|| श्रीहनुमद्रक्षास्तोत्रम् ||
प्रणम्य श्रीगणेशं च श्रीरामं मारुतिं तथा ।
रक्षामिमां पठेत्प्राज्ञः श्रद्धाभक्ति समन्वितः ॥ १॥
शिरो मे हनुमान् पातु भालं पवननन्दनः ।
आञ्जनेयो दृशौ पातु रामचन्द्रप्रियश्रुती ॥ २॥
घ्राणं पातु महावीरो मुखं लक्ष्मणप्राणदः ।
जिह्वां मनोजवः पातु कण्ठं पातु जितेन्द्रियः ॥ ३॥
स्कन्धौ महाबली पातु भुजौ सङ्कटमोचनः ।
करौ विश्वम्भरः पातु हृदयं सर्वशक्तिमान् ॥ ४॥
मध्यं पातु महातेजाः नाभिं सागरलङ्घनः ।
रामदूतः कटी पातु सक्थिनी राक्षसेन्द्रजित् ॥ ५॥
ऊरू पुच्छबलः पातु भीमगर्वापहारकः ।
जानुनी श्रीप्रदः पातु जङ्घे लङ्काप्रदाहकः ॥ ६॥
पादौ श्रीरामभक्तश्च सूर्यमण्डलभक्षकः ।
हनुमान् पातु मे कायं मकरध्वज जन्मदः ॥ ७॥
एतां रुद्रबलोपेतां रक्षां यः सुकृती पठेत् ।
सदीर्घायुसुखी पुत्री बलवान् बुद्धिमान् भवेत् ॥ ८॥
इति श्रीरामरक्षास्तोत्रमनुश्रुत्य श्रीसीतारामशर्मणा
विरचितं श्रीमद् हनुमद्रक्षास्तोत्रं सम्पूर्णम् ॥
- englishShri Ghatikachala Hanumat Stotram
- kannadaಶ್ರೀ ಹನುಮಾನ್ ಬಡಬಾನಲ ಸ್ತೋತ್ರಂ
- tamilஶ்ரீ ஹநுமாந் ப³ட³பா³நல ஸ்தோத்ரம்
- teluguశ్రీ హనుమాన్ బడబానల స్తోత్రం
- sanskritश्री हनुमान् बडबानल स्तोत्रम्
- englishShri Hanumat Pancharatnam Stotra
- englishLangulaastra Shatrujanya Hanumat Stotra
- kannadaಶ್ರೀಹನುಮತ್ತಾಂಡವಸ್ತೋತ್ರಂ
- punjabiਸ਼੍ਰੀ ਹਨੁਮੱਤਾਣ੍ਡਵਸ੍ਤੋਤ੍ਰਮ੍
- gujaratiશ્રી હનુમત્તાણ્ડવ સ્તોત્રમ્
- teluguశ్రీహనుమత్తాండవస్తోత్రం
- sanskritश्री हनुमत्ताण्डव स्तोत्रम्
- englishShri Hanumat Tandava Stotram
- sanskritश्रीहनूमन्नवरत्नपद्यमाला (हनुमान नवरत्न पद्यमाला)
- englishShri Maruti Stotram
Found a Mistake or Error? Report it Now