Shri Ganesh

वसिष्ठकृता श्रीगणेशस्तुतिः

Ganeshastutih Vasishthakrrita Sanskrit

Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| वसिष्ठकृता श्रीगणेशस्तुतिः ||

॥ श्रीगणेशाय नमः ॥
वसिष्ठ उवाच ।
अद्येयं धरणी धन्या पितरौ तप आश्रमः ।
विद्याव्रतादि मे धन्यं दर्शनात्ते पदस्य च ॥ २॥

त्वं कर्ता कारणं चैव कारणानां न संशयः ।
गम्यागम्यमयः प्रोक्तो वेदे वै वेदवादिभिः ॥ ३॥

सर्वरूपश्च सर्वैस्त्वं हीनः सर्वप्रकाशकः ।
योगाभेदमयस्त्वं त्वां कथं स्तौमि गणाधिप ॥ ४॥

तथाऽपि भक्तिपाशेन यन्त्रितस्त्वं गजानन ।
अनुग्रहार्थमायातो नामरूपधरः प्रभो ॥ ५॥

त्वद्दर्शनजबोधेन स्तौमि त्वां ब्रह्मनायकम् ।
वेदादिभिः सहाद्यैश्च संस्तुतं योगिभिः परम् ॥ ६॥

नमस्ते गणनाथाय नमस्ते सर्वसाक्षिणे ।
सर्वाकाराय वै तुभ्यं स्वसंवेद्याय ते नमः ॥ ७॥

सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च ।
अमेयशक्तये देव देव तुभ्यं नमो नमः ॥ ८॥

असम्प्रज्ञाततुण्डाय सम्प्रज्ञातशरीरिणे ।
तयोर्योगे च योगात्मदेहाय तु नमो नमः ॥ ९॥

शान्तियोगप्रकाशाय शान्तियोगमयाय ते ।
योगिभ्यो योगदात्रे च योगेशाय नमो नमः ॥ १०॥

वक्रतुण्डाय वै तुभ्यमेकदन्तधराय च ।
ब्रह्माकारात्मकानां ते चिह्नानां धारिणे नमः ॥ ११॥

स्तुवतस्तस्य हर्षेण कण्ठरोधः समाभवत् ।
ननर्त हृष्टरोमा वै देहभानविवर्जितः ॥ १२॥

निमग्नं तं भक्तिरसे वीक्ष्य देवो गजाननः ।
तमुवाच महाभक्तं भावज्ञो भावपूरकः ॥ १३॥

(फलश्रुतिः)
गणेश उवाच ।
त्वया कृतमिदं वै यत् स्तोत्रं भक्तिरसप्रदम् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १४॥

मदीया भक्तिरचला तवानघ भविष्यति ।
स्मृतमात्रश्च ते गेहं यास्यामि मुनिसत्तम ॥ १५॥

एवमुक्त्वा गणाधीशोंऽतर्दधे मम पश्यतः ।
सोअं तं हृदये पश्यन् स्थितः शान्तिसमन्वितः ॥ १६॥

इति वसिष्ठकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download वसिष्ठकृता श्रीगणेशस्तुतिः PDF

वसिष्ठकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App