श्री कालिका कीलक स्तोत्रम्

|| श्री कालिका कीलक स्तोत्रम् || अस्य श्री कालिका कीलकस्य सदाशिव ऋषिः अनुष्टुप् छन्दः श्री दक्षिणकालिका देवता सर्वार्थसिद्धिसाधने कीलकन्यासे जपे विनियोगः । अथातः सम्प्रवक्ष्यामि कीलकं सर्वकामदम् । कालिकायाः परं तत्त्वं सत्यं सत्यं त्रिभिर्ममः ॥ १ ॥ दुर्वासाश्च वशिष्ठश्च दत्तात्रेयो बृहस्पतिः । सुरेशो धनदश्चैव अङ्गिराश्च भृगूद्वाहः ॥ २ ॥ च्यवनः कार्तवीर्यश्च कश्यपोऽथ प्रजापतिः । कीलकस्य प्रसादेन…

श्री सत्यनारायण अष्टोत्तरशतनामावली २

|| श्री सत्यनारायण अष्टोत्तरशतनामावली २ || ओं नारायणाय नमः । ओं नराय नमः । ओं शौरये नमः । ओं चक्रपाणये नमः । ओं जनार्दनाय नमः । ओं वासुदेवाय नमः । ओं जगद्योनये नमः । ओं वामनाय नमः । ओं ज्ञानपञ्जराय नमः । १० ओं श्रीवल्लभाय नमः । ओं जगन्नाथाय नमः । ओं चतुर्मूर्तये नमः ।…

श्री सत्यनारायण अष्टोत्तर शतनामावलिः

|| श्री सत्यनारायण अष्टोत्तर शतनामावलिः || ओं सत्यदेवाय नमः । ओं सत्यात्मने नमः । ओं सत्यभूताय नमः । ओं सत्यपुरुषाय नमः । ओं सत्यनाथाय नमः । ओं सत्यसाक्षिणे नमः । ओं सत्ययोगाय नमः । ओं सत्यज्ञानाय नमः । ओं सत्यज्ञानप्रियाय नमः । ९ ओं सत्यनिधये नमः । ओं सत्यसम्भवाय नमः । ओं सत्यप्रभवे नमः ।…

श्री विष्णु अष्टोत्तरशतनामावली

|| श्री विष्णु अष्टोत्तरशतनामावली || ओं विष्णवे नमः । ओं जिष्णवे नमः । ओं वषट्काराय नमः । ओं देवदेवाय नमः । ओं वृषाकपये नमः । ओं दामोदराय नमः । ओं दीनबन्धवे नमः । ओं आदिदेवाय नमः । ओं अदितेस्तुताय नमः । ९ ओं पुण्डरीकाय नमः । ओं परानन्दाय नमः । ओं परमात्मने नमः । ओं…

श्री विष्णु अष्टोत्तरशतनाम स्तोत्रम्

|| श्री विष्णु अष्टोत्तरशतनाम स्तोत्रम् || अष्टोत्तरशतं नाम्नां विष्णोरतुलतेजसः । यस्य श्रवणमात्रेण नरो नारायणो भवेत् ॥ १ ॥ विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः । [*वृषापतिः*] दामोदरो दीनबन्धुरादिदेवोऽदितेस्तुतः ॥ २ ॥ पुण्डरीकः परानन्दः परमात्मा परात्परः । परशुधारी विश्वात्मा कृष्णः कलिमलापहा ॥ ३ ॥ कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः । हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ॥ ४ ॥ हृषीकेशोऽप्रमेयात्मा वराहो…

श्री विष्णु शतनाम स्तोत्रम्

|| श्री विष्णु शतनाम स्तोत्रम् || नारद उवाच । ओं वासुदेवं हृषीकेशं वामनं जलशायिनम् । जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ १ ॥ वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् । अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ॥ २ ॥ नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् । गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥ ३ ॥ वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् । चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम्…

राशियों के इष्टदेव के मंत्र

|| राशियों के इष्टदेव मंत्र || Mesha (Aries) ॐ ह्रीं श्रीं लक्ष्मी नारायणाभ्यां नमः ।। Om Hirng Shring Lakshmi Narayanabhyam Namah|| Vrishabha (Taurus) ॐ गोपालाय उत्तरध्वजाय नमः ।। Om Gopalay Utterdhvajay Namah || Mithuna (Gemini) ॐ क्लीं कृष्णाय नमः ।। Om Kling Krishnay Namah|| Karka (Cancer) ॐ हिरण्यगर्भाय अव्यक्तरुपिणे नमः ।। Om HiranyaGarbhay Avyaktrupine Namah…

