तारावलिस्तोत्रम्

|| तारावलिस्तोत्रम् || निरवधिकरुणार्द्रैर्निह्नुताशेषदोषैः अमृतरसझराणां अन्तरङ्गैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १॥ श्रियमवनतिभाजां श्रेयसामादधानैः अमृतरसतरङ्गश्रीधुरीणैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २॥ गजमुखशरजन्मप्रेमगाढोपगूढैः नगदुहितुरमन्दानन्दमूलैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ३॥ गिरिवरतनयायाः केलिकोपे नतस्तत् चरणनखरुचिश्रीवर्मितैरीक्षणैर्द्राक् । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ४॥ स्मरहरदयनीयास्मीत्युमायां वदन्त्यां दरहसितमुखेन्दुस्तामपाङ्गैः पिबद्भिः…

श्री घटिकाचल हनुमत्स्तोत्रम्

|| श्री घटिकाचल हनुमत्स्तोत्रम् || शङ्खचक्रधरं देवं घटिकाचलवासिनम् । योगारूढं ह्याञ्जनेयं वायुपुत्रं नमाम्यहम् ॥ भक्ताभीष्टप्रदातारं चतुर्बाहुविराजितम् । दिवाकरद्युतिनिभं वन्देऽहं पवनात्मजम् ॥ कौपीनमेखलासूत्रं स्वर्णकुण्डलमण्डितम् । लङ्घिताब्धिं रामदूतं नमामि सततं हरिम् ॥ दैत्यानां नाशनार्थाय महाकायधरं विभुम् । गदाधरकरो यस्तं वन्देऽहं मारुतात्मजम् ॥ नृसिंहाभिमुखो भूत्वा पर्वताग्रे च संस्थितम् । वाञ्छन्तं ब्रह्मपदवीं नमामि कपिनायकम् ॥ बालादित्यवपुष्कं च सागरोत्तारकारकम् ।…

श्री हनुमत तांडव स्तोत्र

|| श्री हनुमत तांडव स्तोत्र || वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम् । रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्॥ भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं, दिनेशरूपभक्षकं, समस्तभक्तरक्षकम् । सुकण्ठकार्यसाधकं, विपक्षपक्षबाधकं, समुद्रपारगामिनं, नमामि सिद्धकामिनम् ॥ सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न । इति प्लवङ्गनाथभाषितं निशम्य वानराऽधिनाथ आप शं तदा, स रामदूत आश्रयः ॥ सुदीर्घबाहुलोचनेन, पुच्छगुच्छशोभिना, भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ । कृतौ…

श्री हनुमान वडवानल स्तोत्रम्

|| श्री हनुमान वडवानल स्तोत्रम् || विनियोग: ॐ अस्य श्री हनुमान् वडवानल- स्तोत्र-मन्त्रस्य श्रीरामचन्द्र ऋषिः, श्रीहनुमान् वडवानल देवता, ह्रां बीजम्, ह्रीं शक्तिं, सौं कीलकं, मम समस्त विघ्न-दोष- निवारणार्थे, सर्व-शत्रुक्षयार्थे सकल-राज-कुल-संमोहनार्थे, मम समस्त-रोग-प्रशमनार्थम् आयुरारोग्यैश्वर्याऽभिवृद्धयर्थं समस्त-पाप-क्षयार्थं श्रीसीतारामचन्द्र-प्रीत्यर्थं च हनुमद् वडवानल-स्तोत्र जपमहं करिष्ये। ध्यान: मनोजवं मारुत-तुल्य-वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं। वातात्मजं वानर-यूथ-मुख्यं श्रीरामदूतम् शरणं प्रपद्ये।। वडवानल स्तोत्रम्: ॐ ह्रां…

श्रीताण्डवेश्वरस्तोत्रम्

|| श्रीताण्डवेश्वरस्तोत्रम् || वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे । इतीशानस्सर्वान्परमकरुणानीरधिरहो पदाब्जं ह्युद्धृत्याबुजनिभ करेणोपदिशति ॥ १॥ संसारानलतापतप्त हृदयास्सर्वे जवान्मत्पदं सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः । हस्तेऽग्निं दधदेष भीतिहरणं हस्तं च पादाम्भुजं ह्युद्धृत्योपदिशत्यहो करसरोजातेन कारुण्यधिः ॥ २॥ ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर पाहि माम् । ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर रक्ष माम् ॥ ३॥ गाण्डिवेश्वर…

जयस्तुतिः अथवा शिवचामरस्तोत्रम्

|| जयस्तुतिः अथवा शिवचामरस्तोत्रम् || जय सर्वजनाधीश जय गौरीपते शिव । जय देव महादेव जयगङ्गाधरेश्वर ॥ १॥ जय दग्धपुराध्यक्ष जय कालान्तकारक । जय कामविरामेश जय भक्तानुकम्पक ॥ २॥ जय त्रैलोक्यसंरक्षिन् जय निर्गुण सद्गुण । जयानन्तगुणारम्भ जय घोर महेश्वर ॥ ३॥ जय चन्द्रकलाक्रान्त जय नागेन्द्रभूषण । जय पुङ्गवसत्केतो जय त्र्यक्ष महेश्वर ॥ ४॥ जयान्तकरिपो शम्भो जय…

जम्बुनाथाष्टकम्

|| जम्बुनाथाष्टकम् || । श्री श्रीधरवेङ्कटेशार्येण विरचितम् । कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः । जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः ॥ १॥ श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः । अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥ २॥ कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः । श्रीमान् दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः ॥ ३॥ शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः । करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥ ४॥ गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम् । दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम् ॥ ५॥ कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम् ।…

