स्वायम्भुवकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutihsvayambhuvakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
स्वायम्भुवकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| स्वायम्भुवकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
स्वायम्भुव उवाच ।
नमस्ते गजवक्त्राय हेरम्बाय नमो नमः ।
ओङ्काराकृतिरूपाय सगुणाय नमो नमः ॥ ४२॥
नैर्गुण्ये गजरूपाय सदा ब्रह्मसुखात्मने ।
गणेशाय सदा भक्तपोषकाय नमो नमः ॥ ४३॥
नरकुञ्जररूपाय योगाभेदाय ते नमः ।
चतुर्बाहुधरायैव पुरुषार्थप्रसिद्धये ॥ ४४॥
नानाभोगधरायैवानन्तलीलास्वरूपिणे ।
विघ्नराजाय देवाय भक्तविघ्नविदारिणे ॥ ४५॥
सत्यासत्यमयायैवाव्यक्तभेदात्मने नमः ।
स्वानन्दपतये तुभ्यं सदा स्वानन्ददायिने ॥ ४६॥
नमस्ते मूषकारूढसर्वान्तरसुभोगिने ।
नानामृतसमुद्रे च क्रीडाकर नमोऽस्तु ते ॥ ४७॥
सिद्धिबुद्धिपते तुभ्यं द्वेधामायाप्रसारिणे ।
भक्तेभ्यो योगदात्रे च योगाकाराय ते नमः ॥ ४८॥
वेदोपनिषदां लभ्यमहावाक्यमयाय ते ।
ब्रह्मभूताय वै तुभ्यं नमस्ते ब्रह्मराशये ॥ ४९॥
किं स्तौमि त्वां गणाधीश यत्र वेदाश्च विस्मिताः ।
योगिनः शेषमुख्या वै शङ्कराद्या महेश्वराः ॥ ५०॥
तथापि तव जातेन दर्शनेन गजानन ।
स्फूर्तिः प्राप्ता तया नाथ संस्तुतोऽसि मया प्रभो ॥ ५१॥
अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः ।
वेदान्तागोचरो गम्यो धन्योऽहं जगतीतले ॥ ५२॥
धन्यो मे जनको देव तपो ज्ञानं कुलं प्रभो ।
विद्या व्रतादिकं सर्वं धन्यं ते पाददर्शनात् ॥ ५३॥
इति स्तुत्वा श्रीगणाधीशं भक्त्या परमया युतः ।
सरोमाञ्चोऽभवत्तत्र प्रणनाम पुनः पुनः ॥ ५४॥
तमुत्थाप्य गणाधीशोऽगादीत्तं भक्तमुत्तमम् ।
वरं वृणु महाभाग यस्ते मनसि वर्तते ॥ ५५॥
कृतं त्वया मदीयं यत् स्तवनं तोषकारकम् ।
पठते शृण्वते चापि सर्वदं प्रभविष्यति ॥ ५६॥
पुत्रपौत्रादिविभवप्रदं शोकविनाशनम् ।
धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ ५७॥
धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् ।
दृढभक्तिकरं मे च भविष्यति न संशयः ॥ ५८॥
इति ब्रुवन्तं विघ्नेशमुवाच मनुसत्तमः ।
स्वायम्भुवः प्रसन्नात्मा कृताञ्जलिरुदारधीः ॥ ५९॥
मनुरुवाच ।
यदि प्रसन्नतां यातस्तदा देहि गजानन ।
भक्ति दृढां त्वदीयां मे यया मोहो न विद्यते ॥ ६०॥
सृष्टेः करणसामर्थ्यं धर्मपालनमुत्तमम् ।
प्रजारक्षकतां देहि देव देवेश मे चिरम् ॥ ६१॥
यद्यदिच्छामि विघ्नेश तत्तत् सिध्यतु सर्वदा ।
तव भक्तेषु वासो मे सदा भवतु मानद ॥ ६२॥
तथेति तमुवाचादावन्तर्धानं चकार ह ।
गणेशानो निजे लोकेऽगमद्वै भक्तवत्सलः ॥ ६३॥
इति स्वायम्भुवकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowस्वायम्भुवकृता श्रीगणेशस्तुतिः
READ
स्वायम्भुवकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