श्री रङ्गनाथाष्टोत्तरशतनामावली

|| श्री रङ्गनाथाष्टोत्तरशतनामावली || ओं श्रीरङ्गशायिने नमः । ओं श्रीकान्ताय नमः । ओं श्रीप्रदाय नमः । ओं श्रितवत्सलाय नमः । ओं अनन्ताय नमः । ओं माधवाय नमः । ओं जेत्रे नमः । ओं जगन्नाथाय नमः । ओं जगद्गुरवे नमः । ९ ओं सुरवर्याय नमः । ओं सुराराध्याय नमः । ओं सुरराजानुजाय नमः । ओं प्रभवे…

श्री रङ्गनाथ अष्टोत्तरशतनाम स्तोत्रम्

|| श्री रङ्गनाथ अष्टोत्तरशतनाम स्तोत्रम् || अस्य श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य वेदव्यासो भगवानृषिः अनुष्टुप्छन्दः भगवान् श्रीमहाविष्णुर्देवता, श्रीरङ्गशायीति बीजं श्रीकान्त इति शक्तिः श्रीप्रद इति कीलकं मम समस्तपापनाशार्थे श्रीरङ्गराजप्रसाद सिद्ध्यर्थे जपे विनियोगः । धौम्य उवाच । श्रीरङ्गशायी श्रीकान्तः श्रीप्रदः श्रितवत्सलः । अनन्तो माधवो जेता जगन्नाथो जगद्गुरुः ॥ १ ॥ सुरवर्यः सुराराध्यः सुरराजानुजः प्रभुः । हरिर्हतारिर्विश्वेशः शाश्वतः शम्भुरव्ययः ॥ २ ॥…

श्री महाविष्णु अष्टोत्तरशतनामावलिः

|| श्री महाविष्णु अष्टोत्तरशतनामावलिः || ओं विष्णवे नमः । ओं लक्ष्मीपतये नमः । ओं कृष्णाय नमः । ओं वैकुण्ठाय नमः । ओं गरुडध्वजाय नमः । ओं परब्रह्मणे नमः । ओं जगन्नाथाय नमः । ओं वासुदेवाय नमः । ओं त्रिविक्रमाय नमः । ९ ओं दैत्यान्तकाय नमः । ओं मधुरिपवे नमः । ओं तार्क्ष्यवाहनाय नमः । ओं…

श्री त्रिपुरारि स्तोत्रम्

॥ श्रीत्रिपुरारिस्तोत्रम् ॥ नमामोऽसुरारेस्सुरारेर्गणाग्र्यं नमामोऽन्धकारिं मखारिं निजारेः । शिरो गाङ्गवारिप्रचारक्षमोऽस्य नमामः पुरारिम् मुरारेः प्रियं तम् ॥ मुखैः पञ्चभिः पञ्चभिः पञ्चषष्ठं त्रयीसाङ्ख्ययोगाङ्गमारण्यकानि । जगौ भक्तिकाण्डं हरेस्सौख्यभाण्डं नमामः पुरारिं मुरारेः प्रियं तम् ॥ हरेरङ्घ्रितो गाङ्गवारि प्रसूतं कपर्दे कपर्दे कपर्द्दीचकार । अखर्वं च गर्वं हरन् जह्नुजाया नमामः पुरारिं मुरारेः प्रियं तम् ॥ गुरूणां गुरुर्यो मतो नारदेन उपज्ञोऽपि शिष्यः…

श्री त्रिपुरसुन्दरी स्तोत्रम्

|| श्री त्रिपुरसुन्दरीस्तोत्रम् || श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम् । वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥ शैलाधिराजतनयां शङ्करप्रियवल्लभाम् । तरुणेन्दुनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ सर्वभूतमनोरम्यां सर्वभूतेषु संस्थिताम् । सर्वसम्पत्करीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ पद्मालयां पद्महस्तां पद्मसम्भवसेविताम् । पद्मरागनिभां वन्दे देवी त्रिपुरसुन्दरीम् ॥ पञ्चबाणधनुर्बाणपाशाङ्कुशधरां शुभाम् । पञ्चब्रह्ममयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ षट्पुण्डरीकनिलयां षडाननसुतामिमाम् । षट्कोणान्तःस्थितां वन्दे देवीं त्रिपुरसुन्दरीम् ॥…

