|| गिरिधर अष्टक स्तोत्र ||
त्र्यैलोक्यलक्ष्मी- मदभृत्सुरेश्वरो यदा घनैरन्तकरैर्ववर्ष ह।
तदाकरोद्यः स्वबलेन रक्षणं तं गोपबालं गिरिधारिणं भजे।
यः पाययन्तीमधिरुह्य पूतनां स्तन्यं पपौ प्राणपरायणः शिशुः।
जघान वातायित- दैत्यपुङ्गवं तं गोपबालं गिरिधारिणं भजे।
नन्दव्रजं यः स्वरुचेन्दिरालयं चक्रे दिवीशां दिवि मोहवृद्धये।
गोगोपगोपीजन- सर्वसौख्यकृत्तं गोपबालं गिरिधारिणं व्रजे।
यं कामदोग्घ्री गगनाहृतैर्जलैः स्वज्ञातिराज्ये मुदिताभ्यषिञ्चत्।
गोविन्दनामोत्सव- कृद्व्रजौकसां तं गोपबालं गिरिधारिणं भजे।
यस्याननाब्जं व्रजसुन्दरीजनां दिनक्षये लोचनषट्पदैर्मुदा।
पिबन्त्यधीरा विरहातुरा भृशं तं गोपबालं गिरिधारिणं भजे।
वृन्दावने निर्जरवृन्दवन्दिते गाश्चारयन्यः कलवेणुनिःस्वनः।
गोपाङ्गनाचित्त- विमोहमन्मथस्तं गोपबालं गिरिधारिणं भजे।
यः स्वात्मलीला- रसदित्सया सतामाविश्चकाराऽग्नि- कुमारविग्रहम्।
श्रीवल्लभाध्वानु- सृतैकपालकस्तं गोपबालं गिरिधारिणं भजे।
गोपेन्द्रसूनोर्गिरि- धारिणोऽष्टकं पठेदिदं यस्तदनन्यमानसः।
समुच्यते दुःखमहार्णवाद् भृशं प्राप्नोति दास्यं गिरिधारिणे ध्रुवम्।
प्रणम्य सम्प्रार्थयते तवाग्रतस्त्वदङ्घ्रिरेणुं रघुनाथनामकः।
श्रीविठ्ठ्लानुग्रह- लब्धसन्मतिस्तत्पूरयैतस्य मनोरथार्णवम्।
Found a Mistake or Error? Report it Now