जन्मसागरोत्तारणस्तोत्रम्

|| जन्मसागरोत्तारणस्तोत्रम् || श्रीगणेशाय नमः ॥ श्रीरामपूजितपदाम्बुज चापपाणे श्रीचक्रराजकृतवास कृपाम्बुराशे । श्रीसेतुमूलचरणप्रवणान्तरङ्ग श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ १॥ नम्राधवृन्दविनिवारणबद्धदीक्ष शैलाधिराजतनयापरिरब्धवर्ष्मन् । श्रीनाथमुख्यसुरवर्यनिषेविताङ्घ्रे श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ २॥ शूराहितेभवदनाश्रितपार्श्वभाग क्रूरारिवर्गविजयप्रद शीघ्रमेव । साराखिलागमतदन्तपुराणपङ्क्तेः श्रीरामनाथ लघु तारय जन्मवार्धिम्॥ ३॥ शब्दादिमेषु विषयेषु समीपगेष्व- प्यासक्तिगन्धरहितान्निजपादनम्रान् । कुर्वाण कामदहनाक्षिलसल्ललाट श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ ४॥ इति जन्मसागरोत्तारणस्तोत्रं सम्पूर्णम् ।

श्रीचिदम्बरेशस्तुतिः

|| श्रीचिदम्बरेशस्तुतिः || कल्याणमूर्तिं कनकाद्रिचापं कान्तासमाक्रान्तनिजार्धदेहम् । कालान्तकं कामरिपुं पुरारिं चिदम्बरेशं हृदि भावयामि ॥ १॥ विश्वाधिकं विष्णुमुखैरुपास्यं त्रिलोचनं चन्द्रकलावतंसम् । उमापतिं पापहरं प्रशान्तं चिदम्बरेशं हृदि भावयामि ॥ २॥ विश्वेश्वरं नित्यमनन्तरूपं बालेन्दुचूडं सुरवन्द्यपादम् । पतिं पशूनां हृदि सन्निविष्टं चिदम्बरेशं हृदि भावयामि ॥ ३॥ विशालनेत्रं परिपूर्णगात्रं गौरीकलत्रं सुरवैरिशत्रुम् । कुबेरमित्रं जगदेकपात्रं चिदम्बरेशं हृदि भावयामि ॥ ४॥ कैलासवासं…

श्री सप्तमुखी हनुमत्कवच

|| श्री सप्तमुखी हनुमत्कवचम् || ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीसप्तमुखीवीरहनुमत्कवच स्तोत्रमन्त्रस्य, नारदऋषिः ,अनुष्टुप्छन्दः ,श्रीसप्तमुखीकपिः परमात्मादेवता ,ह्रां बीजम् ,ह्रीं शक्तिः ,ह्रूं कीलकम्, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः । ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।…

चन्द्रमौलीशस्तोत्रम्

|| चन्द्रमौलीशस्तोत्रम् || श्रीगणेशाय नमः । ओङ्कारजपरतानामोङ्कारार्थं मुदा विवृण्वानम् । ओजःप्रदं नतेभ्यस्तमहं प्रणमामि चद्रमौलीशम् ॥ १॥ नम्रसुरासुरनिकरं नलिनाहङ्कारहारिपदयुगलम् । नमदिष्टदानधीरं सततं प्रणमामि चन्द्रमौलीशम् ॥ २॥ मननाद्यत्पदयोः खलु महतीं सिद्धिं जवात्प्रपद्यन्ते । मन्देतरलक्ष्मीप्रदमनिशं प्रणमामि चद्रमौलीशम् ॥ ३॥ शितिकण्ठमिन्दुदिनकरशुचिलोचनमम्बुजाक्षविधिसेव्यम् । नतमतिदानधुरीणं सततं प्रणमामि चद्रमौलीशम् ॥ ४॥ वाचो विनिवर्तते यस्मादप्राप्य सह हृदैवेति । गीयन्ते श्रुतिततिभिस्तमहं प्रणमामि चद्रमौलीशम् ॥…

चन्द्रचूडालाष्टकम्

|| चन्द्रचूडालाष्टकम् || श्रीगणेशाय नमः ॥ यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम् । प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ १॥ यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम् । शमदमसाधनसम्पल्लभ्यं ग्रणमामि, चन्द्रचूडालम् ॥ २॥ यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः । कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ ३॥ नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम् । नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम् ॥ ४॥ नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम् । स्तुतमदिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम् ॥ ५॥ जन्तोस्तव पादपूजनकरणात्करपद्मगाः…

चतुष्षष्ट्यष्टकम्

|| चतुष्षष्ट्यष्टकम् || सूर्योवाच देवेदेव जगताम्पते विभो भर्ग भीम भव चन्द्रभूषण । भूतनाथ भवभीतिहारक त्वां नतोऽस्मि नतवाञ्छितप्रद ॥ १॥ चन्द्रचूड मृड दूर्जटे हर त्र्यक्ष दक्षशततन्तुशातन । शान्त शाश्वत शिवापते शिव त्वां नतोऽस्मि नतवाञ्छितप्रद ॥ २॥ नीललोहित समीहितार्थद द्व्येकलोचन विरूपलोचन । व्योमकेश पशुपाशनाशन त्वां नतोऽस्मि नतवाञ्छितप्रद ॥ ३॥ वामदेव शितिकण्ठ शूलभृच्चन्द्रशेखर फणीन्द्रभूषण । कामकृत्पशुपते महेश्वर त्वां…

