Misc

ईश्वरप्रार्थनास्तोत्रम्

Ishvaraprarthanastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| ईश्वरप्रार्थनास्तोत्रम् ||

श्रीगणेशाय नमः ॥

ईश्वरं शरणं यामि क्रोधमोहादिपीडितः ।
अनाथं पतितं दीनं पाहि मां परमेश्वर ॥ १॥

प्रभुस्त्वं जगतां स्वामिन् वश्यं सर्वं तवास्ति च ।
अहमज्ञो विमूढोऽस्मि त्वां न जानामि हे प्रभो ॥ २॥

ब्रह्मा त्वं च तथा विष्णुस्त्वमेव च महेश्वरः ।
तव तत्त्वं न जानामि पाहि मां परमेश्वर ॥ ३॥

त्वं पिता त्वं च मे माता त्वं बन्धुः करुणानिधे ।
त्वां विना न हि चान्योऽस्ति मम दुःस्वविनाशकः ॥ ४॥

अन्तकाले त्वमेवासि मम दुःखविनाशकः ।
तस्माद्वै शरणोऽहं ते रक्ष मां हे जगत्पते ॥ ५॥

पितापुत्रादयः सर्वे संसारे सुखभागिनः ।
विपत्तौ परिजातायां कोऽपि वार्तां च पृच्छति ॥ ६॥

कामक्रोधादिभिर्युक्तो लोभमोहादिकैरपि ।
तान्विनश्यात्मनो वैरीन् पाहि मां परमेश्वर ॥ ७॥

अनेके रक्षिताः पूर्वं भवता दुःखपीडिताः ।
क्व गता ते दया चाद्य पाहि मां हे जगत्पते ॥ ८॥

न त्वां विना कश्चिदस्ति संसारे मम रक्षकः ।
शरणं त्वां प्रपन्नोऽहं त्राहि मां परमेश्वर ॥ ९॥

ईश्वरप्रार्थनास्तोत्रं योगानन्देन निर्मितम् ।
यः पठेद्भक्तिसंयुक्तः तस्येशः सम्प्रसीदति ॥ १०॥

इति श्रीयोगानन्दतीर्थविरचितं ईश्वरप्रार्थनास्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download ईश्वरप्रार्थनास्तोत्रम् PDF

ईश्वरप्रार्थनास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App