श्री गरुडाष्टोत्तरशतनाम स्तोत्रम्

|| श्री गरुडाष्टोत्तरशतनाम स्तोत्रम् || श्रीदेव्युवाच । देवदेव महादेव सर्वज्ञ करुणानिधे । श्रोतुमिच्छामि तार्क्ष्यस्य नाम्नामष्टोत्तरं शतम् । ईश्वर उवाच । शृणु देवि प्रवक्ष्यामि गरुडस्य महात्मनः । नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥ अस्य श्रीगरुडनामाष्टोत्तरशतमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः गरुडो देवता प्रणवो बीजं विद्या शक्तिः वेदादिः कीलकं पक्षिराजप्रीत्यर्थे जपे विनियोगः । ध्यानम् । अमृतकलशहस्तं कान्तिसम्पूर्णदेहं सकलविबुधवन्द्यं वेदशास्त्रैरचिन्त्यम् । कनकरुचिरपक्षोद्धूयमानाण्डगोलं…

श्री हरि स्तोत्रम्

|| श्री हरि स्तोत्रम् || जगज्जालपालं कचत्कण्ठमालं शरच्चन्द्रफालं महादैत्यकालम् । नभो नीलकायं दुरावारमायं सुपद्मासहायं भजेऽहं भजेऽहम् ॥ १ ॥ सदाम्भोधिवासं गलत्पुष्पहासं जगत्सन्निवासं शतादित्यभासम् । गदाचक्रशस्त्रं लसत्पीतवस्त्रं हसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥ २ ॥ रमाकण्ठहारं श्रुतिव्रातसारं जलान्तर्विहारं धराभारहारम् । चिदानन्दरूपं मनोहारिरूपं धृतानेकरूपं भजेऽहं भजेऽहम् ॥ ३ ॥ जराजन्महीनं परानन्दपीनं समाधानलीनं सदैवानवीनम् । जगज्जन्महेतुं सुरानीककेतुं दृढं विश्वसेतुं भजेऽहं…

श्री दत्तात्रेय वज्र कवच

॥ श्री दत्तात्रेय वज्र कवचम् ॥ ॥ ऋषय उवाच ॥ कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे । धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥ ॥ व्यास उवाच ॥ शृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् । सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥२॥ गौरीशृङ्गे हिमवतः कल्पवृक्षोपशोभितम् । दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ॥ ३॥ रत्नसिंहासनासिनं प्रसन्नं परमेश्वरम् । मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥ ४॥ ॥ श्री देव्युवाच ॥…

श्री हरि शरणाष्टकम्

|| श्री हरि शरणाष्टकम् || ध्येयं वदन्ति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै । रूपैस्तु तैरपि विभासि यतस्त्वमेव तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ १ ॥ नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा । सन्दृश्यते न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ २ ॥…

श्री हरिनामाष्टकम्

|| श्री हरिनामाष्टकम् || श्रीकेशवाच्युत मुकुन्द रथाङ्गपाणे गोविन्द माधव जनार्दन दानवारे । नारायणामरपते त्रिजगन्निवास जिह्वे जपेति सततं मधुराक्षराणि ॥ १ ॥ श्रीदेवदेव मधुसूदन शार्ङ्गपाणे दामोदरार्णवनिकेतन कैटभारे । विश्वम्भराभरणभूषित भूमिपाल जिह्वे जपेति सततं मधुराक्षराणि ॥ २ ॥ श्रीपद्मलोचन गदाधर पद्मनाभ पद्मेश पद्मपद पावन पद्मपाणे । पीताम्बराम्बररुचे रुचिरावतार जिह्वे जपेति सततं मधुराक्षराणि ॥ ३ ॥ श्रीकान्त कौस्तुभधरार्तिहराप्रमेय…

श्री हरि नाममाला स्तोत्रम्

|| श्री हरि नाममाला स्तोत्रम् || गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् । गोवर्धनोद्धरं धीरं तं वन्दे गोमतीप्रियम् ॥ १ ॥ नारायणं निराकारं नरवीरं नरोत्तमम् । नृसिंहं नागनाथं च तं वन्दे नरकान्तकम् ॥ २ ॥ पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् । पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥ ३ ॥ राघवं रामचन्द्रं च रावणारिं रमापतिम् । राजीवलोचनं रामं तं…