श्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः

|| श्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः || शिवलिलार्णवतः क्व ते दया वाङ्मनसातिभूमिः क्व दुर्लभो वा त्वदवाप्त्युपायः । अहो जितं सुन्दरनाथ! मर्त्त्यैरहो जितं तत्र च दीनदीनैः ॥ १॥ गुप्तं वृथा कोटिभिरागमानां गुप्तं वृथाहो गुरुभिः पुराणैः । कोणे यदत्र त्वमिहानुकम्पाकोशालयद्वारमपावृणोषि ॥ २॥ अस्माभिरज्ञानपि तारयद्भिः कियान् प्रकर्षो विबुधेषु कार्यः । इति त्वया चिन्तयता किमीश! प्रतारिता स्मस्त्रिदिवार्पणेन ॥ ३॥ पाण्ड्यप्रियं त्वां विदती…

उद्दालककृता घुसृणेश्वरशिवस्तुतिः

|| उद्दालककृता घुसृणेश्वरशिवस्तुतिः || पार्वती कुत्र क्षेत्रमिदं शम्भो त्रिनेत्रप्रियकारकम् । तत्क्षेत्रमहिमापारकथाश्रवणलालसम् ॥ ३५॥ मम चित्तमभूद्देव दयया तद्वदस्व माम् । शिवो गौरीवचः श्रुत्वा तत्क्षेत्रं प्राह शङ्करः ॥ ३६॥ ईश्वरः भीमरथ्या उदग्भागे त्रिंशत्क्रोशोपरि स्थितम् । शूलपातं स्थितं तीर्थं तत्रास्त्येव शिवालयः ॥ ३७॥ शूलपातसरस्तीरे तताप परमं तपः । उद्दालको मुनिर्नाम्ना ज्ञानार्थं शङ्करस्तदा ॥ ३८॥ समभ्यर्च्य महादेवं बिल्वपत्रैर्महेश्वरम् ।…

गौरीश्वरस्तुतिः

|| गौरीश्वरस्तुतिः || श्रीगणेशाय नमः ॥ दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव । तस्माद्द्यूतविधौ त्वयाद्य मुषितो हारः परित्यज्यता- मित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥ १॥ श्रीकण्ठस्य सकृत्तिकाऽऽर्तभरणी मूर्तिः सदा रोहिणी ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥…

हनुमानजी का शाबर मंत्र

|| हनुमानजी का शाबर मंत्र (Hanuman ji Shabar Mantra PDF) || आत्म सुरक्षा हेतु श्री हनुमानजी का शाबर मंत्र ॐ नमः वज्र का कोठा । जिसमे पिण्ड हमारो पेठा । ईश्वर कुंजी । ब्रह्मा का ताला । मेरे आठो धाम का यति हनुमंत रखवाला ॥ शत्रु दमन हेतु श्री हनुमानजी का शाबर मंत्र हनुमान पहलवान…

श्रीगौरीशस्तुतिः

|| श्रीगौरीशस्तुतिः || (शिष्याशीर्वचनात्मकस्तवाः) बालं चाममहीमहेन्द्रसुकृतक्षीराब्धिमध्योद्भवं सोमं सोमशिशूत्तमाङ्ग सततं मौलौ निधायादरात् । श्रीमत्कृष्णमहीपसंज्ञमनिशं सिंहासनाध्यासिनं विद्याऽऽयुर्धननीतिभिः प्रतिपदं गौरीश संवर्धय ॥ १॥ जित्वा मृत्युमथापमृत्युमखिलान् रोगांश्च हृत्वानिशं प्राणम्राखिललोकरक्षणविधावाबद्धदीक्ष प्रभो । श्रीमत्कृष्णमहीपतिं ससहजं सिंहासनाध्यासिनं मार्कण्डेयमिवादरेण सततं गौरीश संवर्धय ॥ २॥ शौर्यौदार्यमुखान्गुणाननितरप्राप्यान्ददत्सर्वदा प्रालेयाचलसेतुमध्यविलसद्भूपालवर्येड्यताम् । दीर्घायुष्यमरोगतामपि ददच्छ्रीकृष्णभूपोत्तमं मात्राद्यैः सततं कृपाजलनिधे गौरीश संवर्धय ॥ ३॥ सेनाधीशसुमन्त्रिभृत्यसहितं नव्योपमन्युं प्रभो कृत्वा दीनजनावनैकनिपुणं कारुण्यवारान्निधे ।…

गौरीगिरीशस्तोत्रम्

|| गौरीगिरीशस्तोत्रम् || श्रीगणेशाय नमः । चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदा भक्तौधप्रतिपालने निजतनुछायाजितार्कायुतौ । श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १॥ अन्योन्यार्च्चनतत्परौ मधुरवाक्सन्तोषितान्योन्यकौ चन्द्रार्धाञ्चितशेखरौ प्रणमतामिष्टार्थदौ सत्वरम् । श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ श‍ृङ्गारजन्मावनी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ २॥ सौदर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ राकाचन्द्रसमानवक्त्रकमलौ पादाब्जकालङ्कृतौ । श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ गङ्गातटावासिनौ कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ३॥ सिंहोक्षाग्र्यगती महोन्नतपदं सम्प्रापयन्तौ नता-…

गोष्ठेश्वराष्टकम्

|| गोष्ठेश्वराष्टकम् || सत्यज्ञानमनन्तमद्वयसुखाकारं गुहान्तःस्थित- श्रीचिद्व्योम्नि चिदर्करूपममलं यद् ब्रह्म तत्त्वं परम् । निर्बीजस्थलमध्यभागविलसद्गोष्ठोत्थवल्मीक- सम्भूतं सत् पुरतो विभात्यहह तद्गोष्ठेशलिङ्गात्मना ॥ १॥ सर्वज्ञत्वनिदानभूतकरुणामूर्तिस्वरूपामला चिच्छक्तिर्जडशक्तिकैतववशात् काञ्चीनदीत्वं गता । वल्मीकाश्रयगोष्ठनायकपरब्रह्मैक्यकर्त्री मुहुः नृणां स्नानकृतां विभाति सततं श्रीपिप्पिलारण्यगा ॥ २॥ श्रीमद्राजतशैलश‍ृङ्गविलसच्छ्रीमद्गुहायां मही- वार्वह्न्याशुगखात्मिकी विजयते या पञ्चलिङ्गाकृतिः । सैवाशक्तजनेषु भूरिकृपया श्रीपिप्पिलारण्यगे वल्मीके किल गोष्ठनायकमहालिङ्गात्मना भासते ॥ ३॥ यत्राद्याप्यणिमादिसिद्धिनिपुणाः सिद्धेश्वराणां गणाः तत्तद्दिव्यगुहासु सन्ति…

