|| श्रीकिङ्किणीस्तोत्रम् ||
किं किं दुःखं सकलजननि क्षीयते न स्मृतायाम् ।
का का कीर्तिः कुलकमलिनी प्राप्यते नार्चितायाम् ॥ १॥
किं किं सौख्यं सुरवर नुते प्राप्यते न स्तुतायाम् ।
कं कं योगन्त्वयि न तनुते चित्तमालम्बितायाम् ॥ २॥
स्मृता भवभयध्वंसि पूजितासि शुभङ्करि ।
स्तुता त्वं वाञ्छितां देवि ददासि करुणाकरे ॥ ३॥
परमानन्दबोधाद्विरूपे तेजस्वरूपिणि –
देववृन्दशिरोरत्न निघृष्टचरणाम्बुजे ।
चिद्विश्रान्ति महासत्ता मात्रे मात्रे नमोऽस्तु ते ॥ ४॥
सृष्टिस्थित्युपसंहार हेतु भूते सनातनि ।
गुणत्रयात्मिकाऽसि त्वं जगतः कारणेच्छया ॥ ५॥
अनुग्रहाय भूतानां गृहीत दिव्यविग्रहे ।
भक्तस्य मे नित्यपूजा युक्तस्य परमेश्वरि ॥ ६॥
ऐहिकामुष्मिकीसिद्धिं देहि त्रिदशवन्दिते ।
तापत्रयपरिम्लान भाजनं त्राहि मां शिवे ॥ ७॥
नान्यं वदामि न शृणोमि न चिन्तयामि ।
नान्यं स्मरामि न भजामि न चाश्रयामि ।
भक्त्या त्वदीयचरणाम्बुजमादरेण । (कर्णोक्तं पाण्डवगीतायाम्)
मां त्राहि देवि कृपया मयि देहि सिद्धिम् ॥ ८॥
अज्ञानाद्वा प्रमादाद्वा वैकल्यात् साधनस्य च ।
यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ॥ ८॥
द्रव्यहीनं क्रियाहीनं श्रद्धामन्त्रविवर्जितम् ।
तत्सर्वं कृपया देवि क्षमस्व त्वं दयानिधे ॥ ९॥
यन्मया क्रियते कर्म तन्महत् स्वल्पमेव वा ।
तत्सर्वं च जगद्धात्रि क्षन्तव्यमयमञ्जलिः ॥ १०॥
॥ इति श्रीकिङ्किणीस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now