|| ईहाष्टकम् ||
जालन्धरावनि-वनी-नवनीरदाभ-
प्रोत्तालशैल-वलयाकलिताधिवासाम् ।
आशातिशायि-फलकल्पन-कल्पवल्लीं
ज्वालामुखीमभिमुखी-भवनाय वन्दे ॥ १॥
ज्येष्ठा क्वचित् क्वचिदुदारकला कनिष्ठा
मध्या क्वचित् क्वचिदनुद्भव-भावभव्या ।
एकाप्यनेकविधया परिभाव्यमाना
ज्वालामुखी सुमुख-भावमुरीकरोतु ॥ २॥
अश्रान्त-निर्यदमलोज्वल-वारिधारा
सन्धाव्यमान-भवनान्तर-जागरूका ।
मातर्ज्वलज्ज्वलन-शान्तशिखानुकारा
रूपच्छटा जयति काचन तावकीना ॥ ३॥
मन्ये विहारकुतुकेषु शिवानुरूपं
रूपं न्यरूपि खलु यत्सहसा भवत्या ।
ततसूचनार्थमिह शैलवनान्तराले
ज्वालामुखीत्यभिधया स्फुटमुच्यतेऽद्य ॥ ४॥
सत्या ज्वलत्तनु-समुद्गत-पावकार्चि
र्ज्वालामुखीत्यभिमृशन्ति पुराणमिश्राः ।
आस्तां वयं तु भजतां दुरितानि दग्धुं
ज्वालात्मना परिणता भवतीति विद्मः ॥ ५॥
यावत्त्वदीय-चरणाम्बुजयोर्न राग
स्तावत् कुतः सुखकराणि हि दर्शनानि ।
प्राक्पुण्य-पाकबलतः प्रसृते तु तस्मिन्
नास्त्येव वस्तु भुवने सुखकृन्न यत् स्यात् ॥ ६॥
आत्मस्वरूपमिह शर्मसरूपमेव
वर्वर्ति किन्तु जगदम्ब ! न यावदेतत् ।
उद्घाट्यते करुणया गुरुतां वहन्त्या
तावत् सुखस्य कणिकापि न जायतेऽत्र ॥ ७॥
आस्तां मतिर्मम सदा तव पादमूले
तां चालयेन्न चपलं मन एतदम्ब ! ।
याचे पुनः पुनरिदं प्रणिपत्य मात-
र्ज्वालामुखि ! प्रणत-वाञ्छित-सिद्धिदे ! त्वाम् ॥ ८॥
इति दुर्गाप्रसादद्विवेदीविरचितं ईहाष्टकं सम्पूर्णम् ।
जालन्धरे भगवती विश्वमुखी ।
Found a Mistake or Error? Report it Now