|| श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रम् ||
भुजङ्गाचलाग्रस्थहेमालयान्त
स्थलन्नीलरत्नत्रिशाविद्ग्रहेण ।
मुहुर्भासयन्तं सुखान्तं महान्तं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ १॥
स्फुरद्रत्नभास्वत्किरीटाभिरामं
ललाटस्थकर्पूरचूर्णोर्ध्वपुण्ड्रम् ।
मनाङ्मन्दहासाधरोष्ठास्यपद्मं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ २॥
कृपापूर्णसौम्येक्षणाब्जावलोकैः
नतानेकभूतौहरक्षैकदीक्षम् ।
मणिस्थोमकान्तिच्छटाकर्णपूरं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ३॥
कराग्रोल्लसच्छङ्खचक्रायुधाढ्यं
रमावासरम्यायतूरः प्रदेशम् ।
लसत्पीतवासः प्रभारञ्जिताङ्गं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ४॥
अनर्घस्फुरद्रत्नभूषाविशेषैः
अनेकैस्सदालङ्कृतं मङ्गलाङ्गम् ।
सुगन्धिप्रसूनावलि स्रक्सुरम्यं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ५॥
पदाब्जं श्रयध्वं ममेत्यादरेण
ब्रुवाणं स्वभक्तान् करन्यासभङ्ग्या ।
जगज्जन्मरक्षा क्षयादिस्वलीलं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ६॥
भवाब्धिर्भवेद्यानुदद्यं श्रितानां
नितिव्याहरन्तं करेणापरेणा ।
धृतार्चावतारं परम्ब्रह्मनित्यं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ७॥
पदाब्जाश्रितानेकदेवाधिपानां
किरीटस्थरत्नप्रभाभासिताङ्घ्रिम् ।
त्रिलोकैकनाथं त्रयीमौलिवेद्यं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ८॥
धनं भक्तलोकैरनेकैर्गृहीत्वा
तदीयां समस्तां विपत्तिं निवार्य ।
अभीष्टानि दत्वा सर्वानवन्तं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ९॥
नमः श्रीनिवासाय सर्वान्तरात्मं
नमस्तेऽस्तु पद्मावतीवल्लभाय ।
नमो वेङ्कटाद्रिस्फुरत्कालमेघ
प्रपन्नार्तबन्धो नमस्तेऽस्तु नित्यम् ॥ १०॥
इति श्रीजग्गुरु सिंगरय्यङ्गरविरचितं
श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now