Misc

काली कर्पूर स्तोत्रम्

Kaala Kapoor Stotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| काली कर्पूर स्तोत्रम् ||

कर्पूरं मधमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं
बीजं ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति ।
तेषां गद्यानि पद्यानि च मुकुहुहरादुल्लसन्त्येव वाचः
स्वच्छन्दं ध्वान्तधाराधरुरुचिरुचिरे सर्वसिद्धिं गतानाम्॥ १॥

ईशान सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि!
द्वन्द्वं ते मन्दचेता यदि जपति जनो वारूमेकं कदाचित् ।
जित्वा वाचामधीशं धनमपि चिरं मोहयन्नम्बुजाक्षीवृन्दं
चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे॥ २॥

ईशो वैश्वानरस्थः शशधरविलसद् वामनेत्रेण युक्तो
बीजं ते द्वन्द्वमन्यद् विगलितचिकुरे कालिके ये जपन्ति ।
द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति
सृक्कद्वन्दास्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति॥ ३॥

ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः
सव्ये चाभीर्वरं च त्रिजगदघहरे दक्षिणे कालिके च ।
जप्त्वैतन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब!
तेषामष्टौ करस्था: प्रकटितरदने सिद्धयस्त्र्यम्बकस्य॥ ४॥

वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्त्रयं कूर्चयुग्मं
लज्जाद्वन्द्वं च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा ।
मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते
लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति॥ ५॥

प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं
त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति ।
तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे
वाग्देवी देवि मुण्डस्त्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये॥ ६॥

गतासूनां बाहुप्रकरकृतकञ्चीपरिलसन्नितम्बां
दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिणयनां ।
श्मशानस्ते तल्पे शवहृदि महाकालसुरतप्रयुक्तां
त्वां ध्यायन् जननि जडचेता अपि कविः ॥ ७॥

शिवाभिर्घोराभिः शवनिवहमुण्डास्थिकरैः
परं संकीर्णायां प्रकटितचितायां हरवधूम् ।
प्रविष्टां । संतुष्टामुपरिसुरतेनातियुवतीं
सदा त्वां ध्यायन्ति क्वचिदपि च न तेषां परिभवः ॥ ८॥

वदामस्ते किं वा जननि वयमुच्चैर्जडधियो
न धाता नापीशो हरिरपि न ते वेत्ति परमम् ।
तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते
तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९॥

समन्तादापीनस्तनजघनधृघौवनवतीरतासक्तो
नक्तं यदि जपति भक्तस्तव मनुम् ।
विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः
समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः ॥ १०॥

समाः सुस्थीभूतो जपति विपरीतां यदि सदा
विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् ।
तदा तस्य क्षोणीतलविहरमाणस्य विदुषः
कराम्भोजे वश्या पुरहस्वधू सिद्धिनिवहाः ॥ ११॥

प्रसूते संसारं जननि भवती पालयति च
समस्तं क्षित्यादि प्रलयसमये संहरति च ।
अतस्त्वं धातासि त्रिभुवनपतिः श्रीपतिरपि
महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥ १२॥

अनेके सेवन्ते भवदधिकगीवार्णनिवहान्
विमूढास्ते मातः किमपि न हि जानन्ति परमम् ।
समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः
प्रपन्नोऽस्मि स्वैरं रतिरससमहानन्दनिरताम् ॥ १३॥

धरत्रि कीलालं शुचिरपि समीरोऽपि गगनं
त्वमेका कल्याणी गिरिशरमणी कालि सकलम् ।
स्तुतिः का ते मातर्निजकरुणया भामगतिकं
प्रसन्नां त्वं भूया भवमनु न भूयान्मम जनुः ॥ १४॥

श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः
सहस्रं त्वकार्णां निजगलितवीर्येण कुसुमम् ।
जपंस्त्वत्प्रयेकं मनुमपि तव ध्याननिरतो
महाकालि स्वैरं स भवति धरित्रीपरिवृढः ॥ १५॥

गृहे संमार्ज्यन्या परिगलितविर्यं हि चिकुरं
समूलं मध्याह्ने वितरति चितायां कुजदिने ।
समुच्चार्य प्रमेणा मनुमपि सकृत्कालि सततं
गजारूढो याति क्षितिपरिवृढः सत्कविवरः ॥ १६॥

स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो
पुरो ध्यायन्ध्यायन् यदि जपति भक्तस्तव मनुम् ।
स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदीनदीनः
पर्यन्ते परमपदलीनः प्रभवति ॥ १७॥

त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां
महाकालेनोच्चैर्मदनरसलावण्यनिरताम् ।
समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो
यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥ १८॥

सलोमास्थि स्वैरं पललमपि मार्जारमसिते !
परं चोष्ट्त्रं मैशं नरमहिषयोश्छागमपि वा ।
बलिम् ते पूजायामयि वितरतां मर्त्यवसतां
सतां सिद्धिःसर्वा प्रतिपदमपूर्वा प्रभवति ॥ १९॥

वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो
दिवा मातर्युष्मच्चरणयुगलध्याननिपुणः ।
परं नक्तं नग्नो निधुवनविनोदेन च मनुं
जपेल्लक्षं स स्यात् स्मरहरसमानः क्षितितले ॥ २०॥

इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः
स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् ।
निशार्धं वा पूजासमयमधि वा यस्तु पठति
प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१॥

कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं
वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः ।
रिपुः कारागारं कलयति च तं केलिकलया
चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२॥
इति श्रीमन्महाकालिविरचितं श्रीमद्दक्षिणकालिकायाः स्वरूपाख्यं स्तोत्रं समाप्तम्॥
महाकालप्रणीत काली कर्पूरस्तोत्र पूर्ण हुआ।

Found a Mistake or Error? Report it Now

Download काली कर्पूर स्तोत्रम् PDF

काली कर्पूर स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App