त्वमेव माता च पिता त्वमेव – श्लोक अर्थ सहित

।। त्वमेव माता च पिता त्वमेव – श्लोक ।। त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव। त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देव देव !! हिंदी अर्थ: “आप ही मेरे माता हैं, आप ही मेरे पिता हैं, आप ही मेरे बंधु हैं और आप ही मेरे सखा हैं। आप ही मेरी विद्या हैं,…

श्री शिव स्तोत्रम् (देव कृतम्)

|| श्री शिव स्तोत्रम् (देव कृतम्) || देवा ऊचुः । नमो देवादिदेवाय त्रिनेत्राय महात्मने । रक्तपिङ्गलनेत्राय जटामकुटधारिणे ॥ १ ॥ भूतवेतालजुष्टाय महाभोगोपवीतिने । भीमाट्‍टहासवक्त्राय कपर्दि स्थाणवे नमः ॥ २ ॥ पूषदन्तविनाशाय भगनेत्रहने नमः । भविष्यद्वृषचिह्नाय महाभूतपते नमः ॥ ३ ॥ भविष्यत्त्रिपुरान्ताय तथान्धकविनाशिने । कैलासवरवासाय करिकृत्तिनिवासिने ॥ ४ ॥ विकरालोर्ध्वकेशाय भैरवाय नमो नमः । अग्निज्वालाकरालाय शशिमौलिकृते…

श्री शिव स्तोत्रम् (कृष्ण कृतम्)

|| श्री शिव स्तोत्रम् (कृष्ण कृतम्) || श्रीकृष्ण उवाच प्रणम्य देव्या गिरिशं सभक्त्या स्वात्मन्यधात्मान मसौविचिन्त्य । नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वां मुनयो वदन्ति ॥ १ ॥ त्वमेव सत्त्वं च रजस्तमश्च त्वामेव सर्वं प्रवदन्ति सन्तः । ततस्त्वमेवासि जगद्विधायक- स्त्वमेव सत्यं प्रवदन्ति वेदाः ॥ २ ॥ त्वं ब्रह्मा हरिरथ विश्वयोनिरग्नि- स्संहर्ता दिनकर मण्डलाधिवासः । प्राणस्त्वं हुतवह…

श्री शिव स्तोत्रम् (कल्कि कृतम्)

श्री शिव स्तोत्रम् (कल्कि कृतम्) गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम् । त्र्यक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥ १ ॥ योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूर्धानमीशम् । जटाजूटाटोपरिक्षिप्तभावं महाकालं चन्द्रफालं नमामि ॥ २ ॥ श्मशानस्थं भूतवेतालसङ्गं नानाशस्त्रैः खड्गशूलादिभिश्च । व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोकेऽस्तमेति ॥ ३ ॥ यो भूतादिः पञ्चभूतैः सिसृक्षु- स्तन्मात्रात्मा कालकर्मस्वभावैः । प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे…

सत्यमेव जयते नानृतम् – श्लोक अर्थ सहित

॥ सत्यमेव जयते नानृतम् – श्लोक ॥ सत्यमेव जयते नानृतम् सत्येन पन्था विततो देवयानः । येनाक्रमत् मनुष्यो ह्यात्मकामो यत्र तत् सत्यस्य परं निधानं ॥ हिंदी अर्थ: सत्य ही सदा विजय प्राप्त करता है, असत्य नहीं। सत्य के मार्ग पर ही देवयान की यात्रा की जाती है, जो परमात्मा तक पहुँचने का मार्ग है। जिस पथ पर…

श्री शिव स्तोत्रम् (असित कृतम्)

|| श्री शिव स्तोत्रम् (असित कृतम्) || असित उवाच जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥ १ ॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन । मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥ २ ॥ कालरूपः कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥ ३ ॥ गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश गुणिनां…

