Misc

श्रीकाकिनीस्तोत्रम्

Kakinistotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीकाकिनीस्तोत्रम् ||

अथैकोनषष्टितमः पटलः
श्रीआनन्दभैरवी उवाच
ज्ञानेश्वरी शुभकरी परिभावनीया
योगेश्वरैर्हरिहरैर्गुरुभिर्महेन्द्रैः ।
तां काकिनीं परशिवां परमेशपत्नीं
संस्तौमि चारुहृदयाम्बुजपीठमध्ये ॥ ५९-१॥

एकाकिनी त्रिजगतामतिनाशकाले
त्वां काकिनीं समरकार्णा(ण्ड) ककाकपत्नीम् ।
त्वं साक्षिणी भुवनभङ्गविधौ सकास्ते
भूषण्डकाकमहिषीव वयं भजामः ॥ ५९-२॥

एकाकिनीं सकलधारणकालयोगे
आधार्य देहसमये सति काकिनीं त्वाम् ।
वाय्वासने मनस आशु विकारनाशे
काकेन्द्रचञ्चुचलितामहमेवमीडे ॥ ५९-३॥

भावोदये प्रणयिनीमगतौ च भावा
आह्लादयोगविभवे भुवनेश्वरीं त्वाम् ।
मन्दारहाररुचिरे परमेश्वरि त्वं
रक्षां कुरु प्रथमतो मतिमाश्रयामि ॥ ५९-४॥

चन्द्रोदये सुखमयी द्युतिकोटिदीप्ता
गोप्यागमे सुमतिभिः स्वमनांसि शुद्धा ।
सा त्वं सुखात्त्वं भव भावविपूजनीये
रक्षां कुरु प्रथमभास्करमङ्घ्रिमीडे ॥ ५९-५॥

ते पादपङ्कजमजस्रमहं भजामि
सानन्दबिन्दु विमलासनभावपुञ्जे ।
गुञ्जावटीविमलमाल्यसुशोभिताङ्गे
स्यामेव मे चरमभावसमूहदात्री ॥ ५९-६॥

पञ्चानने दशभुजे सकलास्त्रयुक्ते
विद्ये भये नरहरे नरहारभूषे ।
प्रेतासने त्रिनयने जननी त्वमेव
रक्षे शुभे चरणपङ्कजमाश्रयामि ॥ ५९-७॥

श्री सुन्दरि प्रणतरक्षिणि वेदमात-
स्तारेश्वरी त्वमपि रक्ष विनाशकाले ।
यद्येकभक्त इतिहासपुराणवक्ता
नित्यानुरक्तहरपादसरोजमीडे ॥ ५९-८॥

ते श्रीपदं भुवनसारमनन्तसेव्यं
योगास्पदं कृतिभिराश्रयमेकयोगम् ।
सर्वे भजन्ति निजमोक्षफलाय नित्यं
दीनोऽहमम्ब भुवनेशि मुदा भजामि ॥ ५९-९॥

त्रैलोक्यपूजितपदं हृदयाम्बुजस्थं
चित्तप्रकाशकमले स्वसुखानुभूतम् ।
मायाश्रयं सकलसिद्धिनिदानरूपं
मञ्जीरहारविनतं वरमाश्रयामि ॥ ५९-१०॥

कौटीरहारकमलप्रियमाल्यशोभे
शोभाकरे स्थिरतरा भव मे हृदब्जे ।
भूमण्डले हि बलवान्कृतकृत्य एव
त्वामीश्वरीं हृदि मुदा सुखमाश्रयामि ॥ ५९-११॥

नित्ये पुरा भजति योगसुसिद्धयेऽसौ
शम्भुर्गिरीश इति चेश्वरपार्श्वगामि ।
सायुज्यनाथपदवीं गत ईशकान्ते
एकाकिनी कुलवताङ्घ्रियुगं किमन्यैः ॥ ५९-१२॥

ध्यायन्ति योगिन इहाघसमूहशैलं
संहार हेतुकसदाघविनाशनाय ।
चित्तोत्सवाय विभवाय जयाय भूमेः
दीनोऽहमाशु विभजामि पदं श्रिये ते ॥ ५९-१३॥

