श्री भद्रकाली कवचम् – २ (जगन्मङ्गलम्)

|| श्री भद्रकाली कवचम् – २ (जगन्मङ्गलम्) || श्रीदेव्युवाच । भगवन् करुणाम्भोधे शास्त्रान् भो निधिपारगः । त्रैलोक्यसारयेत्तत्त्वं जगद्रक्षणकारकः ॥ १ ॥ भद्रकाल्या महादेव्याः कवचं मन्त्रगर्भकम् । जगन्मङ्गलदं नाम वद शम्भो दयानिधे ॥ २ ॥ श्रीभैरव उवाच । भैं भद्रकालीकवचं जगन्मङ्गलनामकम् । गुह्यं सनातनं पुण्यं गोपनीयं विशेषतः ॥ ३ ॥ जगन्मङ्गलनाम्नोऽस्य कवचस्य ऋषिः शिवः । उष्णिक्छन्दः…

श्री गुह्यकाली वज्र कवचम् (विश्वमङ्गलम्)

|| श्री गुह्यकाली वज्र कवचम् (विश्वमङ्गलम्) || अस्य विश्वमङ्गलं नाम श्री गुह्यकाली महावज्रकवचस्य संवर्त ऋषिः अनुष्टुप् छन्दः, एकवक्त्रादि शतवक्त्रान्ता गुह्यकाली देवता, फ्रें बीजं, स्फ्रें शक्तिः, छ्रीं कीलकं सर्वाभीष्टसिद्धि पूर्वक आत्मरक्षणे जपे विनियोगः ॥ ओं फ्रें पातु शिरः सिद्धिकराली कालिका मम । ह्रीं छ्रीं ललाटं मे सिद्धिविकरालि सदाऽवतु ॥ १ ॥ श्रीं क्लीं मुखं चण्डयोगेश्वरी रक्षतु…

श्री काली स्तुतिः (ब्रह्म कृतम्)

|| श्री काली स्तुतिः (ब्रह्म कृतम्) || नमामि कृष्णरूपिणीं कृष्णाङ्गयष्टिधारिणीम् । समग्रतत्त्वसागरं अपारपारगह्वराम् ॥ १ ॥ शिवाप्रभां समुज्ज्वलां स्फुरच्छशाङ्कशेखराम् । ललाटरत्नभास्करां जगत्प्रदीप्तिभास्कराम् ॥ २ ॥ महेन्द्रकश्यपार्चितां सनत्कुमारसंस्तुताम् । सुरासुरेन्द्रवन्दितां यथार्थनिर्मलाद्भुताम् ॥ ३ ॥ अतर्क्यरोचिरूर्जितां विकारदोषवर्जिताम् । मुमुक्षुभिर्विचिन्तितां विशेषतत्त्वसूचिताम् ॥ ४ ॥ मृतास्थिनिर्मितस्रजां मृगेन्द्रवाहनाग्रजाम् । सुशुद्धतत्त्वतोषणां त्रिवेदपारभूषणाम् ॥ ५ ॥ भुजङ्गहारहारिणीं कपालखण्डधारिणीम् । सुधार्मिकौपकारिणीं सुरेन्द्रवैरिघातिनीम् ॥…

श्री दक्षिणकालिका हृदय स्तोत्रम् २

|| श्री दक्षिणकालिका हृदय स्तोत्रम् २ || अस्य श्री दक्षिणकालिकाम्बा हृदयस्तोत्र महामन्त्रस्य महाकालभैरव ऋषिः उष्णिक् छन्दः ह्रीं बीजं हूं शक्तिः क्रीं कीलकं महाषोढास्वरूपिणी महाकालमहिषी श्री दक्षिणाकालिकाम्बा देवता धर्मार्थकाममोक्षार्थे पाठे विनियोगः । करन्यासः – ओं क्रां अङ्गुष्ठाभ्यां नमः । ओं क्रीं तर्जनीभ्यां नमः । ओं क्रूं मध्यमाभ्यां नमः । ओं क्रैं अनामिकाभ्यां नमः । ओं क्रौं…