श्री शिव स्तुतिः (वन्दे शम्भुं उमापतिम्)

|| श्री शिव स्तुतिः (वन्दे शम्भुं उमापतिम्) || वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १ ॥ वन्दे सर्वजगद्विहारमतुलं वन्देऽन्धकध्वंसिनं वन्दे देवशिखामणिं शशिनिभं वन्दे हरेर्वल्लभम् । वन्दे नागभुजङ्गभूषणधरं वन्दे शिवं चिन्मयं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्…

नैनं छिन्दन्ति शस्त्राणि – श्लोक अर्थ सहित

॥ नैनं छिन्दन्ति शस्त्राणि – श्लोक ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥ हिंदी अर्थ: यह श्लोक श्रीमद्भगवद्गीता से लिया गया है, जहाँ भगवान श्रीकृष्ण अर्जुन से कहते हैं कि आत्मा को न तो कोई शस्त्र काट सकता है, न ही अग्नि जला सकती है। इसे पानी गीला नहीं कर…

श्री शिव स्तुतिः (लंकेश्वर कृतम्)

|| श्री शिव स्तुतिः (लंकेश्वर कृतम्) || गले कलितकालिमः प्रकटितेन्दुफालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे । उदञ्चितकपालजं जघनसीम्नि सन्दर्शित द्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १ ॥ वृषोपरि परिस्फुरद्धवलदामधामश्रिया कुबेरगिरि-गौरिमप्रभवगर्वनिर्वासि तत् । क्वचित्पुनरुमा-कुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥ २ ॥ उदित्वर-विलोचनत्रय-विसृत्वरज्योतिषा कलाकरकलाकर-व्यतिकरेण चाहर्निशम् । विकासित जटाटवी विहरणोत्सवप्रोल्लस- त्तरामर तरङ्गिणी तरल-चूडमीडे मृडम् ॥ ३ ॥ विहाय कमलालयाविलसितानि विद्युन्नटी- विडंबनपटूनि मे…

श्री शिव स्तुतिः

|| श्री शिव स्तुतिः || स्फुटं स्फटिकसप्रभं स्फुटितहारकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिम- त्कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १ ॥ त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् । स्वभक्तिलतया वशीकृतपती सतीयं सती स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २ ॥ महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवा- नघोररिपुघोर तेऽनवम वामदेवाञ्जलिः । नमस्सपदि जात ते…

श्री शिव स्तुतिः (देवाचार्य कृतम्)

|| श्री शिव स्तुतिः (देवाचार्य कृतम्) || आङ्गीरस उवाच जय शङ्कर शान्तशशाङ्करुचे रुचिरार्थद सर्वद सर्वशुचे । शुचिदत्तगृहीत महोपहृते हृतभक्तजनोद्धततापतते ॥ १ ॥ तत सर्वहृदम्बर वरदनते नत वृजिन महावनदाहकृते । कृतविविधचरित्रतनो सुतनो ऽतनु विशिखविशोषण धैर्यनिधे ॥ २ ॥ निधनादिविवर्जितकृतनति कृ- त्कृति विहित मनोरथ पन्नगभृत् । नगभर्तृनुतार्पित वामनवपु- स्स्ववपुःपरिपूरित सर्वजगत् ॥ ३ ॥ त्रिजगन्मयरूप विरूप सुदृ ग्दृगुदञ्चन…

श्री शिव स्तुतिः (देव कृतम्)

|| श्री शिव स्तुतिः (देव कृतम्) || देवा ऊचुः । नमः सहस्रनेत्राय नमस्ते शूलपाणिने । नमः खट्वाङ्गहस्ताय नमस्ते दण्डधारिणे ॥ १ ॥ त्वं देवहुतभुग्ज्वाला कोटिभानुसमप्रभः । अदर्शने वयं देव मूढविज्ञानतोधुना ॥ २ ॥ नमस्त्रिनेत्रार्तिहराय शम्भो त्रिशूलपाणे विकृतास्यरूप । समस्त देवेश्वर शुद्धभाव प्रसीद रुद्राऽच्युत सर्वभाव ॥ ३ ॥ भगास्य दन्तान्तक भीमरूप प्रलम्ब भोगीन्द्र लुलुन्तकण्ठ । विशालदेहाच्युत…