श्रीगिरीशाष्टकम्

|| श्रीगिरीशाष्टकम् || क्षीराम्भोराशितूणं धृतपरशुधनुःशूलदीव्यत्कृपाणं गौरीकान्ताभिरामं निटिलहुतवहज्वालनिर्दग्धकामम् । तारक्ष्माभृद्विहारं सकलभुवनभृन्नागराट्कण्ठहारं वीरं रौद्राधिदैवं शरणशिवकरं श्रीगिरीशं भजेऽहम् ॥ १॥ सत्यानन्दस्वरूपं कनकमणिगणप्रस्फुरन्मेरुचापं कृत्याकृत्यादिदूरं चिदमृतसरसीवीचिकान्तर्विहारम् । श्रुत्यन्तस्तूयमानं नतजनसदनासन्नचञ्चन्निधानं प्रत्यद्रि क्रीडमानं प्रणवमयरथं श्रीगिरीशं भजेऽहम् ॥ २॥ कैलासग्रावतुल्योज्ज्वलवृषभकुलाध्यक्षसन्नद्धकेतुं लोलद्दुग्धप्रवाहार्गलमकुटतटीवेष्टिताहीन्द्रसेतुम् । पञ्चाशद्वर्णधातुं हरिकमलभवोत्पत्तिनिष्पत्तिहेतुं पञ्चास्यं श्रुत्युपास्यं निरवधियशसं श्रीगिरीशं भजेऽहम् ॥ ३॥ भीमं सोमं शिवं शङ्करमभवमजं विश्वलोकैकबीजं रुद्रं मुद्रीकृताघं पशुपतिगमनं वीरभद्रं विनिद्रम् । शर्वं…

गिरीशस्तोत्रम्

|| गिरीशस्तोत्रम् || श्रीगणेशाय नमः । शिरोगाङ्गवासं जटाजूटभासं मनोजादिनाशं सदादिग्विकासम् । हरं चाम्बिकेशं शिवेशं महेशं शिवं चन्द्रभालं गिरीशं प्रणौमि ॥ १॥ सदाविघ्नदारं गले नागहारं मनोजप्रहारं तनौभस्मभारम् । महापापहारं प्रभुं कान्तिधारं शिवं चन्द्रभालं गिरीशं प्रणौमि ॥ २॥ शिवं विश्वनाथं प्रभुं भूतनाथं सुरेशादिनाथं जगन्नाथनाथम् । रतीनाथनाशङ्करन्देवनाथं शिवं चन्द्रभालं गिरीशं प्रणौमि ॥ ३॥ धनेशादितोषं सदाशत्रुकोषं महामोहशोषं जनान्नित्यपोषम् ।…

श्रीगिरिपल्लवनाथेश्वरस्तुतिः

|| श्रीगिरिपल्लवनाथेश्वरस्तुतिः || (श्रीदेवदानक्षेत्रे) पल्लवसदृक्षतावकपदविन्यासाज्जगाम पल्लवताम् । यद्गिरिरसौ ततस्त्वं गिरिपल्लवनाथशब्दवाच्योऽभूः ॥ १॥ वृक्षलतानां पल्लवमिह सिद्धं नैव भूमिधर्तुर्हि । शक्तिस्तवाद्भुतातो गिरिपल्लवमत्र दृष्टमतिचित्रम् ॥ २॥ गङ्गाधर करुणाकर बिम्बाधर बालकुमुदबन्धुधर । गरलाम्बरविनिवारण पादसरोजे नमस्ये ते ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीगिरिपल्लवनाथेश्वरस्तुतिः सम्पूर्णा ।

श्रीखण्डराजस्तोत्रम्

|| श्रीखण्डराजस्तोत्रम् || श्रीशङ्करावतारोऽयं खण्डराजो महामतिः । तस्मै महालसेशाय मणिमल्लारये नमः ॥ १॥ ऋषीणां यस्तपःसिद्ध्या अवतीर्य महीतले । दैत्याननाशयत्तस्मै मणिमल्लारये नमः ॥ २॥ यो वेदमयमास्थाय महाश्वमपराजितम् । जघ्ने दैत्यरिपून्तस्मै मणिमल्लारये नमः ॥ ३॥ पीतवस्त्रपरीधानः पीताभरणभूषितः । त्रैलोक्यवन्दितस्तस्मै मणिमल्लारये नमः ॥ ४॥ मार्गशीर्षे महामासे प्रत्यब्दं यन्महोत्सवः । योऽभीष्टदो विभुस्तस्मै मणिमल्लारये नमः ॥ ५॥ देवः प्रतापमार्तण्डभैरवः शत्रुकृन्तनः…

