|| देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः ||
देवक्युवाच ।
रूपं यत्तत्प्राहुरव्यक्तमाद्यं
ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् ।
सत्तामात्रं निर्विशेषं निरीहं
स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥
नष्टे लोके द्विपरार्धावसाने
महाभूतेष्वादिभूतं गतेषु ।
व्यक्तेऽव्यक्तं कालवेगेन याते
भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥
योऽयं कालस्तस्य तेऽव्यक्तबन्धो
चेष्टामाहुश्चेष्टते येन विश्वम् ।
निमेषादिर्वत्सरान्तो महीयां
स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥
मर्त्यो मृत्युव्यालभीतः पलायन्
लोकान् सर्वान्निर्भयं नाध्यगच्छत् ।
त्वत्पादाब्जं प्राप्य यदृच्छयाद्य
स्वस्थः शेते मृत्युरस्मादपैति ॥ २७॥
स त्वं घोरादुग्रसेनात्मजान्न
स्त्राहि त्रस्तान् भृत्यवित्रासहासि ।
रूपं चेदं पौरुषं ध्यानधिष्ण्यं
मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ २८॥
जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।
समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ २९॥
उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।
शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३०॥
विश्वं यदेतत्स्वतनौ निशान्ते
यथावकाशं पुरुषः परो भवान् ।
बिभर्ति सोऽयं मम गर्भगोऽभू
दहो नृलोकस्य विडम्बनं हि तत् ॥ ३१॥
इति श्रीमद्भागवते दशमस्कन्धे तृतीयाध्यायान्तर्गता
देवकीकृता स्तुतिः समाप्ता ।
इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे पूर्वार्धे तृतीयाध्यायान्तर्गतं
देवकीकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
- assameseশ্ৰী কৃষ্ণ স্তুতি
- gujaratiશ્રી કૃષ્ણ સ્તુતિ
- punjabiਸ਼੍ਰੀ ਕ੍ਰੁਸ਼਼੍ਣ ਸ੍ਤੁਤਿ
- bengaliশ্রী কৃষ্ণ স্তুতি
- teluguశ్రీ కృష్ణ స్తుతి
- sanskritश्री कृष्ण स्तुति
- odiaଶ୍ରୀ କୃଷ୍ଣ ସ୍ତୁତି
- tamilஶ்ரீ க்ருʼஷ்ண ஸ்துதி
- kannadaಶ್ರೀ ಕೃಷ್ಣ ಸ್ತುತಿ
- malayalamശ്രീ കൃഷ്ണ സ്തുതി
Found a Mistake or Error? Report it Now