श्री शिव स्तुतिः (अन्धक कृतम्)

|| श्री शिव स्तुतिः (अन्धक कृतम्) || नमोऽस्तुते भैरव भीममूर्ते त्रैलोक्य गोप्त्रेशितशूलपाणे । कपालपाणे भुजगेशहार त्रिनेत्र मां पाहि विपन्न बुद्धिम् ॥ १ ॥ जयस्व सर्वेश्वर विश्वमूर्ते सुरासुरैर्वन्दितपादपीठ । त्रैलोक्य मातर्गुरवे वृषाङ्क भीतश्शरण्यं शरणा गतोस्मि ॥ २ ॥ त्वं नाथ देवाश्शिवमीरयन्ति सिद्धा हरं स्थाणुममर्षिताश्च । भीमं च यक्षा मनुजा महेश्वरं भूतानि भूताधिप मुच्चरन्ति ॥ ३ ॥…

श्री शिव स्तुतिः (इन्द्रादि कृतम्)

|| श्री शिव स्तुतिः (इन्द्रादि कृतम्) || नमामि सर्वे शरणार्थिनो वयं महेश्वर त्र्यम्बक भूतभावन । उमापते विश्वपते मरुत्पते जगत्पते शङ्कर पाहि नस्स्वयम् ॥ १ ॥ जटाकलापाग्र शशाङ्कदीधिति प्रकाशिताशेषजगत्त्रयामल । त्रिशूलपाणे पुरुषोत्तमाऽच्युत प्रपाहिनो दैत्यभयादुपस्थितात् ॥ २ ॥ त्वमादिदेवः पुरुषोत्तमो हरि- र्भवो महेशस्त्रिपुरान्तको विभुः । भगाक्षहा दैत्यरिपुः पुरातनो वृषध्वजः पाहि सुरोत्तमोत्तम ॥ ३ ॥ गिरीशजानाथ गिरिप्रियाप्रिय प्रभो…

श्री सोमसुन्दर स्तोत्रम् (कुलशेखरपाण्ड्य कृतम्)

|| श्री सोमसुन्दर स्तोत्रम् (कुलशेखरपाण्ड्य कृतम्) || कुलशेखरपाण्ड्य उवाच महानीपारण्यान्तर कनकपद्माकरतटी महेन्द्रानीताष्टद्विपधृतविमानान्तरगतम् । महालीलाभूतप्रकटितविशिष्टात्मविभवं महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १ ॥ नमन्नालीकाक्षाम्बुज भवसुनाशीर मकुटी वमन्माणिक्याम्शुस्फुरदरुणपादाब्जयुगलम् । अमन्दानन्दाब्धिं हरिनयनपद्मार्चितपदं महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ २ ॥ महामातङ्गासृग्वरवसनमदीन्द्रतनया महाभाग्यं मत्तान्धककरटिकण्ठीरववरम् । महाभोगीन्द्रोद्यत्फणगणिगणालङ्कृततनुं महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ ३ ॥ समीराहारेन्द्राङ्गदमखिललोकैकजननं समीराहारात्मा प्रणतजनहृत्पद्मनिलयम् । सुमीनाक्षी वक्त्राम्बुज तरुणसूरं सुमनसं महादेवं वन्दे मधुरशफराक्षीसहचरम्…

श्री शिव स्तवराजः (बाणेश्वर कवच सहित)

|| श्री शिव स्तवराजः (बाणेश्वर कवच सहित) || (ब्रह्मवैवर्त पुराणान्तर्गतम्) ओं नमो महादेवाय । [– कवचं –] बाणासुर उवाच । महेश्वर महाभाग कवचं यत्प्रकाशितम् । संसारपावनं नाम कृपया कथय प्रभो ॥ ४३ ॥ महेश्वर उवाच । शृणु वक्ष्यामि हे वत्स कवचं परमाद्भुतम् । अहं तुभ्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ॥ ४४ ॥ पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय…

