Download HinduNidhi App
Shri Ram

जटायु कृत श्री राम स्तोत्र

Jatayu Kruta Shri Rama Stotram Sanskrit

Shri RamStotram (स्तोत्र संग्रह)संस्कृत
Share This

॥जटायु कृत श्री राम स्तोत्र॥

जटायुरुवाच

अगणितगुणमप्रमेयमाद्यं
सकलजगत्स्थितिसंयमादिहेतुम् ।
उपरमपरमं परात्मभूतं सततमहं
प्रणतोऽस्मि रामचन्द्रम् ॥

निरवधिसुखमिन्दिराकटाक्षं
क्षपितसुरेन्द्रचतुर्मुखादिदुःखम् ।
नरवरमनिशं नतोऽस्मि रामं
वरदमहं वरचापबाणहस्तम् ॥

त्रिभुवनकमनीयरूपमीड्यं
रविशतभासुरमीहितप्रदानम् ।
शरणदमनिशं सुरागमूले
कृतनिलयं रघुनन्दनं प्रपद्ये ॥

भवविपिनदवाग्निनामधेयं
भवमुखदैवतदैवतं दयालुम् ।
दनुजपतिसहस्रकोटिनाशं
रवितनयासदृशं हरिं प्रपद्ये ॥

अविरतभवभावनातिदूरं
भवविमुखैर्मुनिभिस्सदैव दृश्यम् ।
भवजलधिसुतारणाङ्घ्रिपोतं
शरणमहं रघुनन्दनं प्रपद्ये ॥

गिरिशगिरिसुतामनोनिवासं
गिरिवरधारिणमीहिताभिरामम् ।
सुरवरदनुजेन्द्रसेविताङ्घ्रिं
सुरवरदं रघुनायकं प्रपद्ये ॥

परधनपरदारवर्जितानां
परगुणभूतिषु तुष्टमानसानाम् ।
परहितनिरतात्मनां सुसेव्यं
रघुवरमम्बुजलोचनं प्रपद्ये ॥

स्मितरुचिरविकासिताननाब्जमतिसुलभं
सुरराजनीलनीलम् ।
सितजलरुहचारुनेत्रशोभं
रघुपतिमीशगुरोर्गुरुं प्रपद्ये ॥

हरिकमलजशंभुरूपभेदात्त्वमिह
विभासि गुणत्रयानुवृत्तः ।
रविरिव जलपूरितोदपात्रेष्वमर
पतिस्तुतिपात्रमीशमीडे ॥

रतिपतिशतकोटिसुन्दराङ्गं
शतपथगोचरभावनाविदूरम् ।
यतिपतिहृदये सदा विभातं
रघुपतिमार्तिहरं प्रभुं प्रपद्ये ॥

इत्येवं स्तुवतस्तस्य
प्रसन्नोऽभूद्रघूत्तमः ।
उवाच गच्छ भद्रं ते
मम विष्णोः परं पदम् ॥

शृणोति य इदं स्तोत्रं
लिखेद्वा नियतः पठेत् ।
स याति मम सारूप्यं
मरणे मत्स्मृतिं लभेत् ॥

इति राघवभाषितं तदा
श्रुतवान् हर्षसमाकुलो द्विजः ।
रघुनन्दनसाम्यमास्थितः प्रययौ
ब्रह्मसुपूजितं पदम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
जटायु कृत श्री राम स्तोत्र PDF

Download जटायु कृत श्री राम स्तोत्र PDF

जटायु कृत श्री राम स्तोत्र PDF

Leave a Comment