श्री दक्षिणकालिका खड्गमाला स्तोत्रम्

|| श्री दक्षिणकालिका खड्गमाला स्तोत्रम् || अस्य श्रीदक्षिणकालिका खड्गमालामन्त्रस्य श्री भगवान् महाकालभैरव ऋषिः उष्णिक् छन्दः शुद्धः ककार त्रिपञ्चभट्‍टारकपीठस्थित महाकालेश्वराङ्कनिलया, महाकालेश्वरी त्रिगुणात्मिका श्रीमद्दक्षिणा कालिका महाभयहारिका देवता क्रीं बीजं ह्रीं शक्तिः हूं कीलकं मम सर्वाभीष्टसिद्ध्यर्थे खड्गमालामन्त्र जपे विनियोगः ॥ ऋष्यादि न्यासः – ओं महाकालभैरव ऋषये नमः शिरसि । उष्णिक् छन्दसे नमः मुखे । दक्षिणकालिका देवतायै नमः हृदि…

श्री भद्रकाली अष्टोत्तरशतनामावली

|| श्री भद्रकाली अष्टोत्तरशतनामावली || ओं भद्रकाल्यै नमः । ओं कामरूपायै नमः । ओं महाविद्यायै नमः । ओं यशस्विन्यै नमः । ओं महाश्रयायै नमः । ओं महाभागायै नमः । ओं दक्षयागविभेदिन्यै नमः । ओं रुद्रकोपसमुद्भूतायै नमः । ओं भद्रायै नमः । ९ ओं मुद्रायै नमः । ओं शिवङ्कर्यै नमः । ओं चन्द्रिकायै नमः । ओं…

श्री दक्षिणकालिका त्रिशती स्तोत्रम्

|| श्री दक्षिणकालिका त्रिशती स्तोत्रम् || अस्य श्रीसर्वमङ्गलविद्याया नाम श्रीदक्षिणकालिका त्रिशतीस्तोत्र महामन्त्रस्य श्रीकालभैरव ऋषिः अनुष्टुप् छन्दः श्रीदक्षिणकालिका देवता ह्रीं बीजं हूं शक्तिः क्रीं कीलकं श्रीदक्षिणकालिका प्रसादसिद्ध्यर्थे जपे विनियोगः । ऋष्यादिन्यासः – श्रीकालभैरवर्षये नमः शिरसि । अनुष्टुप् छन्दसे नमो मुखे । श्रीदक्षिणकालिकायै देवतायै नमो हृदि । ह्रीं बीजाय नमो गुह्ये । हूं शक्तये नमः पादयोः ।…

श्री मातङ्गी कवचम् – ३

|| श्री मातङ्गी कवचम् – ३ || अस्य श्रीमातङ्गी कवचमन्त्रस्य महायोगीश्वरऋषिः अनुष्टुप् छन्दः श्रीमातङ्गीश्वरी देवता श्रीमातङ्गीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ नीलोत्पलप्रतीकाशामञ्जनाद्रिसमप्रभाम् । वीणाहस्तां गानरतां मधुपात्रं च बिभ्रतीम् ॥ १ ॥ सर्वालङ्कारसम्युक्तां श्यामलां मदशालिनीम् । नमामि राजमातङ्गीं भक्तानामिष्टदायिनीम् ॥ २ ॥ एवं ध्यात्वा जपेन्नित्यं कवचं सर्वकामदम् । ओम् । शिखां मे श्यामला पातु मातङ्गी मे शिरोऽवतु ॥…

श्री मातङ्गी स्तोत्रम्

|| श्री मातङ्गी स्तोत्रम् || नमामि वरदां देवीं सुमुखीं सर्वसिद्धिदाम् । सूर्यकोटिनिभां देवीं वह्निरूपां व्यवस्थिताम् ॥ १ ॥ रक्तवस्त्र नितम्बां च रक्तमाल्योपशोभिताम् । गुञ्जाहारस्तनाढ्यान्तां परं ज्योति स्वरूपिणीम् ॥ २ ॥ मारणं मोहनं वश्यं स्तम्भनाकर्षदायिनी । मुण्डकर्त्रिं शरावामां परं ज्योति स्वरूपिणीम् ॥ ३ ॥ स्वयम्भुकुसुमप्रीतां ऋतुयोनिनिवासिनीम् । शवस्थां स्मेरवदनां परं ज्योति स्वरूपिणीम् ॥ ४ ॥ रजस्वला…