श्री शिव षडक्षर स्तोत्रम्

|| श्री शिव षडक्षर स्तोत्रम् || ओङ्कारं बिन्दुसम्युक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ओङ्काराय नमो नमः ॥ १ ॥ नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमन्ति देवेशं नकाराय नमो नमः ॥ २ ॥ महादेवं महात्मानं महाध्यानपरायणम् । महापापहरं देवं मकाराय नमो नमः ॥ ३ ॥ शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं…

श्री शिवशङ्कर स्तोत्रम्

|| श्री शिवशङ्कर स्तोत्रम् || अतिभीषणकटुभाषणयमकिङ्किरपटली- -कृतताडनपरिपीडनमरणागमसमये । उमया सह मम चेतसि यमशासन निवसन् शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १ ॥ असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः परदूषणपरिमोक्षण कृतपातकविकृतेः । शमनाननभवकानननिरतेर्भव शरणं शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ २ ॥ विषयाभिधबडिशायुधपिशितायितसुखतो मकरायितगतिसंसृतिकृतसाहसविपदम् । परमालय परिपालय परितापितमनिशं शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ३ ॥ दयिता मम…

श्री शिवमङ्गलाष्टकम्

|| श्री शिवमङ्गलाष्टकम् || भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च । पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २ ॥ भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने । रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ ३ ॥ सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने । सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ ४ ॥ मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे । त्र्यम्बकाय सुशान्ताय त्रिलोकेशाय…

श्री शिव पादादिकेशान्तवर्णन स्तोत्रम्

|| श्री शिव पादादिकेशान्तवर्णन स्तोत्रम् || कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज- -क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः । तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः ॥ १ ॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यस्येषुः शार्‍ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ २ ॥ आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः । क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा…

श्री शिव पञ्चाक्षरनक्षत्रमाला स्तोत्रम्

|| श्री शिव पञ्चाक्षरनक्षत्रमाला स्तोत्रम् || श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय । नामशेषितानमद्भवान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय ॥ १ ॥ कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय । मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय ॥ २ ॥ इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय । सृष्टिरक्षणाय धर्मसेतवे नमः…

श्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं)

|| श्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं) || श्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं) आचमनम् ओं शम्भवे स्वाहा । ओं शङ्कराय स्वाहा । ओं शान्ताय स्वाहा । ओं शाश्वताय नमः । शिव, स्थाणो, भवानीपते, भूतेश, त्रिपुरान्तक, त्रिनयन, श्रीकण्ठ, कालान्तक, शर्व, उग्र, अभव, भर्ग, भीम, जगतां नाथ, अक्षय, श्रीनिधे, रुद्र, ईशान, महेश, महादेवाय नमः ॥ विनियोगः…

श्री शिव प्रतिपादन स्तोत्रम्

|| श्री शिव प्रतिपादन स्तोत्रम् || देवा ऊचुः । नमस्ते देवदेवेश नमस्ते करुणालय । नमस्ते सर्वजन्तूनां भुक्तिमुक्तिफलप्रद ॥ १ ॥ नमस्ते सर्वलोकानां सृष्टिस्थित्यन्तकारण । नमस्ते भवभीतानां भवभीतिविमर्दन ॥ २ ॥ नमस्ते वेदवेदान्तैरर्चनीय द्विजोत्तमैः । नमस्ते शूलहस्ताय नमस्ते वह्निपाणये ॥ ३ ॥ नमस्ते विश्वनाथाय नमस्ते विश्वयोनये । नमस्ते नीलकण्ठाय नमस्ते कृत्तिवाससे ॥ ४ ॥ नमस्ते सोमरूपाय…

