Download HinduNidhi App
Misc

हिमालय स्तुति

Himalaya Stuti Sanskrit

MiscStuti (स्तुति संग्रह)हिन्दी
Share This

|| हिमालय स्तुति ||

ॐ हिमालयाय विद्महे । गङ्गाभवाय धीमहि । तन्नो हरिः प्रचोदयात् ॥

हिमालयप्रभावायै हिमनद्यै नमो नमः ।
हिमसंहतिभावायै हिमवत्यै नमो नमः ॥

अलकापुरिनन्दायै अतिभायै नमो नमः ।
भवापोहनपुण्यायै भागीरथ्यै नमो नमः ॥

सङ्गमक्षेत्रपावन्यै गङ्गामात्रे नमो नमः ।
देवप्रयागदिव्यायै देवनद्यै नमो नमः ॥

देवदेवविनूतायै देवभूत्यै नमो नमः ।
देवाधिदेवपूज्यायै गङ्गादेव्यै नमो नमः ॥

नमः श्रीरामभद्राय गङ्गातीरालयाय च ।
सर्वोत्कृष्टाय शान्ताय गभीराय नमो नमः ॥

भागीरथ्यलकानन्दासङ्गमाभिमुखाय च ।
देवप्रयागदैवाय रघुनाथाय ते नमः ॥

नमस्सीतावराजाय रामचन्द्राय विष्णवे ।
सर्वशक्तिप्रदात्रे च सर्वोन्नताय ते नमः ॥

रुद्रप्रयागनाथाय नारदागीतशम्भवे ।
मन्दाकिन्यलकानन्दासङ्गमस्थाय ते नमः ॥

मन्दाकिन्यभिषिक्ताय केदारलिङ्गमूर्तये ।
स्वयम्भूशैलरूपाय शिवाय ओं नमो नमः ॥

श्रीयोगनरसिंहाय ज्योतिर्मठस्थिताय च ।
करावलम्बदैवाय श्रीलक्ष्मीपतये नमः ॥

बदरीकाश्रमस्थाय नारायणाय विष्णवे ।
तपोभूमिप्रशान्ताय योगनिष्ठाय ते नमः ॥

बदरीवननाथाय नरनारायणाय च ।
नरोद्धारणलीलाय नरानन्दाय ते नमः ॥

हिमगङ्गालकानन्दाभिषिक्तयोगमूर्तये ।
बदरीश्रीमहालक्ष्मीतपोनाथाय ते नमः ॥

हैमशेखरवृत्ताय नीलकण्ठनुताय च ।
वसुधाराप्रवाहाय पुराणाय नमो नमः ॥

गीताचार्याय कृष्णाय वाचामगोचराय च ।
हिमालयप्रशान्तिस्थपरानन्दाय ते नमः ॥

सदालीनमनस्स्थाय सदानन्दप्रशान्तये ।
सदात्मानन्दबोधाय श्रीकृष्णाय नमो नमः ॥

मङ्गलं हिमरागायै गङ्गामात्रे सुमङ्गलम् ।
मङ्गलं शिवसद्धाम्ने गङ्गाधराय मङ्गलम् ॥

मङ्गलं वासुदेवाय बदरीवनमालिने ।
मङ्गलं श्रीसमेताय नारायणाय मङ्गलम् ॥

मङ्गलं पूर्णशोभाय हिम्याचलाय मङ्गलम् ।
मङ्गलं सौम्यगङ्गाय मोक्षधाम्ने सुमङ्गलम् ॥

मङ्गलं रागहिम्याय नादगङ्गाय मङ्गलम् ।
मङ्गलं त्यागराजाय पुष्पार्चिताय मङ्गलम् ॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता हिमालयस्तुतिः गुरौ समर्पिता ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
हिमालय स्तुति PDF

Download हिमालय स्तुति PDF

हिमालय स्तुति PDF

Leave a Comment