क्रमस्तोत्रम्

|| क्रमस्तोत्रम् || अयं दुःखव्रातव्रतपरिगमे पारणविधि र्महासौख्यासारप्रसरणरसे दुर्दिनमिदम् । यदन्यन्यक्कृत्या विषमविशिखप्लोषणगुरो- र्विभोः स्तोत्रे शाश्वत्प्रतिफलति चेतो गतभयम् ॥ १॥ विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं तथा स्तोता स्तोत्रे प्रकटयति भेदैकविषये । विमृष्टश्च स्वात्मा निखिलविषयज्ञानसमये तदित्थं त्वत्स्तोत्रेऽहमिह सततं यत्नरहितः ॥ २॥ अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाक् अनामृष्टः स्वात्मेत्यपि हि न विनाऽऽमर्शनविधेः । शिवश्चासौ स्वात्मा स्फुरदखिलभावैकसरस स्ततोऽहं त्वत्स्तोत्रे…

नागैः कृता केदारेशमहेश्वरस्तुतिः

|| नागैः कृता केदारेशमहेश्वरस्तुतिः || (शिवरहस्यान्तर्गते भीमाख्ये) नागा ऊचुः । पाह्यब्जमित्रनयनामलभूतिगात्र रुद्र त्रिणेत्र गिरिराजसुताकलत्र । पात्रं विचित्रतरमेतदहो पवित्र- सत्रातिरात्रमखतर्पित लोकयाशु ॥ ४॥ श्रीव्योमकेश सकलेश महेश शम्भो कोशावकाश शशिशेखर शङ्करेश । देवेश खण्डपरशो पशुपाशनाश पाहीश मामकधिया तव पादभक्तान् ॥ ५॥ तं भर्गसर्गकरणाव्यय दीनवर्गं सन्तारयार्गलपदान्परिमोचयाशु । दूर्वादलार्चितपद त्रिदशारिगर्व- निर्वापणार्णववसाम्बुजनेत्रपूज्य ॥ ६॥ श्रीमन्मेरुशरासन त्रिभुवनाध्यक्षाध्वराध्यक्ष नो वीक्षस्वाद्य दयाकटाक्षलहरीसंहारितापादिकान् ।…

श्रीकेदारकवचम्

|| श्रीकेदारकवचम् || श्रीगणेशाय नमः । श्रीरवलनाथाय नमः । अस्य श्रीरवलनाथकवचस्तोत्रमन्त्रस्य, ब्रह्मणे ऋषये नमः । शिरसि । अनुष्टुप् छन्दसे नमः । मुखे । श्रीरवलनाथाय नमः । हृदये । रं बीजाय नमः । गुह्ये । वं शक्तये नमः । पादयोः । लं कीलकाय नमः । सर्वाङ्गे । श्रीरवलनाथप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । केयूरादिविभूषितैः करतलैरत्नाङ्कितैः…

काश्यष्टकम्

|| काश्यष्टकम् || श्रीगणेशाय नमः । पापौघविध्वंसकरीं प्रसिद्धां श्रीजाह्नवीभूषितदिव्यरूपाम् । निर्वाणदात्रीं निखिलैकपूज्यां शिवप्रियां चैव नमामि काशीम् ॥ १॥ देवासुरैर्वन्दितपादपद्मां गायन्ति मुनयः सुयशश्च दिव्याम् । प्रसिद्धवेदेषु प्रभावमस्याः शिवप्रियां चैव नमामि काशीम् ॥ २॥ मुमुर्षूणां चैव शिवप्रदायिनीं वैकुण्ठश्रेणिं गुणमन्दिरां च । शिवालयां शोकविनाशिनीं च शिवप्रियां चैव नमामि काशीम् ॥ ३॥ विनाशशून्यां शिवरूपिणीं च मोहान्धकारस्य विनाशिनीं च ।…

कालाग्निरुद्रकृता काशीक्षेत्रस्तुतिः

|| कालाग्निरुद्रकृता काशीक्षेत्रस्तुतिः || वाराणसि त्वयि सदैव सरोगभूमावारोग्यभूमिरित काममलीकवादः । सन्तम्थुषां भवति यत्र वपुः सशूलं जन्मान्तरेऽपि जलभारवदुत्तमाङ्गम् ॥ ४१॥ वाराणसीं प्राप्य बुधाः पितृभ्यो जलाञ्जलिं सादरमर्पयन्ति । पाणनि सर्वाणि ततः पितॄणां भवन्त्यहो दत्तजलाञ्जलीनि ॥ ४२॥ ये मृष्टान्नभुजो गजोत्तमहयारोहाः स्वगेहान्तरे मत्ताभिर्महिलाभिरत्न विहरन्त्यामुक्तमुक्तास्रजः । ते घोरास्थिधरा विराजदनडुद्वाहाः विषाहारिणो नर्तिष्यन्त्यवशाच्श्मशाननिलये नीचैः पिशाचैः सह ॥ ४३॥ दत्तं शाम्भवपुङ्गवे किमपि तत्क्षेत्रप्रभावाद्भवेत्…

श्रीकाशीविश्वेश्वरादिस्तोत्रम्

|| श्रीकाशीविश्वेश्वरादिस्तोत्रम् || श्रीगणेशाय नमः ॥ नमः श्रीविश्वनाथाय देववन्द्यपदाय ते । काशीशेशावतारे मे देवदेव ह्युपादिश ॥ १॥ मायाधीशं महात्मानं सर्वकारणकारणम् । वन्दे तं माधवं देवं यः काशीं चाधितिष्ठति ॥ २॥ वन्दे तं धर्मगोप्तारं सर्वगुह्यार्थवेदिनम् । गणदेवं ढुण्ढिराजं तं महान्तं स्वविघ्नहम् ॥ ३॥ भारं वोढुं स्वभक्तानां यो योगं प्राप्त उत्तमम् । तं सढुण्ढिं दण्डपाणिं वन्दे गङ्गातटस्थितम्…