शिवनामावल्यष्टकम्

|| शिवनामावल्यष्टकम् || हे चन्द्रचूड मदनान्तक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शम्भो । भूतेश भीतभयसूदन मामनाथं संसारदुःखगहनाज्जगदीश रक्ष ॥ १ ॥ हे पार्वतीहृदयवल्लभ चन्द्रमौले भूताधिप प्रमथनाथ गिरीशचाप । हे वामदेव भव रुद्र पिनाकपाणे संसारदुःखगहनाज्जगदीश रक्ष ॥ २ ॥ हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र लोकेश शेषवलय प्रमथेश शर्व । हे धूर्जटे पशुपते गिरिजापते मां संसारदुःखगहनाज्जगदीश रक्ष ॥…

वैद्यनाथाष्टकम्

|| वैद्यनाथाष्टकम् || श्रीरामसौमित्रिजटायुवेद षडाननादित्य कुजार्चिताय । श्रीनीलकण्ठाय दयामयाय श्रीवैद्यनाथाय नमः शिवाय ॥ १ ॥ गङ्गाप्रवाहेन्दु जटाधराय त्रिलोचनाय स्मर कालहन्त्रे । समस्त देवैरभिपूजिताय श्रीवैद्यनाथाय नमः शिवाय ॥ २ ॥ भक्तप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् । प्रत्यक्षलीलाय मनुष्यलोके श्रीवैद्यनाथाय नमः शिवाय ॥ ३ ॥ प्रभूतवातादि समस्तरोग- -प्रणाशकर्त्रे मुनिवन्दिताय । प्रभाकरेन्द्वग्निविलोचनाय श्रीवैद्यनाथाय नमः शिवाय ॥ ४ ॥…

श्री गोपाल सहस्त्रनाम स्तोत्र

।। श्री गोपाल सहस्त्रनाम स्तोत्र ।। ।। अथ ध्यानम ।। कस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तुभं नासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम । सर्वाड़्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलि – र्गोपस्रीपरिवेष्टितो विजयते गोपालचूडामणि: ।। फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साड़्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम । गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं गोविन्दं कलवेणुवादनपरं दिव्याड़्गभूषं भजे ।। इति ध्यानम ऊँ क्लीं देव: कामदेव: कामबीजशिरोमणि: । श्रीगोपालको…

श्री महासरस्वती सहस्रनाम स्तोत्र

॥ श्री महासरस्वती सहस्रनाम स्तोत्र ॥ ध्यानम् श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका- मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना। सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा॥ श्रीनारद उवाच – भगवन्परमेशान सर्वलोकैकनायक। कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः॥ कथं देव्या महावाण्याः सतत्प्राप सुदुर्लभम्। एतन्मे वद तत्वेन महायोगीश्वरप्रभो॥ श्रीसनत्कुमार उवाच – साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्य मनुत्तमम्। भयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते॥ पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम्।…

श्री विश्वनाथाष्टकम्

|| श्री विश्वनाथाष्टकम् || गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तरविभूषितवामभागम् । नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् ॥ १ ॥ वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम् । [पद्मम्] वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् ॥ २ ॥ भूताधिपं भुजगभूषणभूषिताङ्गं व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम् । पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ३ ॥ शीतांशुशोभितकिरीटविराजमानं फालेक्षणानलविशोषितपञ्चबाणम् । नागाधिपारचितभासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ४ ॥ पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम् ।…

श्री रुद्राष्टकम्

|| श्री रुद्राष्टकम् || नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् । निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १ ॥ निराकारमोङ्कारमूलं तुरीयं गिराज्ञानगोतीतमीशं गिरीशम् । करालं महाकालकालं कृपालुं गुणागारसंसारपारं नतोऽहम् ॥ २ ॥ तुषाराद्रिसङ्काशगौरं गभीरं मनोभूतकोटिप्रभासी शरीरम् । स्फुरन्मौलिकल्लोलिनी चारुगङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गम् ॥ ३ ॥ चलत्कुण्डलं शुभ्रनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालुम् । मृगाधीशचर्माम्बरं मुण्डमालं प्रियं…