श्री हर्यष्टकम् (प्रह्लाद कृतम्)

|| श्री हर्यष्टकम् (प्रह्लाद कृतम्) || हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥ १ ॥ स गङ्गा स गया सेतुः स काशी स च पुष्करम् । जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २ ॥ वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च । यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ३ ॥ पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च…

दत्तात्रेय अजपाजप स्तोत्रम्

|| दत्तात्रेय अजपाजप स्तोत्रम् || ॐ तत्सत् ब्रह्मणे नमः । ॐ मूलाधारे वारिजपत्रे चतरस्रे वंशंषंसं वर्ण विशालं सुविशालम् । रक्तंवर्णे श्रीगणनाथं भगवन्तं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ स्वाधिष्ठाने षट्दल पद्मे तनुलिङ्गं बंलांतं तत् वर्णमयाभं सुविशालम् । पीतंवर्णं वाक्पति रूपं द्रुहिणन्तं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ नाभौ पद्मंयत्रदशाढां डंफं वर्णं लक्ष्मीकान्तं गरुडारुढं नरवीरम् । नीलंवर्णं निर्गुणरूपं निगमान्तं दत्तात्रेयं…

सङ्कष्टनाशन विष्णु स्तोत्रम्

|| सङ्कष्टनाशन विष्णु स्तोत्रम् || नारद उवाच । पुनर्दैत्यान् समायातान् दृष्ट्वा देवाः सवासवाः । भयात्प्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥ देवा ऊचुः । नमो मत्स्यकूर्मादिनानास्वरूपैः सदा भक्तकार्योद्यतायार्तिहन्त्रे । विधात्रादि सर्गस्थितिध्वंसकर्त्रे गदाशङ्खपद्मारिहस्ताय तेऽस्तु ॥ २ ॥ रमावल्लभायाऽसुराणां निहन्त्रे भुजङ्गारियानाय पीताम्बराय । मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३ ॥ नमो दैत्यसन्तापितामर्त्यदुःखा-…

सुपर्ण स्तोत्रम्

|| सुपर्ण स्तोत्रम् || देवा ऊचुः । त्वं ऋषिस्त्वं महाभागः त्वं देवः पतगेश्वरः । त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः ॥ १ ॥ त्वमिन्द्रस्त्वं हयमुखः त्वं शर्वस्त्वं जगत्पतिः । त्वं मुखं पद्मजो विप्रः त्वमग्निः पवनस्तथा ॥ २ ॥ त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः । त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः ॥ ३ ॥ त्वं…

षोडशायुध स्तोत्रम्

|| षोडशायुध स्तोत्रम् || स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः । जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ १ ॥ यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् । पातु वस्तत्परं चक्रं चक्ररूपस्य चक्रिणः ॥ २ ॥ यत्प्रसूतिशतैरासन् द्रुमाः परशुलाञ्छिताः । [रुद्राः] स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ ३ ॥ हेलया हेतिराजेन यस्मिन् दैत्याः समुद्धृते । शकुन्ता इव धावन्ति स कुन्तः पालयेत वः…

शालिग्राम स्तोत्रम्

|| शालिग्राम स्तोत्रम् || अस्य श्रीशालिग्रामस्तोत्रमन्त्रस्य श्रीभगवान् ऋषिः श्रीनारायणो देवता अनुष्टुप् छन्दः श्रीशालिग्रामस्तोत्रमन्त्र जपे विनियोगः । युधिष्ठिर उवाच । श्रीदेवदेव देवेश देवतार्चनमुत्तमम् । तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तम ॥ १ ॥ श्रीभगवानुवाच । गण्डक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे । दशयोजनविस्तीर्णा महाक्षेत्रवसुन्धरा ॥ २ ॥ शालिग्रामो भवेद्देवो देवी द्वारावती भवेत् । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न…

