Shri Ganesh

स्वायम्भुवकृता श्रीगणेशस्तुतिः

Ganeshastutihsvayambhuvakrrita Sanskrit

Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| स्वायम्भुवकृता श्रीगणेशस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

स्वायम्भुव उवाच ।
नमस्ते गजवक्त्राय हेरम्बाय नमो नमः ।
ओङ्काराकृतिरूपाय सगुणाय नमो नमः ॥ ४२॥

नैर्गुण्ये गजरूपाय सदा ब्रह्मसुखात्मने ।
गणेशाय सदा भक्तपोषकाय नमो नमः ॥ ४३॥

नरकुञ्जररूपाय योगाभेदाय ते नमः ।
चतुर्बाहुधरायैव पुरुषार्थप्रसिद्धये ॥ ४४॥

नानाभोगधरायैवानन्तलीलास्वरूपिणे ।
विघ्नराजाय देवाय भक्तविघ्नविदारिणे ॥ ४५॥

सत्यासत्यमयायैवाव्यक्तभेदात्मने नमः ।
स्वानन्दपतये तुभ्यं सदा स्वानन्ददायिने ॥ ४६॥

नमस्ते मूषकारूढसर्वान्तरसुभोगिने ।
नानामृतसमुद्रे च क्रीडाकर नमोऽस्तु ते ॥ ४७॥

सिद्धिबुद्धिपते तुभ्यं द्वेधामायाप्रसारिणे ।
भक्तेभ्यो योगदात्रे च योगाकाराय ते नमः ॥ ४८॥

वेदोपनिषदां लभ्यमहावाक्यमयाय ते ।
ब्रह्मभूताय वै तुभ्यं नमस्ते ब्रह्मराशये ॥ ४९॥

किं स्तौमि त्वां गणाधीश यत्र वेदाश्च विस्मिताः ।
योगिनः शेषमुख्या वै शङ्कराद्या महेश्वराः ॥ ५०॥

तथापि तव जातेन दर्शनेन गजानन ।
स्फूर्तिः प्राप्ता तया नाथ संस्तुतोऽसि मया प्रभो ॥ ५१॥

अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः ।
वेदान्तागोचरो गम्यो धन्योऽहं जगतीतले ॥ ५२॥

धन्यो मे जनको देव तपो ज्ञानं कुलं प्रभो ।
विद्या व्रतादिकं सर्वं धन्यं ते पाददर्शनात् ॥ ५३॥

इति स्तुत्वा श्रीगणाधीशं भक्त्या परमया युतः ।
सरोमाञ्चोऽभवत्तत्र प्रणनाम पुनः पुनः ॥ ५४॥

तमुत्थाप्य गणाधीशोऽगादीत्तं भक्तमुत्तमम् ।
वरं वृणु महाभाग यस्ते मनसि वर्तते ॥ ५५॥

कृतं त्वया मदीयं यत् स्तवनं तोषकारकम् ।
पठते श‍ृण्वते चापि सर्वदं प्रभविष्यति ॥ ५६॥

पुत्रपौत्रादिविभवप्रदं शोकविनाशनम् ।
धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ ५७॥

धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् ।
दृढभक्तिकरं मे च भविष्यति न संशयः ॥ ५८॥

इति ब्रुवन्तं विघ्नेशमुवाच मनुसत्तमः ।
स्वायम्भुवः प्रसन्नात्मा कृताञ्जलिरुदारधीः ॥ ५९॥

मनुरुवाच ।
यदि प्रसन्नतां यातस्तदा देहि गजानन ।
भक्ति दृढां त्वदीयां मे यया मोहो न विद्यते ॥ ६०॥

सृष्टेः करणसामर्थ्यं धर्मपालनमुत्तमम् ।
प्रजारक्षकतां देहि देव देवेश मे चिरम् ॥ ६१॥

यद्यदिच्छामि विघ्नेश तत्तत् सिध्यतु सर्वदा ।
तव भक्तेषु वासो मे सदा भवतु मानद ॥ ६२॥

तथेति तमुवाचादावन्तर्धानं चकार ह ।
गणेशानो निजे लोकेऽगमद्वै भक्तवत्सलः ॥ ६३॥

इति स्वायम्भुवकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download स्वायम्भुवकृता श्रीगणेशस्तुतिः PDF

स्वायम्भुवकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App