श्रीकाशीविश्वेस्वरस्तोत्रं अथवा श्रीदीनाक्रन्दनम्

|| श्रीकाशीविश्वेस्वरस्तोत्रं अथवा श्रीदीनाक्रन्दनम् || ॐ श्रीगणेशाय नमः । चुण्ठीजलैरिव सुखैः परिणामदुःखैः आस्वादितैरपि मनागविलुप्ततृष्णः । श्रान्तोऽस्मि हा भवमरौ सुचिरं चरित्वा तच्छायया चरणयोः शिव मां भजेथाः ॥ १॥ दुर्वारसंसृतिरुजा भृशकान्दिशीकः त्वामोषधीपतिभृतं सुकृतैरवाप्य । आवेदयामि यदहं तव तन्निदानं तत्रावधेहि मृड मा कुरु मय्यवज्ञाम् ॥ २॥ दुर्वासनाशतवशादशुचित्वमीक्ष्य या मे हठात्कृतवती मनसि प्रवेशम् । साऽनेकजन्ममरणावटपातनेन मां राक्षसीव बहु नाथ…

श्रीकाशीविश्वनाथस्तुतिः

|| श्रीकाशीविश्वनाथस्तुतिः || दुर्गाधीशो द्रुतिज्ञो द्रुतिनुतिविषयो दूरदृष्टिर्दुरीशो दिव्यादिव्यैकराध्यो द्रुतिचरविषयो दूरवीक्षो दरिद्रः । देवैः सङ्कीर्तनीयो दलितदलदयादानदीक्षैकनिष्ठो दानी दीनार्तिहारी भवदवदहनो दीयतां दृष्टिवृष्टिः ॥ १॥ क्षेत्रज्ञः क्षेत्रनिष्ठः क्षयकलितकलः क्षात्रवर्गैकसेव्यः क्षेत्राधीशोऽक्षरात्मा क्षितिप्रथिकरणः क्षालितः क्षेत्रदृश्यः । क्षोण्या क्षीणोऽक्षरज्ञो क्षरपृथुकलितः क्षीणवीणैकगेयः क्षौरः क्षोणीध्रवर्ण्यः क्षयतु मम बलक्षीणतां सक्षणं सः ॥ २॥ क्रूरः क्रूरैककर्मा कलितकलकलैः कीर्तनीयः कृतिज्ञः कालः कालैककालो विकलितकर्णः कारणाक्रान्तकीर्तिः । कोपः…

श्रीकाशीविश्वनाथस्तोत्रम्

|| श्रीकाशीविश्वनाथस्तोत्रम् || कण्ठे यस्य लसत्करालगरलं गङ्गाजलं मस्तके वामाङ्गे गिरिराजराजतनया जाया भवानी सती । नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुः काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गलम् ॥ १॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै- र्नागैर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये । या गङ्गोत्तरवाहिनी परिसरे तीर्थेरसङ्ख्यैर्वृता सा काशी त्रिपुरारिराजनगरी देयात्सदा मङ्गलम् ॥ २॥ तीर्थानां प्रवरा मनोरथकरी संसारपारापरा- नन्दा नन्दिगणेश्वरैरुपहिता देवैरशेषैः स्तुता । या शम्भोर्मणिकुण्डलैककणिका विष्णोस्तपोदीर्घिका सेयं श्रीमणिकर्णिका भगवती देयात्सदा मङ्गलम् ॥…

श्रीकालहस्तीश्वराष्टकम् १

|| श्रीकालहस्तीश्वराष्टकम् १ || श्रीलसद्विलासलोलशेषतल्पसायकं शैलकन्यकास्यचन्दचन्द्रिकाचकोरकम् । भालनेत्रवह्निदग्धपञ्चबाणरूपकं कालहस्तिनायकं सुखप्रदायकं भजे ॥ १॥ कालकूटभीकराग्निकण्ठमध्यधारणं कालकर्मखाम्बुकाशखण्डनोग्रहारिणम् । कालमृत्युगर्ववल्लिकासमूलदारणं कालहस्तिनायकं सुखप्रदायकं भजे ॥ २॥ स्थूलसूक्ष्मनित्यसत्यशोभितं शुभोदितं बालचन्द्रशेखरं कृपासुधारसाकरम् । लालितव्रतार्थिलोकबालकर्णमूलकं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ३॥ बालिकावियोगियोगिभावपद्मवासितं धालधल्यकोटिशीतधामसुप्रकाशितम् । कीलसन्निभाग्रशातशूलवृद्धगाशितं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ४॥ भ्रूलतानिरीक्षणप्रभूतलोकजालकं लोलताद्रिजालसत्कपोल(कन्धरं) शिवम् । खेलसत्प्रकल्पितेन्द्रजालतन्त्रकीलकं कालहस्तिनायकं सुखप्रदायकं भजे ॥ ५॥ व्यालमक्षिकाग्ररत्नमातृकाविभूषणं कालसिन्धुकासुरारिपङ्क (रूप)भूषणम्…

कालहस्तीश्वरस्तुतिः

|| कालहस्तीश्वरस्तुतिः || ॐ श्रीमहागणपतये नमः । गण्डूषस्य समं न्यधायि भवता मन्दाकिनी मस्तके क्रत्र्यस्य प्रतिपादनेऽस्य सदृशो हस्ते मृगः स्थापितः । नेत्रस्यापि सदृक्षमक्षिदशकं प्रादायि पञ्चोत्तरं किं वर्ण्येत कृतज्ञता तव विभो श्रीकालहस्तीश्वर ॥ १॥ विन्यस्ते शबरेण मूर्ध्नि चरणे देहः कृतोऽप्यष्टवा गण्डूषैरभिषेचने विरचिते वक्त्रं कृतं पञ्चधा । उच्छिष्टे विनिवेदिते पुनरसौ रूक्षं विषं भोजितः शिक्षामस्य करोषि कर्मसदृशं श्रीकालहस्तीश्वर ॥…