श्री रुद्र स्तुतिः

|| श्री रुद्र स्तुतिः || नमो देवाय महते देवदेवाय शूलिने । त्र्यम्बकाय त्रिनेत्राय योगिनां पतये नमः ॥ १ ॥ नमोऽस्तु देवदेवाय महादेवाय वेधसे । शम्भवे स्थाणवे नित्यं शिवाय परमात्मने ॥ २ ॥ नमः सोमाय रुद्राय महाग्रासाय हेतवे । प्रपद्येहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् ॥ ३ ॥ महादेवं महायोगमीशानं त्वम्बिकापतिम् । योगिनां योगदाकारं योगमायासमाहृतम् ॥ ४ ॥…

श्री रुद्र कवचम्

|| श्री रुद्र कवचम् || ओं अस्य श्री रुद्र कवचस्तोत्र महामन्त्रस्य दूर्वासऋषिः अनुष्ठुप् छन्दः त्र्यम्बक रुद्रो देवता ह्रां बीजं श्रीं शक्तिः ह्रीं कीलकं मम मनसोऽभीष्टसिद्ध्यर्थे जपे विनियोगः । ह्रामित्यादि षड्बीजैः षडङ्गन्यासः ॥ ध्यानम् । शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां प्रलय हुतवहं साङ्कुशं वामभागे…

श्री मार्गबन्धु स्तोत्रम्

|| श्री मार्गबन्धु स्तोत्रम् || शम्भो महादेव देव शिव शम्भो महादेव देवेश शम्भो शम्भो महादेव देव ॥ फालावनम्रत्किरीटं फालनेत्रार्चिषा दग्धपञ्चेषुकीटम् । शूलाहतारातिकूटं शुद्धमर्धेन्दुचूडं भजे मार्गबन्धुम् ॥ १ ॥ शम्भो महादेव देव शिव शम्भो महादेव देवेश शम्भो शम्भो महादेव देव ॥ अङ्गे विराजद्भुजङ्गं अभ्रगङ्गातरङ्गाभिरामोत्तमाङ्गम् । ओङ्कारवाटीकुरङ्गं सिद्धसंसेविताङ्घ्रिं भजे मार्गबन्धुम् ॥ २ ॥ शम्भो महादेव देव शिव…

श्री महेश्वर पञ्चरत्न स्तोत्रम्

|| श्री महेश्वर पञ्चरत्न स्तोत्रम् || प्रातः स्मरामि परमेश्वरवक्त्रपद्मं फालाक्षिकीलपरिशोषितपञ्चबाणम् । भस्मत्रिपुण्ड्ररचितं फणिकुण्डलाढ्यं कुन्देन्दुचन्दनसुधारसमन्दहासम् ॥ १ ॥ प्रातर्भजामि परमेश्वरबाहुदण्डान् खट्वाङ्गशूलहरिणाहिपिनाकयुक्तान् । गौरीकपोलकुचरञ्जितपत्ररेखान् सौवर्णकङ्कणमणिद्युतिभासमानान् ॥ २ ॥ प्रातर्नमामि परमेश्वरपादपद्मं पद्मोद्भवामरमुनीन्द्रमनोनिवासम् । पद्माक्षनेत्रसरसीरुह पूजनीयं पद्माङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ॥ ३ ॥ प्रातः स्मरामि परमेश्वरपुण्यमूर्तिं कर्पूरकुन्दधवलं गजचर्मचेलम् । गङ्गाधरं घनकपर्दिविभासमानं कात्यायनीतनुविभूषितवामभागम् ॥ ४ ॥ प्रातः स्मरामि परमेश्वरपुण्यनाम श्रेयः प्रदं सकलदुःखविनाशहेतुम् ।…