मातङ्गी स्तोत्रम् (देवी षट्कम्)

|| मातङ्गी स्तोत्रम् (देवी षट्कम्) || अम्ब शशिबिम्बवदने कम्बुग्रीवे कठोरकुचकुम्भे । अम्बरसमानमध्ये शम्बररिपुवैरिदेवि मां पाहि ॥ १ ॥ कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्तकुचभाराम् । आनीलनीलदेहामम्बामखिलाण्डनायकीं वन्दे ॥ २ ॥ सरिगमपधनिरतान्तां वीणासङ्क्रान्तचारुहस्तां ताम् । शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ३ ॥ अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् । वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ ४ ॥ वीणारसानुषङ्गं विकचमदामोदमाधुरीभृङ्गम् । करुणापूरितरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ५…

श्री मातंगी स्तुति

|| श्री मातङ्गी स्तुतिः || मातङ्गि मातरीशे मधुमदमथनाराधिते महामाये । मोहिनि मोहप्रमथिनि मन्मथमथनप्रिये नमस्तेऽस्तु ॥ १ ॥ स्तुतिषु तव देवि विधिरपि पिहितमतिर्भवति विहितमतिः । तदपि तु भक्तिर्मामपि भवतीं स्तोतुं विलोभयति ॥ २ ॥ यतिजनहृदयनिवासे वासववरदे वराङ्गि मातङ्गि । वीणावादविनोदिनि नारदगीते नमो देवि ॥ ३ ॥ देवि प्रसीद सुन्दरि पीनस्तनि कम्बुकण्ठि घनकेशि । मातङ्गि विद्रुमौष्ठि स्मितमुग्धाक्ष्यम्ब…

विश्वनाथनगरी स्तवम् (काश्यष्टकम्)

|| विश्वनाथनगरी स्तवम् (काश्यष्टकम्) || स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा । ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ १ ॥ यत्र देहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितम् । पूर्वपुण्य निचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ २ ॥ सर्वदाऽमरगणैश्चवन्दिता या गजेन्द्रमुखवारितविघ्ना । कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ ३ ॥ यत्र तीर्थममला मणिकर्णिका या सदाशिव सुखप्रदायिनी । या शिवेन रचिता निजायुधैः विश्वनाथनगरी गरीयसी ॥…

सप्त चिरञ्जीवि स्तोत्रम्

|| सप्त चिरञ्जीवि स्तोत्रम् || अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरञ्जीविनः ॥ सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद्वर्षशतं प्राज्ञः अपमृत्युविवर्जितः ॥

श्री गोदावरी अष्टकम्

|| श्री गोदावरी अष्टकम् || वासुदेवमहेशात्म-कृष्णवेणीधुनीस्वसा । स्वसाराद्या जनोद्धर्त्री पुत्री सह्यस्य गौतमी ॥ १ ॥ सुरर्षिवन्द्या भुवनेनवद्या याद्यात्र नद्याश्रितपापहन्त्री । देवेन या कृत्रिमगोवधोत्थ- दोषापनुत्ये मुनये प्रदत्ता ॥ २ ॥ वार्युत्तमं ये प्रपिबन्ति मर्त्या- यस्याः सकृत्तोऽपि भवन्त्यमर्त्याः । नन्दन्त ऊर्ध्वं च यदाप्लवेन नरा दृढेनेव सवप्लवेन ॥ ३ ॥ दर्शनमात्रेण मुदा गतिदा गोदावरी वरीवर्त्रि । समवर्तिविहायद्रोधासी मुक्तिः…

सूर्यग्रहण शान्ति श्लोकाः

|| सूर्यग्रहण शान्ति श्लोकाः || शान्ति श्लोकाः – इन्द्रोऽनलो दण्डधरश्च रक्षः प्राचेतसो वायु कुबेर शर्वाः । मज्जन्म ऋक्षे मम राशि संस्थे सूर्योपरागं शमयन्तु सर्वे ॥ ग्रहण पीडा परिहार श्लोकाः – योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः । सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ १ मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः । चन्द्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥ २ यः कर्मसाक्षी…

