|| हारतीस्तोत्रम् ||
श्री हारतीदेव्यैः नमः ।
कुन्दप्रसूनसदृशीं रुचिराङ्गरागां
नानाविभूषणविभूषितवज्रदेहाम् ।
सव्येन हस्तकमलेन भयार्तिहन्त्रीं
यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ १॥
आलिङ्गितां निजमसव्यभुजेन पुत्रान्
नेत्रैस्त्रिभिश्च परिशोभितचारुदेहाम् ।
नानाविधैर्मणिगणै रचितं किरीटं
यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ २॥
तां वह्निमण्डलगतां वसुपत्रपद्मे
श्रीरत्नपीठ उपरिस्थितपादपद्माम् ।
यक्षादिभिः परिवृतां ललितासनस्थां
यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ ३॥
लोकत्रयार्तिशमनीं शिशुजीवदात्रीं
श्रीहारतीं करुणया निजभक्तदक्षाम् ।
दुःखापहां जनमनोहरभोगभाजां
यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ ४॥
सन्त्रासिनीं पिशुनवृत्तिवतां जनानां
विस्फोटकादिरुजराशिविनाशकर्त्रीम् ।
भक्तेषु धातृसदृशीं च सुशीतलाङ्गीं
यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ ५॥
बुद्धानुशासनरतामतिसूक्ष्मरूपां
लोकत्रयार्चितपदां करुणार्चिभूताम् ।
गन्धर्वकिन्नरगणैः परिसेव्यमानां
यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ ६॥
केयूरकुण्डलसुकङ्कणनूपुराढ्यां
नानाविचित्रवसनप्रदधानशीलाम् ।
संरक्षणीं शिशुगणान् परिपालयन्तीं
यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ ७॥
स्वर्भूरसातलमवस्थितभुक्तिदान-
संसक्तपूर्णहृदयां त्रिगुणात्मरूपाम् ।
तां संस्मराम्यहरहः शरणं प्रपद्ये
यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ ८॥
रक्षाकरीं स्तुतिमिमां प्रपठेन्मनुष्यः
श्रीहारतीं निजगृहे शिशुरक्षणाय ।
वाचं श्रियं सुविपुलं च सुखादि सर्वं
दात्री त्रिकं पठति यः प्रयतः प्रभाते ॥ ९॥
इति श्रीभवरत्नविनिर्गतं बालरक्षाकरं हारतीस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now