|| कर्पूर आरती Marathi PDF ||
कर्पूरगौरं करुणावतारं,
संसारसारं भुजगेन्द्रहारम्।
सदावसन्तं हृदयारविन्दे,
भवं भवानीसहितं नमामि॥1॥
मन्दारमालाकुलितालकायै
कपालमालांकितकन्धराय।
दिव्याम्बरायै च दिगम्बराय
नम: शिवायै च नम: शिवाय॥2॥
श्री अखण्डानन्दबोधाय शोकसन्तापहारिणे।
सच्चिदानन्दस्वरूपाय शंकराय नमो नम:॥3॥
त्वमेव माता च पिता त्वमेव
त्वमेव बंधू च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ||
कायेन वाचा मनसेंद्रियैर्वा
बुध्यात्मना वा प्रकृतेः स्वभावात
करोमि यध्य्त सकलं परस्मै
नारायणायेति समर्पयामि ||
Found a Mistake or Error? Report it Now