श्री महादेव स्तोत्रम्

|| श्री महादेव स्तोत्रम् || बृहस्पतिरुवाच । जय देव परानन्द जय चित्सत्यविग्रह । जय संसारलोकघ्न जय पापहर प्रभो ॥ १ ॥ जय पूर्णमहादेव जय देवारिमर्दन । जय कल्याण देवेश जय त्रिपुरमर्दन ॥ २ ॥ जयाऽहङ्कारशत्रुघ्न जय मायाविषापहा । जय वेदान्तसंवेद्य जय वाचामगोचरा ॥ ३ ॥ जय रागहर श्रेष्ठ जय विद्वेषहराग्रज । जय साम्ब सदाचार जय…

श्री महादेव स्तुतिः (ब्रह्मादिदेव कृतम्)

|| श्री महादेव स्तुतिः (ब्रह्मादिदेव कृतम्) || देवा ऊचुः – नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ १ ॥ महादेवाय भीमाय त्र्यम्बकाय विशाम्पते । ईश्वराय भगघ्नाय नमस्त्वन्धकघातिने ॥ २ ॥ नीलग्रीवाय भीमाय वेधसां पतये नमः । कुमारशत्रुविघ्नाय कुमारजननाय च ॥ ३ ॥ विलोहिताय धूम्राय धराय क्रथनाय च । नित्यं…

बिल्वाष्टकम् 1

|| बिल्वाष्टकम् 1 || त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १ ॥ त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः । शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २ ॥ अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ३ ॥ सालग्रामशिलामेकां जातु विप्राय योऽर्पयेत् । सोमयज्ञमहापुण्यं एकबिल्वं शिवार्पणम् ॥ ४ ॥ दन्तिकोटिसहस्राणि वाजपेयशतानि च । कोटिकन्यामहादानां…

श्री नीलकण्ठ स्तवः (श्री पार्वतीवल्लभाष्टकम्)

|| श्री नीलकण्ठ स्तवः (श्री पार्वतीवल्लभाष्टकम्) || नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजम् । नमः कामभस्मं नमः शान्तशीलं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १ ॥ सदा तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम् । सदा ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २ ॥ श्मशाने शयानं महास्थानवासं शरीरं गजानां सदा चर्मवेष्टम् । पिशाचादिनाथं पशूनां…

प्रदोषस्तोत्राष्टकम्

|| प्रदोषस्तोत्राष्टकम् || सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि । संसारमुल्बणमसारमवाप्य जन्तोः सारोऽयमीश्वरपदाम्बुरुहस्य सेवा ॥ १ ॥ ये नार्चयन्ति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमन्ति चान्ये । एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढा- -स्ते जन्मजन्मसु भवन्ति नरा दरिद्राः ॥ २ ॥ ये वै प्रदोषसमये परमेश्वरस्य कुर्वन्त्यनन्यमनसोङ्घ्रिसरोजपूजाम् । नित्यं प्रवृद्धधनधान्यकलत्रपुत्र- -सौभाग्यसम्पदधिकास्त इहैव लोके ॥ ३ ॥…

पशुपत्यष्टकम्

|| पशुपत्यष्टकम् || ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ पशुपतिं द्युपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् । प्रणत भक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥ १ ॥ न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् । अवति कोऽपि न कालवशं…

दारिद्र्यदहन शिव स्तोत्रम्

|| दारिद्र्यदहन शिव स्तोत्रम् || विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय । कर्पूरकान्तिधवलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ १ ॥ गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय । गङ्गाधराय गजराजविमर्दनाय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ २ ॥ भक्तिप्रियाय भवरोगभयापहाय उग्राय दुःखभवसागरतारणाय । ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्यदुःखदहनाय नमः शिवाय ॥ ३ ॥ चर्माम्बराय शवभस्मविलेपनाय फालेक्षणाय मणिकुण्डलमण्डिताय । मञ्जीरपादयुगलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय ॥…