श्री विष्णोर्दिव्यस्थल स्तोत्रम्

|| श्री विष्णोर्दिव्यस्थल स्तोत्रम् || अर्जुन उवाच । भगवन्सर्वभूतात्मन् सर्वभूतेषु वै भवान् । परमात्मस्वरूपेण स्थितं वेद्मि तदव्ययम् ॥ १ क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत । चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ॥ २ यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ । प्रसादसुमुखो नाथ तन्ममाशेषतो वद ॥ ३ श्रीभगवानुवाच । सर्वगः सर्वभूतोऽहं न हि किञ्चिद्मया विना । चराचरे…

श्री विष्णोः षोडशनाम स्तोत्रम्

|| श्री विष्णोः षोडशनाम स्तोत्रम् || औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् । शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ १ ॥ युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् । नारायणं तनुत्यागे श्रीधरं प्रियसङ्गमे ॥ २ ॥ दुस्स्वप्ने स्मर गोविन्दं सङ्कटे मधुसूदनम् । कानने नारसिंहं च पावके जलशायिनम् ॥ ३ ॥ जलमध्ये वराहं च पर्वते रघुनन्दनम् ।…

श्री विष्णुषट्पदी स्तोत्रम्

|| श्री विष्णुषट्पदी स्तोत्रम् || अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् । भूतदयां विस्तारय तारय संसारसागरतः ॥ १ ॥ दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे । श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ॥ २ ॥ सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ ३ ॥ उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे । दृष्टे भवति प्रभवति न भवति…

श्री विष्णु महिम्नः स्तोत्रम्

|| श्री विष्णु महिम्नः स्तोत्रम् || महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथनु कथम् । विजानीयामद्धा नलिननयनात्मीयवचसो विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १ ॥ यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परे- ऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे । तथा शक्तिं केचिद्गणपतिमुतार्कं च सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥ २ ॥ शिवः पादाम्भस्ते शिरसि धृतवानादरयुतं तथा शक्तिश्चासौ…

विष्णु भुजङ्गप्रयात स्तोत्रम्

|| विष्णु भुजङ्गप्रयात स्तोत्रम् || चिदंशं विभुं निर्मलं निर्विकल्पं निरीहं निराकारमोङ्कारगम्यम् । गुणातीतमव्यक्तमेकं तुरीयं परं ब्रह्म यं वेद तस्मै नमस्ते ॥ १ ॥ विशुद्धं शिवं शान्तमाद्यन्तशून्यं जगज्जीवनं ज्योतिरानन्दरूपम् । अदिग्देशकालव्यवच्छेदनीयं त्रयी वक्ति यं वेद तस्मै नमस्ते ॥ २ ॥ महायोगपीठे परिभ्राजमाने धरण्यादितत्त्वात्मके शक्तियुक्ते । गुणाहस्करे वह्निबिम्बार्धमध्ये समासीनमोङ्कर्णिकेऽष्टाक्षराब्जे ॥ ३ ॥ समानोदितानेकसूर्येन्दुकोटि- -प्रभापूरतुल्यद्युतिं दुर्निरीक्षम् । न…

श्री दत्तात्रेय हृदयम्

|| श्री दत्तात्रेय हृदयम् || प्रह्लाद एकदारण्यं पर्यटन्मृगयामिषात् । भाग्याद्ददर्श सह्याद्रौ कावेर्यां निद्रिता भुवि ॥ कर्माद्यैर्वर्णलिङ्गाद्यैरप्रतक्र्यं रजस्वलम् । नत्वा प्राहावधूतं तं निगूढामलतेजसम् ॥ कथं भोगीव धत्तेऽस्वः पीनां तनुमनुद्यमः । उद्योगात्स्वं ततो भोगो भोगात्पीना तनुर्भवेत् ॥ शयानोऽनुद्यमोऽनीहो भवानिह तथाप्यसौ । पीना तनुं कथं सिद्धो भवान्वदतु चेत्क्षमम् ॥ विद्वान्दक्षोऽपि चतुरश्चित्रप्रियकथो भवान् । दृष्ट्वापीह जनांश्चित्रकर्मणो वर्तते समः ॥…

श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम्

|| श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम् || लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं नीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति । पायान्नः पाञ्चजन्यः स दितिसुतकुलत्रासनैः पूरयन्स्वै- -र्निध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥ १ ॥ आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम । चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म धर्मांशुशोभम् ॥ २ ॥ अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते- -रस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः ।…

