श्री श्यामला अष्टोत्तरशतनाम स्तोत्रम् – २
|| श्री श्यामला अष्टोत्तरशतनाम स्तोत्रम् – २ || अस्य श्रीश्यामलाष्टोत्तरशतनामस्तोत्र महामन्त्रस्य, महाभैरव ऋषिः, अनुष्टुप् छन्दः, श्रीमातङ्गीश्वरी देवता, आदिशक्तिरिति बीजं, सर्वकामप्रदेति शक्तिः, परञ्ज्योतिः स्वरूपिणीति कीलकं, श्यामलाष्टोत्तरशतनाम जपे विनियोगः । नमस्तेऽस्तु जगद्धात्रि मातङ्गीश्वरि ते नमः । श्यामले जगदीशाने नमस्ते परमेश्वरी ॥ १ ॥ नमस्तेऽस्तु महाकृष्णे सर्वभूषणसम्युते । महादेवि महेशानि महादेवप्रिये नमः ॥ २ ॥ आदिशक्तिर्महाशक्तिः पराशक्तिः परात्परे…