दशश्लोकी स्तुतिः

|| दशश्लोकी स्तुतिः || साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन सन्तारिताः । साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ १ ॥ विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं यं शम्भुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः । स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत- -स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे…

श्री चन्द्रशेखराष्टकम्

|| श्री चन्द्रशेखराष्टकम् || चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम् । चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम् ॥ १ ॥ रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् । क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ २ ॥ पञ्चपादपपुष्पगन्धपदाम्बुजद्वयशोभितं फाललोचनजातपावक दग्धमन्मथविग्रहम् । भस्मदिग्धकलेबरं भवनाशनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ३ ॥ मत्तवारणमुख्यचर्मकृतोत्तरीय मनोहरं पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहम्…

श्री गङ्गाधर स्तोत्रम्

|| श्री गङ्गाधर स्तोत्रम् || क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निःशङ्कं निजलीलया कबलयन्लोकान्ररक्षादरा- -दार्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १ ॥ क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते । कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान् आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २ ॥ मृत्युं वक्षसि ताडयन्निजपदध्यानैकभक्तं…

उममहेश्वराष्टकम् (सङ्घिल कृतम्)

|| उममहेश्वराष्टकम् (सङ्घिल कृतम्) || पितामहशिरच्छेदप्रवीणकरपल्लव । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ १ ॥ निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ २ ॥ शैलराजस्य जामातः शशिरेखावतंसक । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ३ ॥ शैलराजात्मजे मातः शातकुम्भनिभप्रभे । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ४ ॥ भूतनाथ पुराराते भुजङ्गामृतभूषण । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ५…

उमामहेश्वर स्तोत्रम्

|| उमामहेश्वर स्तोत्रम् || नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् । नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ १ ॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ २ ॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ३ ॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ४ ॥ नमः शिवाभ्यां…

ईशान स्तुतिः

|| ईशान स्तुतिः || व्यास उवाच । प्रजापतीनां प्रथमं तेजसां पुरुषं प्रभुम् । भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥ १ ॥ ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् । तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥ २ ॥ महादेवं महात्मानमीशानं जटिलं शिवम् । त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ॥ ३ ॥ महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् ।…

आर्तिहर स्तोत्रम्

|| आर्तिहर स्तोत्रम् || श्रीशम्भो मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम् । सन्तापमपाकुरु मे मन्ता परमेश तव दयायाः स्याम् ॥ १ ॥ अवसीदामि यदार्तिभिरनुगुणमिदमोकसोऽंहसां खलु मे । तव सन्नवसीदामि यदन्तकशासन न तत्तवानुगुणम् ॥ २ ॥ देव स्मरन्ति तव ये तेषां स्मरतोऽपि नार्तिरिति कीर्तिम् । कलयसि शिव पाहीति क्रन्दन् सीदाम्यहं किमुचितमिदम् ॥ ३ ॥ आदिश्याघकृतौ मामन्तर्यामिन्नसावघात्मेति ।…

अष्टमूर्त्यष्टकम्

|| अष्टमूर्त्यष्टकम् || तुष्टावाष्टतनुं हृष्टः प्रफुल्लनयनाचलः । मौलावञ्जलिमाधाय वदन् जय जयेति च ॥ १ ॥ भार्गव उवाच । त्वं भाभिराभिरभिभूय तमः समस्त- -मस्तं नयस्यभिमतानि निशाचराणाम् । देदीप्यसे दिवमणे गगने हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥ २ ॥ लोकेऽतिवेलमतिवेलमहामहोभि- -र्निर्भासि कौ च गगनेऽखिललोकनेत्र । विद्राविताखिलतमाः सुतमो हिमांशो पीयूषपूर परिपूरित तन्नमस्ते ॥ ३ ॥ त्वं पावने पथि सदागतिरप्युपास्यः…

Join WhatsApp Channel Download App