देहभानविवर्जितः ॥ १२॥
निमग्नं तं भक्तिरसे वीक्ष्य देवो गजाननः ।
तमुवाच महाभक्तं भावज्ञो भावपूरकः ॥ १३॥
(फलश्रुतिः)
गणेश उवाच ।
त्वया कृतमिदं वै यत् स्तोत्रं भक्तिरसप्रदम् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १४॥
मदीया भक्तिरचला तवानघ भविष्यति ।
स्मृतमात्रश्च ते गेहं यास्यामि मुनिसत्तम ॥ १५॥
एवमुक्त्वा गणाधीशोंऽतर्दधे मम पश्यतः ।
सोअं तं हृदये पश्यन् स्थितः शान्तिसमन्वितः ॥ १६॥
इति वसिष्ठकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowवसिष्ठकृता श्रीगणेशस्तुतिः
READ
वसिष्ठकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