श्री विष्णुपञ्जर स्तोत्रम्

|| श्री विष्णुपञ्जर स्तोत्रम् || ओं अस्य श्रीविष्णुपञ्जरस्तोत्र महामन्त्रस्य नारद ऋषिः । अनुष्टुप् छन्दः । श्रीविष्णुः परमात्मा देवता । अहं बीजम् । सोहं शक्तिः । ओं ह्रीं कीलकम् । मम सर्वदेहरक्षणार्थं जपे विनियोगः । नारद ऋषये नमः मुखे । श्रीविष्णुपरमात्मदेवतायै नमः हृदये । अहं बीजं गुह्ये । सोहं शक्तिः पादयोः । ओं ह्रीं कीलकं पादाग्रे…

गायत्री हृदयम्

|| गायत्री हृदयम् || ॐ इत्येकाक्षरं ब्रह्म, अग्निर्देवता, ब्रह्म इत्यार्षम्, गायत्रं छन्दं, परमात्मम् स्वरूपं, सायुज्यं विनियोगम् । आयातु वरदा देवी अक्षर ब्रह्म सम्मितम् । गायत्री छन्दसां माता इदं ब्रह्म जुहस्व मे ॥ यदन्नात्कुरुते पापं तदन्नत्प्रतिमुच्यते । यद्रात्र्यात्कुरुते पापं तद्रात्र्यात्प्रतिमुच्यते ॥ सर्व वर्णे महादेवि सन्ध्या विद्ये सरस्वति । अजरे अमरे देवि सर्व देवि नमोऽस्तुते ॥ ओजोऽसि…

श्री बटुक भैरव हृदयम्

|| श्री बटुक भैरव हृदयम् || पूर्वपीठिका कैलाशशिखरासीनं देवदेवं जगद्गुरुम् । देवी पप्रच्छ सर्वज्ञं शङ्करं वरदं शिवम् ॥ ॥ श्रीदेव्युवाच ॥ देवदेव परेशान भक्त्ताभीष्टप्रदायक । प्रब्रूहि मे महाभाग गोप्यं यद्यपि न प्रभो ॥ बटुकस्यैव हृदयं साधकानां हिताय च । ॥ श्रीशिव उवाच ॥ श‍ृणु देवि प्रवक्ष्यामि हृदयं बटुकस्य च ॥ गुह्याद्गुह्यतरं गुह्यं तच्छृणुष्व तु मध्यमे…

श्री विठ्ठल हृदयम्

|| श्री विठ्ठल हृदयम् || श्रीपार्वत्युवाच । महाशम्भो देवदेव भक्तानुग्रहकारक । श्रीविठ्ठलारव्यं हृदयं तन्मे ब्रूहि सदाशिव ॥ १॥ श्रीशङ्कर उवाच । श‍ृणु देवि महादेवि पार्वति प्राणवल्लभे । गुह्याद्गुयतरं श्रेष्ठं नास्ति गुह्यमतः परम् ॥ २॥ जीवस्य जीवनं साक्षात्प्राणिनां प्राण उच्यते । योगिनां हि महागम्यं पाण्डुरङ्गाभिधानकम् ॥ ३॥ अद्यापि महिमा तस्य सर्वथा ज्ञायते न हि । नित्यनूतनतत्क्षेत्रस्योपमा…

श्री विष्णु कवच स्तोत्रम्

|| श्री विष्णु कवच स्तोत्रम् || अस्य श्रीविष्णुकवचस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीमन्नारायणो देवता, श्रीमन्नारायणप्रसादसिद्ध्यर्थे जपे विनियोगः । ओं केशवाय अङ्गुष्ठाभ्यां नमः । ओं नारायणाय तर्जनीभ्यां नमः । ओं माधवाय मध्यमाभ्यां नमः । ओं गोविन्दाय अनामिकाभ्यां नमः । ओं विष्णवे कनिष्ठिकाभ्यां नमः । ओं मधुसूदनाय करतलकरपृष्ठाभ्यां नमः ॥ ओं त्रिविक्रमाय हृदयाय नमः । ओं वामनाय…

श्री विष्णुः अष्टाविंशतिनाम स्तोत्रम्

|| श्री विष्णुः अष्टाविंशतिनाम स्तोत्रम् || अर्जुन उवाच- किं नु नाम सहस्राणि जपते च पुनः पुनः । यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥ १ ॥ श्री भगवानुवाच- मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् । गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥ २ ॥ पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् । गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥ ३ ॥…