श्रीकल्लेश्वरस्तोत्रम्

|| श्रीकल्लेश्वरस्तोत्रम् || (वसन्ततिलकवृत्तम्) जीवेशविश्वसुरयक्षनृराक्षसाद्याः यस्मिन् स्थिताश्च खलु येन विचेष्टिताश्च । यस्मात्परं न च तथाऽऽपरमस्ति किञ्चित् कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ १॥ यो निष्क्रियो विगतमायविभुः परेशः नित्यो विकाररहितो भुवि निर्विकल्पः । सत्योऽद्वितीय इति यं श्रुतयो ब्रुवन्ति कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ २॥ कल्पद्रुमं प्रणतभक्तहृदन्धकारं मायाविलासमखिलं विनिवर्तयन्तम् । चित्सूर्यरूपमखिलं विनिवर्तयन्तं कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ ३॥ स्तोत्रं कल्लेश्वरस्येदं सत्कामितसुरद्रुमम्…

कपटेश्वरावतारशिवस्तोत्रराजः

|| कपटेश्वरावतारशिवस्तोत्रराजः || ॐ वृक्षैरावृतकायाय पराय परमात्मने । नानारूपाय देवाय नमस्तुभ्यं स्वयम्भुवे ॥ १॥ शिवाय शितिकण्ठाय सोमसूर्याग्निचक्षुषे । भीमाय भीमरूपाय भीषणायामृताय च ॥ २॥ चण्डाय चण्डरुद्राय चण्डशूलाग्रपाणये । योगिने ब्रह्मनिष्ठाय सर्वायुधन्धराय च ॥ ३॥ उमायाः स्वामिने तुभ्यं पशूनां पतये नमः । ऋग्यजुःसाममन्त्राणां त्रैलोक्यपतये नमः ॥ ४॥ चन्द्रसूर्याग्निमरुतामम्भसां पतये नमः । सिताय कृष्णवर्णाय पीताय कर्बुराय च…

श्रीकण्ठेशस्तोत्रम्

|| श्रीकण्ठेशस्तोत्रम् || (श्रीगरलपुर आर्द्रोत्सवे) श्रीगणेशाय नमः ॥ आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ १॥ द्रष्टृस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः । मा भीरस्त्विति शम्भो मध्येतिर्यग्गतागतैर्ब्रूषे ॥ २॥ प्रकरोति करुणयाऽऽर्द्रान् शम्भुर्नम्रानिति प्रबोधाय । धर्मोऽयं किल लोकानार्द्राङ्कुरुतेऽद्य गौरीश ॥ ३॥ आर्द्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसम्बोधकृते जनानाम् । आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥ ४॥ बाणार्चने भगवतः…

श्रीऐरावतेश्वराष्टोत्तरशतनामवालिः

|| श्रीऐरावतेश्वराष्टोत्तरशतनामवालिः || ॐ श्रीगणेशाय नमः । ॐ गौरीप्राणवल्लभाय नमः । ॐ देव्यै कथितचरिताय नमः । ॐ हालाहलगृहीताय नमः । ॐ लोकशङ्कराय नमः । ॐ कावेरीतीरवासिने नमः । ॐ ब्रह्मणा सुपूजिताय नमः । ॐ ब्रह्मणो वरदायिने नमः । ॐ ब्रह्मकुण्डपुरस्थिताय नमः । ॐ ब्रह्मणा स्तुताय नमः । ॐ कैलासनाथाय नमः । ॐ दिशां पतये नमः…

श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः

|| श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः || कष्टारिवर्गदलनं शिष्टालिसमर्चिताङ्घ्रिपाथोजम् । नष्टाविद्यैर्गम्यं पुष्टात्माराधकालिमाकलये ॥ १॥ प्राणायामैर्ध्यानैनष्टं चित्तं विधाय मुनिवर्याः । यत्पश्यन्ति हृदब्जे शान्ताभाग्यं नमामि तत्किञ्चित् ॥ २॥ वेदोत्तमाङ्गगेयं नादोपास्त्यादिसाधनात्माख्यम् । खेदोन्मूलनदक्षं भेदोपाध्यादिवर्जितं नौमि ॥ ३॥ शान्तामानसहंसं कान्तारासक्तमुनिवरैः सेव्यम् । शान्ताहङ्कृतिवेद्यं कान्तार्धं नौमि श‍ृङ्गशिवम् ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः सम्पूर्णा ।

आर्तत्राणस्तोत्रम् गङ्गाधरस्तोत्रम् च

|| आर्तत्राणस्तोत्रम् गङ्गाधरस्तोत्रम् च || अप्पयदीक्षितविरचितम् क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निश्शङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात् आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १॥ क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते । कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान् आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २॥ मृत्युं वक्षसि…

श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम्

|| श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम् || चिदम्बरेश्वरः शम्भुः नटेशो नटनप्रियः । अपस्मारहरो हंसो नृत्तराजः सभापतिः ॥ १॥ पुण्डरीकपुराधीशः श्रीमद्धेमसभेश्वरः । शिवश्चिदम्बरमनुर्मन्त्रमूर्तिहरिप्रियः ॥ २॥ द्वादशान्तस्थितो नृत्तो नृत्तमूर्तिः परात्परः । परानन्दः परञ्ज्योतिः आनन्दो विबुधेश्वरः ॥ ३॥ परप्रकाशो नृत्ताङ्गो नृत्तपादस्त्रिलोचनः । व्याघ्रपादप्रियो मन्त्रराजस्तिल्ववनेश्वरः ॥ ४॥ हरो रत्नसभानाथः पतञ्जलिवरप्रदः । मन्त्रविग्रह ओङ्कारः शङ्करश्चन्द्रशेखरः ॥ ५॥ नीलकण्ठो ललाटाक्षो वह्निहस्तो महेश्वरः । आनन्दताण्डवः श्वेतो…