ब्रह्म स्तोत्रम् (देव कृतम्)

|| ब्रह्म स्तोत्रम् (देव कृतम्) || देवा ऊचुः । ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधि विधायिने । ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः ॥ १ ॥ कष्टसंसारमग्नानां संसारोत्तारहेतवे । साक्षिणे सर्वभूतानां साक्षिहीनाय ते नमः ॥ २ ॥ सर्वधात्रे विधात्रे च सर्वद्वन्द्वापहारिणे । सर्वावस्थासु सर्वेषां साक्षिणे वै नमो नमः ॥ ३ ॥ परात्परविहीनाय पराय परमेष्ठिने । परिज्ञानवतामात्तस्वरूपाय नमो नमः ॥ ४ ॥…

अग्नि स्तोत्रम्

 || अग्नि स्तोत्रम् || शान्तिरुवाच । ओं नमः सर्वभूतानां साधनाय महात्मने । एकद्विपञ्चधिष्ट्याय राजसूये षडात्मने ॥ १ ॥ नमः समस्तदेवानां वृत्तिदाय सुवर्चसे । शुक्ररूपाय जगतामशेषाणां स्थितिप्रदः ॥ २ ॥ त्वं मुखं सर्वदेवानां त्वयात्तुं भगवन्हविः । प्रीणयत्यखिलान् देवान् त्वत्प्राणाः सर्वदेवताः ॥ ३ ॥ हुतं हविस्त्वय्यमलमेधत्वमुपगच्छति । ततश्च जलरूपेण परिणाममुपैति यत् ॥ ४ ॥ तेनाखिलौषधीजन्म भवत्यनिलसारथे ।…

तुङ्गभद्रा स्तुतिः

|| तुङ्गभद्रा स्तुतिः || श्रीविभाण्डक उवाच । वराहदेहसम्भूते गिरिजे पापभञ्जिनि । दर्शनान्मुक्तिदे देवि महापातकिनामपि ॥ १ ॥ वाग्देवी त्वं महालक्ष्मीः गिरिजासि शची तथा । प्रभा सूर्यस्य देवेशि मरीचिस्त्वं कलानिधेः ॥ २ ॥ पर्जन्यस्य यथा विद्युद्विष्णोर्माया त्वमेव हि । तृणगुल्मलतावृक्षाः सिद्धा देवा उदीरिताः ॥ ३ ॥ दृष्टा स्पृष्टा तथा पीता वन्दिता चावगाहिता । मुक्तिदे पापिनां देवि…

अश्विनी देवता स्तोत्रम्

|| अश्विनी देवता स्तोत्रम् || प्रपूर्वगौ पूर्वजौ चित्रभानू गिरावाशंसामि तपसा ह्यनन्तौ। दिव्यौ सुपर्णौ विरजौ विमाना- -वधिक्षिपन्तौ भुवनानि विश्वा ॥ १ हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुनसौ वैजयन्तौ। शुक्लं वयन्तौ तरसा सुवेमा- -वधिष्ययन्तावसितं विवस्वतः ॥ २ ग्रस्तां सुपर्णस्य बलेन वर्तिका- -ममुञ्चतामश्विनौ सौभगाय। तावत् सुवृत्तावनमन्त मायया वसत्तमा गा अरुणा उदावहन् ॥ ३ षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते…

त्रिवेणी स्तोत्रम्

|| त्रिवेणी स्तोत्रम् || मुक्तामयालङ्कृतमुद्रवेणी भक्ताभयत्राणसुबद्धवेणी । मत्तालिगुञ्जन्मकरन्दवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ १ ॥ लोकत्रयैश्वर्यनिदानवेणी तापत्रयोच्चाटनबद्धवेणी । धर्मार्थकामाकलनैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ २ ॥ मुक्ताङ्गनामोहनसिद्धवेणी भक्तान्तरानन्दसुबोधवेणी । वृत्त्यन्तरोद्वेगविवेकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ३ ॥ दुग्धोदधिस्फूर्जसुभद्रवेणी नीलाभ्रशोभाललिता च वेणी । स्वर्णप्रभाभासुरमध्यवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ४ ॥ विश्वेश्वरोत्तुङ्गकपर्दिवेणी विरिञ्चिविष्णुप्रणतैकवेणी । त्रयीपुराणा सुरसार्धवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥…

कार्तवीर्यार्जुन स्तोत्रम्

|| कार्तवीर्यार्जुन स्तोत्रम् || स्मरण – अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः ॥ पञ्चाशीतिसहस्राणि ह्यव्याहतबलः समाः । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ ध्यानम् – सहस्रबाहुं महितं सशरं सचापं रक्ताम्बरं विविध रक्तकिरीटभूषम् । चोरादिदुष्टभयनाशनमिष्टदं तं ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥ मन्त्रं – ओं कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य संस्मरणादेव हृतं…