कृष्णे सिते विमलपीतनिभे सुरक्ते
वर्णाश्रये त्वमव मामतिदीनमेकम् ।
पुत्रं तवैव चरणाम्बुजमेव कान्तं
नीलाम्बुजे स्थिरतरं कुरु कामदात्रि ॥ ५९-१४॥

सर्वेश्वरी प्रियकरि भवभावहन्त्रि
नाना ध्वनिप्रणतकामदुघे विचित्रे ।
रत्नाम्बरे सुखपदं यदि देहि दास्यं
त्वं चारुवर्णगलिते पदमाश्रयामि ॥ ५९-१५॥

रत्नाकरे सकरुणेऽरुणकोटिवर्णे
स्वर्णादिनिर्मितसृजापविशोभिताङ्गी ।
त्वं काकिनी यदि कटाक्षनिपातमेकं
सर्वं कुरुष्व सुखमोक्षपथप्रमोदी ॥ ५९-१६॥

आद्ये प्रवालविमलेऽमलमाल्यशोभे
सूक्ष्मेऽतिसूक्ष्मनिकरे करुणानिधाने ।
(क ) बाले वले प्रचले चपले प्रलापे
योगेशि पादकमलं कुलमाश्रयामि ॥ ५९-१७॥

(ख ) त्वं षोडशी खरतरा खरखड्गहस्ते
खड्गेश्वरी प्रखरवाक्यमथाढ्यवक्त्रे ।
खर्जूरहाररुचिरे खलहन्त्रि तुभ्यं
नित्यं नमो नम उपेन्द्रगिरीन्द्रसेव्ये ॥ ५९-१८॥

(ग ) गीतानते तरुतरे प्रणमामि नित्यं
गात्रेश्वरी गतिहरे गणनाथसेव्ये ।
गायन्ति ते चरणपङ्कजसारगीतं
रक्षाप्रचण्डकलुषादनुपेक्षणीयम् ॥ ५९-१९॥

(घ ) दीर्घस्वरे घनवरे घनघोरनादे
घोरानने नवघने घटनाघनानाम् ।
घोरास्पदे घटगते घटशून्यकर्त्रि
त्वं काकिनी समवतु क्षितिदोषजालात् ॥ ५९-२०॥

(ङ ) आनुस्वरे स्मरहरे ननु रूपविद्ये
संयोगिनीप्रबलशत्रुविनाशभूते ।
रक्षेऽतिरक्ष करुणां कुरु देहि मोक्षं
(च ) चण्डि प्रचण्डनयने चरणं भजे ते ॥ ५९-२१॥

(छ ) छत्रप्रदे छलहरे छदवासिनी त्वम् ।
छद्मस्थिते हृदयपङ्कजदक्षयोगे ।
(ज ) त्वां पूजये जयधरे यदुनाथजन्यो ।
जाये जयं यदिह देहि पदं भजामि ॥ ५९-२२॥

(झ ) झङ्के झनज्वलयतीह रिपुं पिबन्ति
त्वं कौशिकी सकलदेहविशोधनी त्वम् ।
(न ) नित्येऽनुनासिकपदे सकलार्थदे त्वं
(ञ ) रक्षां कुरुष्व विपदे कुलपुञ्जगुञ्जे ॥ ५९-२३॥

(ट ) टङ्कारगेऽट्टहसने टललेऽट्टहासे ।
(ठ ) ठाक्कारिणी सठहरा परिनिष्ठिता त्वम् ।
सिंहेष्टपृष्ठनिलयेऽस्थिरयोगभावं
हृत्पद्मके कुरु सदा सकलार्थदात्रि ॥ ५९-२४॥

एतत्स्तोत्रं पठेद्धीमान् ध्यानन्यासपरायणः ।
विभाव्य स्तौति यो योगी स योगी मोक्षभाग्भवेत् ॥ ५९-२५॥

हृत्पङ्करुहमध्यस्थं स पश्यति जगत्त्रयम् ।
अष्टसिद्धियुतः शीघ्रं जीवन्मुक्तो भवेन्नरः ॥ ५९-२६॥

इति श्रीरुद्रयामले महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
काकिनीस्तोत्रविन्यासो नामोनषष्टितमः पटलः ॥ ५९॥

Found a Mistake or Error? Report it Now

Download श्रीकाकिनीस्तोत्रम् PDF

श्रीकाकिनीस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App