|| श्री घटिकाचल हनुमत्स्तोत्रम् ||
शङ्खचक्रधरं देवं घटिकाचलवासिनम् ।
योगारूढं ह्याञ्जनेयं वायुपुत्रं नमाम्यहम् ॥
भक्ताभीष्टप्रदातारं चतुर्बाहुविराजितम् ।
दिवाकरद्युतिनिभं वन्देऽहं पवनात्मजम् ॥
कौपीनमेखलासूत्रं स्वर्णकुण्डलमण्डितम् ।
लङ्घिताब्धिं रामदूतं नमामि सततं हरिम् ॥
दैत्यानां नाशनार्थाय महाकायधरं विभुम् ।
गदाधरकरो यस्तं वन्देऽहं मारुतात्मजम् ॥
नृसिंहाभिमुखो भूत्वा पर्वताग्रे च संस्थितम् ।
वाञ्छन्तं ब्रह्मपदवीं नमामि कपिनायकम् ॥
बालादित्यवपुष्कं च सागरोत्तारकारकम् ।
समीरवेगं देवेशं वन्दे ह्यमितविक्रमम् ॥
पद्मरागारुणमणिशोभितं कामरूपिणम् ।
पारिजाततरुस्थं च वन्देऽहं वनचारिणम् ॥
रामदूत नमस्तुभ्यं पादपद्मार्चनं सदा ।
देहि मे वाञ्छितफलं पुत्रपौत्रप्रवर्धनम् ॥
इदं स्तोत्रं पठेन्नित्यं प्रातःकाले द्विजोत्तमः ।
तस्याभीष्टं ददात्याशु रामभक्तो महाबलः ॥
- kannadaಶ್ರೀಹನುಮತ್ತಾಂಡವಸ್ತೋತ್ರಂ
- punjabiਸ਼੍ਰੀ ਹਨੁਮੱਤਾਣ੍ਡਵਸ੍ਤੋਤ੍ਰਮ੍
- gujaratiશ્રી હનુમત્તાણ્ડવ સ્તોત્રમ્
- teluguశ్రీహనుమత్తాండవస్తోత్రం
- sanskritश्री हनुमत्ताण्डव स्तोत्रम्
- englishShri Hanumat Tandava Stotram
- sanskritश्रीहनूमन्नवरत्नपद्यमाला (हनुमान नवरत्न पद्यमाला)
- englishShri Maruti Stotram
- hindiऋणमोचक मंगल स्तोत्रम् अर्थ सहित
- teluguమారుతీ స్తోత్రం
- hindiमारुति स्तोत्रम्
- hindiश्री हनुमान स्तवन स्तोत्रम् अर्थ सहित
- englishShri Hanuman Stavan Stotram
- hindiश्री हनुमान स्तवन स्तोत्र
Found a Mistake or Error? Report it Now
