Misc

श्रीकल्लेश्वरस्तोत्रम्

Kalleshvarastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीकल्लेश्वरस्तोत्रम् ||

(वसन्ततिलकवृत्तम्)
जीवेशविश्वसुरयक्षनृराक्षसाद्याः
यस्मिन् स्थिताश्च खलु येन विचेष्टिताश्च ।
यस्मात्परं न च तथाऽऽपरमस्ति किञ्चित्
कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ १॥

यो निष्क्रियो विगतमायविभुः परेशः
नित्यो विकाररहितो भुवि निर्विकल्पः ।
सत्योऽद्वितीय इति यं श्रुतयो ब्रुवन्ति
कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ २॥

कल्पद्रुमं प्रणतभक्तहृदन्धकारं
मायाविलासमखिलं विनिवर्तयन्तम् ।
चित्सूर्यरूपमखिलं विनिवर्तयन्तं
कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ ३॥

स्तोत्रं कल्लेश्वरस्येदं सत्कामितसुरद्रुमम् ।
पठन्ति ये नरास्तेषां भवबन्धोऽपि नश्यति ॥

इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीकल्लेश्वरस्तोत्रं सम्पूर्णम् ।
रचनास्थानं – बदरिकल्लेश्वरक्षेत्रं,
बदरिकाश्रमादागमसमये मध्ये मार्गं

Found a Mistake or Error? Report it Now

Download श्रीकल्लेश्वरस्तोत्रम् PDF

श्रीकल्लेश्वरस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App