दक्षकृता शिवस्तुतिः
|| दक्षकृता शिवस्तुतिः || दक्ष उवाच । नमामि शङ्करं साक्षाद्यदाधारमिदं जगत् । कालरूपं यथाकालं बोधयामास तं शिवम् ॥ ९१॥ कालेन फलमूलानि जायतेऽन्नादिकानि च । शीतोष्णसमभावश्च सदा कालेन जायते ॥ ९२॥ सूर्यस्तपति कालेन ज्योतिषां गण एव च । कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥ ९३॥ कालेन मृज्यते सृष्टिब्रह्मणा वै पुनः पुनः । कालन पालनं तत्र कुरुने विष्णुरव्ययः…