श्री दुर्गा देवि कवचम्
|| श्री दुर्गा देवि कवचम् || ॥ ईश्वर उवाच ॥ श्रृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् । स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ उमादेवी शिरः पातु ललाटे शूलधारिणी । चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ सुगन्धा नासिके पातु…