श्री वरदराज स्तोत्रम्

|| श्री वरदराज स्तोत्रम् || श्रीमद्वरदराजेन्द्रः श्रीवत्साङ्कः शुभप्रदः । तुण्डीरमण्डलोल्लासी तापत्रयनिवारकः ॥ १ ॥ सत्यव्रतक्षेत्रवासी सत्यसज्जनपोषकः । सर्गस्थित्युपसंहारकारी सुगुणवारिधिः ॥ २ ॥ हरिर्हस्तिगिरीशानो हृतप्रणवदुष्कृतः । तत्त्वरूपत्वष्टृकृत काञ्चीपुरवराश्रितः ॥ ३ ॥ ब्रह्मारब्धाश्वमेधाख्यमहामखसुपूजितः । वेदवेद्यो वेगवतीवेगभीतात्मभूस्तुतः ॥ ४ ॥ विश्वसेतुर्वेगवतीसेतुर्विश्वाधिकोऽनघः । यथोक्तकारिनामाढ्यो यज्ञभृद्यज्ञरक्षकः ॥ ५ ॥ ब्रह्मकुण्डोत्पन्नदिव्यपुण्यकोटिविमानगः । वाणीपत्यर्पितहयवपासुरभिलाधरः ॥ ६ ॥ वरदाभयहस्ताब्जो वनमालाविराजितः । शङ्खचक्रलसत्पाणिश्शरणागतरक्षकः ॥…

श्री लक्ष्मीनारायणाष्टकम्

|| श्री लक्ष्मीनारायणाष्टकम् || आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम् । अशेषजगदाधारं लक्ष्मीनारायणं भजे ॥ १ ॥ अपारकरुणाम्भोधिं आपद्बान्धवमच्युतम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ २ ॥ भक्तानां वत्सलं भक्तिगम्यं सर्वगुणाकरम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ३ ॥ सुहृदं सर्वभूतानां सर्वलक्षणसम्युतम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ४ ॥ चिदचित्सर्वजन्तूनां आधारं वरदं परम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ५…

श्री रङ्गनाथाष्टकम् 2

|| श्री रङ्गनाथाष्टकम् 2 || पद्मादिराजे गरुडादिराजे विरिञ्चिराजे सुरराजराजे । त्रैलोक्यराजेऽखिलराजराजे श्रीरङ्गराजे नमता नमामि ॥ १ ॥ श्रीचित्तशायी भुजङ्गेन्द्रशायी नादार्कशायी फणिभोगशायी । अंभोधिशायी वटपत्रशायी श्रीरङ्गराजे नमता नमामि ॥ २ ॥ लक्ष्मीनिवासे जगतांनिवासे हृत्पद्मवासे रविबिम्बवासे । शेषाद्रिवासेऽखिललोकवासे श्रीरङ्गवासे नमता नमामि ॥ ३ ॥ नीलाम्बुवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे । श्रीवल्लिरङ्गेजितमल्लरङ्गे श्रीरङ्गरङ्गे नमता नमामि ॥ ४ ॥ ब्रह्मादिवन्द्ये…

रङ्गनाथाष्टकम्

|| रङ्गनाथाष्टकम् || आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे । शशाङ्करूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ॥ १ ॥ कावेरितीरे करुणाविलोले मन्दारमूले धृतचारुकेले । दैत्यान्तकालेऽखिललोकलीले श्रीरङ्गलीले रमतां मनो मे ॥ २ ॥ लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे । कृपानिवासे गुणबृन्दवासे श्रीरङ्गवासे रमतां मनो मे ॥ ३ ॥ ब्रह्मादिवन्द्ये जगदेकवन्द्ये मुकुन्दवन्द्ये सुरनाथवन्द्ये । व्यासादिवन्द्ये सनकादिवन्द्ये श्रीरङ्गवन्द्ये रमतां मनो…

श्री महाविष्णु स्तोत्रम् (गरुडगमन तव)

|| श्री महाविष्णु स्तोत्रम् (गरुडगमन तव) || गरुडगमन तव चरणकमलमिह मनसि लसतु मम नित्यम् । मम तापमपाकुरु देव, मम पापमपाकुरु देव ॥ जलजनयन विधिनमुचिहरणमुख विबुधविनुतपदपद्म । मम तापमपाकुरु देव, मम पापमपाकुरु देव ॥ १ ॥ भुजगशयन भव मदनजनक मम जननमरणभयहारि । मम तापमपाकुरु देव, मम पापमपाकुरु देव ॥ २ ॥ शङ्खचक्रधर दुष्टदैत्यहर सर्वलोकशरण । मम…