आत्मावीरेश्वरस्तोत्रम्

|| आत्मावीरेश्वरस्तोत्रम् || ध्यानम् विभूति-भूषितं बालमष्टवर्षाकृतिं शिशुम् । आकर्णपूर्णनेत्रं च सुरक्तदशनच्छदम् ॥ १॥ चारु-पिङ्गजटा-मौलिं नग्नं प्रहसिताननम् । शैशवोचित-नेपथ्य-धारिणं चित्रहारिणम् ॥ २॥ पठन्तं श्रुतिसूक्तानि हसन्तं च स्वलीलया । एवं वीरेश्वरं ध्यात्वा स्तोत्रमेतज्जपेन्नरः ॥ ३॥ एकं ब्रह्मैवाऽद्वितीयं समस्तं सत्यं सत्यं नेह नानाऽस्ति किञ्चित् । एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥ १॥ एकः कर्त्ता त्वं…

आत्मार्पणस्तुतिः

|| आत्मार्पणस्तुतिः || श्रीमदप्पय्य दीक्षित विरचिता कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावं यस्मादित्थं विविधरचना सृष्टिरेषा बभूव । भक्तिग्राह्यस्त्वमिह तदपि त्वामहं भक्तिमात्रात् स्तोतुं वाञ्छाम्यतिमहदिदं साहसं मे सहस्व ॥ १॥ क्षित्यादिनामवयववतां निश्चितं जन्म तावत् तन्नास्त्येव क्वचन कलितं कर्त्रधिष्ठानहीनम् । नाधिष्ठातुं प्रभवति जडो नाप्यनीशश्च भावः तस्मादाद्यस्त्वमसि जगतां नाथ जाने विधाता ॥ २॥ इन्द्रं मित्रं वरुणमनिलं पुनरजं विष्णुमीशं var…

श्रीअघोराष्टकम्

|| श्रीअघोराष्टकम् || कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् । रक्ताकोरकरक्तमाल्यरचितं(रुचिरं)रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ १॥ जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं (दक्षान्त्रं)डमरुं पिशाचमनिशं शूलं च मूलं करैः । घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ २॥ नागेन्द्रावृतमूर्ध्निज(र्धज) स्थित(श्रुति)गलश्रीहस्तपादाम्बुजं श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् । लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ३॥ धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि(यत्कृन्तति)प्राणिनां पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं (?) । विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ४॥ घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं प्राज्यां(ज्यं)नृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम् ।…

श्रीपूर्णत्रयीशस्तोत्रम्

|| श्रीपूर्णत्रयीशस्तोत्रम् || पूर्णत्रय्याख्यपुर्यां हरिभवननिभे स्वालये सन्निषण्णः पीठे हैमे स कृष्णः फणिवरलसितो हारकोटीरधारी । केयूरैः कुण्डलैस्तैर्मणिवरकटकैर्भूषणैर्भासुराङ्गो माटश्रीरामभूपं कठिनकवचधृक् पातु पूर्णत्रयीशः ॥ १॥ पूर्वं यः कंसहेतोर्निजपितृजननीभ्यां स्तुतो बालकृष्णो जातः पित्रा निशायां व्रजपतिरमणीसूतिकागेहमध्यम् । सन्नीतः स्वीयताते व्रजपतितनयां सम्प्रयाते गृहीत्वा माटश्रीरामभूपं मृदुहसनपरः पातु पूर्णत्रयीशः ॥ २॥ बालघ्नी पूतना सा शिशुहननकृते प्रेषिता नन्दगेहं कंसेन क्रूरबुद्ध्या यदुपतितनयं शङ्कमानेन कृष्णम् ।…

पुरीश्वराष्टकम्

|| पुरीश्वराष्टकम् || पतितपावनसुखमहाजनद्रविणसम्भवकारण निखिलपालकभुवनमोहनशमनशासकशासन । सकलसज्जनसवनसज्जितसगुणनिर्गुणकाशन हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ १॥ वलयलोचनसुरतिकोमलमधुरदर्शनहासन नवकलेवरविबुधशेखरजलदसुन्दरवर्षण । मदनमोहनहृदयचन्दनौदयभास्करशोभन हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ २॥ शरणरक्षणसुमतिनायकसुगतिदायककीर्तन प्रभुपदार्चितनिगमवन्दितवचनवाङ्मयनर्तन । शुभशुभाननदशनगौरवहसनसौरभपार्वण हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ३॥ अगरुचन्दनलसितदारवमुनिमनोहरमोहन कुसुमसज्जितभुजविलम्बितवलयहारसुशोभन । प्रथितशावरपुरितमन्दिरगहनसङ्कटतारण हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ४॥ रथविराजितसुखदसुन्दरकनकवर्धितवामन परमपावनमयमहेश्वरतरलभक्तिरसायन । श्रुतिकलाकरविधुरगोपनगलितमाध्विकशोषण हर हरप्रियहरिपुरीश्वर मम मनोगतदारुणम् ॥ ५॥ मुकुटमण्डितकनककुण्डलनयनमण्डललोभन नगरनागररसिकशेखरविरलरासविकाशन…

मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम्

|| मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम् || वराह उवाच । नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन । नमस्ते सर्व लोकेश नमस्ते तिग्मचक्रिणे ॥ १॥ विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् । नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥ २॥ आदिदेवं महादेवं वेदवेदाङ्गपारगम् । गम्भीरं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥ ३॥ सहस्रशीर्षणं देवं सहस्राक्षं महाभुजम् । जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥ ४॥ शरण्यं शरणं देवं विष्णुं जिष्णुं…

Join WhatsApp Channel Download App