कुण्डलिनी स्तोत्रम्

|| कुण्डलिनी स्तोत्रम् || नमस्ते देवदेवेशि योगीशप्राणवल्लभे । सिद्धिदे वरदे मातः स्वयम्भूलिङ्गवेष्टिते ॥ १ ॥ प्रसुप्त भुजगाकारे सर्वदा कारणप्रिये । कामकलान्विते देवि ममाभीष्टं कुरुष्व च ॥ २ ॥ असारे घोरसंसारे भवरोगात् कुलेश्वरी । सर्वदा रक्ष मां देवि जन्मसंसारसागरात् ॥ ३ ॥ इति कुण्डलिनि स्तोत्रं ध्यात्वा यः प्रपठेत् सुधीः । मुच्यते सर्व पापेभ्यो भवसंसाररूपके ॥ ४…

एकदंत गणेश स्तोत्रम्

|| एकदंत गणेश स्तोत्रम् || श्रीगणेशाय नमः । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥ प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २॥ देवर्षय ऊचुः सदात्मरूपं सकलादि- भूतममायिनं सोऽहमचिन्त्यबोधम् । अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं…

श्री कुबेर स्तोत्रम्

|| श्री कुबेर स्तोत्रम् || कुबेरो धनद श्रीदः राजराजो धनेश्वरः । धनलक्ष्मीप्रियतमो धनाढ्यो धनिकप्रियः ॥ १ ॥ दाक्षिण्यो धर्मनिरतः दयावन्तो धृढव्रतः । दिव्य लक्षण सम्पन्नो दीनार्ति जनरक्षकः ॥ २ ॥ धान्यलक्ष्मी समाराध्यो धैर्यलक्ष्मी विराजितः । दयारूपो धर्मबुद्धिः धर्म संरक्षणोत्सकः ॥ ३ ॥ निधीश्वरो निरालम्बो निधीनां परिपालकः । नियन्ता निर्गुणाकारः निष्कामो निरुपद्रवः ॥ ४ ॥ नवनाग…

श्री तुलस्यष्टोत्तरशतनाम स्तोत्रम्

|| श्री तुलस्यष्टोत्तरशतनाम स्तोत्रम् || तुलसी पावनी पूज्या बृन्दावननिवासिनी । ज्ञानदात्री ज्ञानमयी निर्मला सर्वपूजिता ॥ १ ॥ सती पतिव्रता बृन्दा क्षीराब्धिमथनोद्भवा । कृष्णवर्णा रोगहन्त्री त्रिवर्णा सर्वकामदा ॥ २ ॥ लक्ष्मीसखी नित्यशुद्धा सुदती भूमिपावनी । हरिद्रान्नैकनिरता हरिपादकृतालया ॥ ३ ॥ पवित्ररूपिणी धन्या सुगन्धिन्यमृतोद्भवा । सुरूपारोग्यदा तुष्टा शक्तित्रितयरूपिणी ॥ ४ ॥ देवी देवर्षिसंस्तुत्या कान्ता विष्णुमनःप्रिया । भूतवेतालभीतिघ्नी…

श्री नृसिंह स्तोत्रम् – ५ (श्रीवासुदेवानन्द सरस्वति कृतम्)

|| श्री नृसिंह स्तोत्रम् – ५ (श्रीवासुदेवानन्द सरस्वति कृतम्) || जय जय भयहारिन् भक्तचित्ताब्जचारिन् जय जय नयचारिन् दृप्तमत्तारिमारिन् । जय जय जयशालिन् पाहि नः शूरसिंह जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ १ ॥ असुरसमरधीरस्त्वं महात्मासि जिष्णो अमरविसरवीरस्त्वं परात्मासि विष्णो । सदयहृदय गोप्ता त्वन्न चान्यो विमोह जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ २ ॥…