भगवत् स्तुतिः (भीष्म कृतम्)

|| भगवत् स्तुतिः (भीष्म कृतम्) || भीष्म उवाच । इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ १ ॥ त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ २ ॥ युधि तुरगरजोविधूम्रविष्वक् कचलुलितश्रमवार्यलङ्कृतास्ये । मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३ ॥ सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य…

भगवत्प्रातस्स्मरण स्तोत्रम्

|| भगवत्प्रातस्स्मरण स्तोत्रम् || प्रातस्स्मरामि फणिराजतनौ शयानं नागामरासुरनरादिजगन्निदानं । वेदैस्सहागमगणैरुपगीयमानं कां तारकेतनवतां परमं विधानम् ॥ १ ॥ प्रातर्भजामि भवसागरवारिपारं देवर्षिसिद्धनिवहैर्विहितोपहारं । सन्दृप्तदानवकदम्बमदापहारं सौन्दर्यराशि जलराशि सुताविहारम् ॥ २ ॥ प्रातर्नमामि शरदम्बरकान्तिकान्तं पादारविन्दमकरन्दजुषां भवान्तम् । नानावतारहृतभूमिभरं कृतान्तं पाथोजकम्बुरथपादकरं प्रशान्तम् ॥ ३ ॥ श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितं । यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ४ ॥ इति श्रीमत्परमहंसस्वामि ब्रह्मानन्दविरचितं…

बाल ग्रहरक्षा स्तोत्रम्

|| बाल ग्रहरक्षा स्तोत्रम् || आदाय कृष्णं सन्त्रस्ता यशोदापि द्विजोत्तम । गोपुच्छं भ्राम्य हस्तेन बालदोषमपाकरोत् ॥ १ ॥ गोकरीषमुपादाय नन्दगोपोऽपि मस्तके । कृष्णस्य प्रददौ रक्षां कुर्वित्येतदुदीरयन् ॥ २ ॥ नन्दगोप उवच – रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ ३ ॥ येन दम्ष्ट्राग्रविधृता धारयत्यवनी जगत् । वराहरूपदृग्देवस्सत्त्वां रक्षतु केशवः ॥ ४ ॥ नखाङ्कुरविनिर्भिन्न…

श्री पुण्डरीकाक्ष स्तोत्रम्

|| श्री पुण्डरीकाक्ष स्तोत्रम् || वराह उवाच । नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन । नमस्ते सर्वलोकेश नमस्ते तिग्मचक्रिणे ॥ १ ॥ विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् । नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥ २ ॥ आदिदेवं महादेवं वेदवेदाङ्गपारगम् । गम्भीरं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥ ३ ॥ सहस्रशीर्षिणं देवं सहस्राक्षं महाभुजम् । जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥ ४ ॥…

पाण्डुरङ्गाष्टकम्

|| पाण्डुरङ्गाष्टकम् || महायोगपीठे तटे भीमरथ्या वरं पुण्डरीकाय दातुं मुनीन्द्रैः । समागत्य तिष्ठन्तमानन्दकन्दं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १ ॥ तटिद्वाससं नीलमेघावभासं रमामन्दिरं सुन्दरं चित्प्रकाशम् । वरं त्विष्टकायां समन्यस्तपादं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २ ॥ प्रमाणं भवाब्धेरिदं मामकानां नितम्बः कराभ्यां धृतो येन तस्मात् । विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३ ॥ स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे श्रिया…

पञ्चायुध स्तोत्रम्

|| पञ्चायुध स्तोत्रम् || स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् । सुरद्विषां प्राणविनाशि विष्णोः चक्रं सदाऽहं शरणं प्रपद्ये ॥ १ ॥ विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता । तं पाञ्चजन्यं शशिकोटिशुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २ ॥ हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहन्त्रीम् । वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥ रक्षोऽसुराणां कठिनोग्रकण्ठ- -च्छेदक्षरच्छोणितदिग्धधारम् । तं नन्दकं नाम हरेः प्रदीप्तं खड्गं…

Join WhatsApp Channel Download App