Download HinduNidhi App
Misc

कुमार सूक्तम्

Kumara Suktam Sanskrit

MiscSuktam (सूक्तम संग्रह)संस्कृत
Share This

|| कुमार सूक्तम् ||

अ॒ग्निर्होता᳚ नो अध्व॒रे वा॒जी सन्परि॑ णीयते ।
दे॒वो दे॒वेषु॑ य॒ज्ञिय॑: ॥ १

परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व ।
आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥ २

परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् ।
दध॒द्रत्ना᳚नि दा॒शुषे᳚ ॥ ३

अ॒यं यः सृञ्ज॑ये पु॒रो दै᳚ववा॒ते स॑मि॒ध्यते᳚ ।
द्यु॒माँ अ॑मित्र॒दम्भ॑नः ॥ ४

अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी᳚शीत॒ मर्त्य॑: ।
ति॒ग्मज᳚म्भस्य मी॒ळ्हुष॑: ॥ ५

तमर्व᳚न्तं॒ न सा᳚न॒सिम॑रु॒षं न दि॒वः शिशुम्᳚ ।
म॒र्मृ॒ज्यन्ते᳚ दि॒वेदि॑वे ॥ ६

बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा᳚हदे॒व्यः ।
अच्छा॒ न हू॒त उद॑रम् ॥ ७

उ॒त त्या य॑ज॒ता हरी᳚ कुमा॒रात्सा᳚हदे॒व्यात् ।
प्रय॑ता स॒द्य आ द॑दे ॥ ८

ए॒ष वां᳚ देवावश्विना कुमा॒रः सा᳚हदे॒व्यः ।
दी॒र्घायु॑रस्तु॒ सोम॑कः ॥ ९

तं यु॒वं दे᳚वावश्विना कुमा॒रं सा᳚हदे॒व्यम् ।
दी॒र्घायु॑षं कृणोतन ॥ १०

(ऋ.वे.५.२.१)
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा᳚ बिभर्ति॒ न द॑दाति पि॒त्रे ।
अनी᳚कमस्य॒ न मि॒नज्जना᳚सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ॥ ११

कमे॒तं त्वं यु॑वते कुमा॒रं पेषी᳚ बिभर्षि॒ महि॑षी जजान ।
पू॒र्वीर्हि गर्भ॑: श॒रदो᳚ व॒वर्धाप॑श्यं जा॒तं यदसू᳚त मा॒ता ॥ १२

हिर᳚ण्यदन्तं॒ शुचि॑वर्णमा॒रात् क्षेत्रा᳚दपश्य॒मायु॑धा॒ मिमा᳚नम् ।
द॒दा॒नो अ॑स्मा अ॒मृतं᳚ वि॒पृक्व॒त्किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ॥ १३

क्षेत्रा᳚दपश्यं सनु॒तश्चर᳚न्तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानम् ।
न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो᳚ भवन्ति ॥ १४

के मे᳚ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां᳚ गो॒पा अर॑णश्चि॒दास॑ ।
य ईं᳚ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा᳚ति प॒श्व उप॑ नश्चिकि॒त्वान् ॥ १५

व॒सां राजा᳚नं वस॒तिं जना᳚ना॒मरा᳚तयो॒ नि द॑धु॒र्मर्त्ये᳚षु ।
ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या᳚सो भवन्तु ॥ १६

शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्यूपा᳚दमुञ्चो॒ अश॑मिष्ट॒ हि षः ।
ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न् होत॑श्चिकित्वै॒ह तू नि॒षद्य॑ ॥ १७

हृ॒णी॒यमा᳚नो॒ अप॒ हि मदैये॒: प्र मे᳚ दे॒वानां᳚ व्रत॒पा उ॑वाच ।
इन्द्रो᳚ वि॒द्वाँ अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा᳚म् ॥ १८

वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा᳚नि कृणुते महि॒त्वा ।
प्रादे᳚वीर्मा॒याः स॑हते दु॒रेवा॒: शिशी᳚ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ॥ १९

उ॒त स्वा॒नासो᳚ दि॒वि ष᳚न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ ।
मदे᳚ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे᳚वीः ॥ २०

ए॒तं ते॒ स्तोमं᳚ तुविजात॒ विप्रो॒ रथं॒ न धीर॒: स्वपा᳚ अतक्षम् ।
यदीद॑ग्ने॒ प्रति॒ त्वं दे᳚व॒ हर्या॒: स्व॑र्वतीर॒प ए᳚ना जयेम ॥ २१

तु॒वि॒ग्रीवो᳚ वृष॒भो वा᳚वृधा॒नो᳚ऽश॒त्र्व(॒१॑)र्यः सम॑जाति॒ वेद॑: ।
इती॒मम॒ग्निम॒मृता᳚ अवोचन्ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥ २२

(ऋ.वे.१०.६२.१)
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा᳚न॒श ।
तेभ्यो᳚ भ॒द्रम᳚ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥ २३

य उ॒दाज᳚न्पि॒तरो᳚ गो॒मयं॒ वस्वृ॒तेनाभि᳚न्दन्परिवत्स॒रे व॒लम् ।
दी॒र्घा॒यु॒त्वम᳚ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥ २४

य ऋ॒तेन॒ सूर्य॒मारो᳚हयन् दि॒व्यप्र॑थयन् पृथि॒वीं मा॒तरं॒ वि ।
सु॒प्र॒जा॒स्त्वम᳚ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥ २५

अ॒यं नाभा᳚ वदति व॒ल्गु वो᳚ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन ।
सु॒ब्र॒ह्म॒ण्यम᳚ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥ २६

विरू᳚पास॒ इदृष॑य॒स्त इद्ग॑म्भी॒रवे᳚पसः ।
ते अङ्गि॑रसः सू॒नव॒स्ते अ॒ग्नेः परि॑ जज्ञिरे ॥ २७

ये अ॒ग्नेः परि॑ जज्ञि॒रे विरू᳚पासो दि॒वस्परि॑ ।
नव॑ग्वो॒ नु दश॑ग्वो॒ अङ्गि॑रस्तम॒: सचा᳚ दे॒वेषु॑ मंहते ॥ २८

इन्द्रे᳚ण यु॒जा निः सृ॑जन्त वा॒घतो᳚ व्र॒जं गोम᳚न्तम॒श्विन᳚म् ।
स॒हस्रं᳚ मे॒ दद॑तो अष्टक॒र्ण्यः ॑१॒ श्रवो᳚ दे॒वेष्व॑क्रत ॥ २९

प्र नू॒नं जा᳚यताम॒यं मनु॒स्तोक्मे᳚व रोहतु ।
यः स॒हस्रं᳚ श॒ताश्वं᳚ स॒द्यो दा॒नाय॒ मंह॑ते ॥ ३०

न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभ᳚म् ।
सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिन्धु॑रिव पप्रथे ॥ ३१

उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा ।
यदु॑स्तु॒र्वश्च॑ मामहे ॥ ३२

स॒ह॒स्र॒दा ग्रा᳚म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये᳚णास्य॒ यत॑मानैतु॒ दक्षि॑णा ।
साव᳚र्णेर्दे॒वाः प्र ति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा᳚न्ता॒ अस॑नाम॒ वाज᳚म् ॥ ३३

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
कुमार सूक्तम् PDF

Download कुमार सूक्तम् PDF

कुमार सूक्तम् PDF

Leave a Comment