|| गुरुमरुत्पुराधीशस्तोत्रम् ||
गरुडवाहनं पुण्यदर्शनं
वरझषाकृतिं वेदसङ्ग्रहम् ।
प्रलयकालजीवात्मतारकं
गुरुमरुत्पुराधीशामाश्रये ॥ १॥
प्रणवमानसं प्राणजीवनं
प्रकटकच्छपाकारमीश्वरम् ।
अमृतदायकं नित्यनूतनं
गुरुमरुत्पुराधीशमाश्रये ॥ २॥
सुकृतकल्पकं सामतोषितं
सकलवैष्णवाकारसूकरम् ।
भुवनभूषणालङ्कृतं विभुं
गुरुमरुत्पुराधीशामाश्रये ॥ २॥
वरदमीश्वरं नारसिंहकं
वपुषि भीकरं पुण्यपूरकम् ।
सुरगणावृतं भक्तवत्सलं
गुरुमरुत्पुराधीशमाश्रये ॥ ४॥
चरितविश्रुतं वामनाकृतिं
परमपूरुषं यागसाधकम् ।
परपदप्रदं पापनाशकं
गुरुमरुत्पुराधीशामाश्रये ॥ ५॥
भृगुकुलोद्भवं रामनामकं
सुगुणभासुरं रेणुकात्मजम् ।
नृवरतापसं केरळाधिपं
गुरुमरुत्पुराधीशमाश्रये ॥ ६॥
दशरथात्मजं रामभद्रकं
शारधनुर्धरं रावणान्तकम् ।
पुरुषमव्ययं श्रीनिकेतनं
गुरुमरुत्पुराधीशमाश्रये ॥ ७॥
वरहलायुधं रोहिणीसुतं
गिरिधराग्रजं रामदैवतम् ।
गजगणप्रियं धीमतां वरं
गुरुमरुत्पुराधीशमाश्रये ॥ ८॥
धृतसुदर्शनं कृष्णमच्युतं
विजयसारथिं गीतसारसम् ।
पशुपगोपिकानर्तनप्रियं
गुरुमरुत्पुराधीशामाश्रये ॥ ९॥
दशविधाकृतिं कल्किवैभवं
भुजगतल्पगं भूतभावनम् ।
निखिलरोगसंहारकारकं
गुरुमरुत्पुराधीशमाश्रये ॥ १०॥
दशककीर्तनं श्रीधरात्मकं
पदमनामयं ईश्वरार्पितम् ।
परममङ्गळं भाग्यदायकं
गुरुमरुत्पुराधीशामाश्रये ॥ ११॥
इति पालक्कुलं त्रिविक्रमन् नम्पूतिरिविरचितं
गुरमरुत्पुराधीशस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now