श्री नृसिंह स्तोत्रम् – ४ (ब्रह्म कृतम्)

|| श्री नृसिंह स्तोत्रम् – ४ (ब्रह्म कृतम्) || ब्रह्मोवाच । भवानक्षरमव्यक्तमचिन्त्यं गुह्यमुत्तमम् । कूटस्थमकृतं कर्तृ सनातनमनामयम् ॥ १ ॥ साङ्ख्ययोगे च या बुद्धिस्तत्त्वार्थपरिनिष्ठिता । तां भवान् वेदविद्यात्मा पुरुषः शाश्वतो ध्रुवः ॥ २ ॥ त्वं व्यक्तश्च तथाऽव्यक्तस्त्वत्तः सर्वमिदं जगत् । भवन्मया वयं देव भवानात्मा भवान् प्रभुः ॥ ३ ॥ चतुर्विभक्तमूर्तिस्त्वं सर्वलोकविभुर्गुरुः । चतुर्युगसहस्रेण सर्वलोकान्तकान्तकः ॥…

गणेश कवचम्

|| गणेश कवचम् || एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ 1 ॥ दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः । अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि ॥ 2 ॥ ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुं तुर्ये तु…

श्री लक्ष्मीनृसिंह दर्शन स्तोत्रम्

|| श्री लक्ष्मीनृसिंह दर्शन स्तोत्रम् || रुद्र उवाच । अथ देवगणाः सर्वे ऋषयश्च तपोधनाः । ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः ॥ १ ॥ ते प्रसादयितुं भीता ज्वलन्तं सर्वतोमुखम् । मातरं जगतां धात्रीं चिन्तयामासुरीश्वरीम् ॥ २ ॥ हिरण्यवर्णां हरिणीं सर्वोपद्रवनाशिनीम् । विष्णोर्नित्यानवद्याङ्गीं ध्यात्वा नारायणप्रियाम् ॥ ३ ॥ देवीसूक्तं जपैर्भक्त्या नमश्चक्रुः सनातनीम् । तैश्चिन्त्यमाना सा देवी तत्रैवाविरभूत्तदा…

श्री मट्टपल्लि नृसिंहाष्टकम् (पुत्रप्राप्तिकरम्)

|| श्री मट्टपल्लि नृसिंहाष्टकम् (पुत्रप्राप्तिकरम्) || प्रह्लादवरदं श्रेष्ठं राज्यलक्ष्म्या समन्वितम् । पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ १ ॥ भरद्वाज हृदयान्ते वासिनं वासवानुजम् । पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ २ ॥ सुश्रोण्या पूजितं नित्यं सर्वकामदुघं हरिम् । पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ३ ॥ महायज्ञस्वरूपं तं गुहायां नित्यवासिनम् । पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं…

श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम्

|| श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् || मट्टपल्लिनिवासाय मधुरानन्दरूपिणे । महायज्ञस्वरूपाय श्रीनृसिंहाय मङ्गलम् ॥ १ ॥ कृष्णवेणीतटस्थाय सर्वाभीष्टप्रदायिने । प्रह्लादप्रियरूपाय श्रीनृसिंहाय मङ्गलम् ॥ २ ॥ कर्तस्थिताय धीराय गम्भीराय महात्मने । सर्वारिष्टविनाशाय श्रीनृसिंहाय मङ्गलम् ॥ ३ ॥ ऋग्यजुः सामरूपाय मन्त्रारूढाय धीमते । श्रितानां कल्पवृक्षाय श्रीनृसिंहाय मङ्गलम् ॥ ४ ॥ गुहाशयाय गुह्याय गुह्यविद्यास्वरूपिणे । गुहरान्ते विहाराय श्रीनृसिंहाय मङ्गलम्…

श्री नरहर्यष्टकम्

|| श्री नरहर्यष्टकम् || यद्धितं तव भक्तानामस्माकं नृहरे हरे । तदाशु कार्यं कार्यज्ञ प्रलयार्कायुतप्रभ ॥ १ ॥ रटत्सटोग्र भ्रुकुटीकठोरकुटिलेक्षण । नृपञ्चास्य ज्वलज्ज्वालोज्ज्वलास्यारीन् हरे हर ॥ २ ॥ उन्नद्धकर्णविन्यास विवृतानन भीषण । गतदूषण मे शत्रून् हरे नरहरे हर ॥ ३ ॥ हरे शिखिशिखोद्भास्वदुरः क्रूरनखोत्कर । अरीन् संहर दंष्ट्रोग्रस्फुरज्जिह्व नृसिंह मे ॥ ४ ॥ जठरस्थ जगज्जाल करकोट्युद्यतायुध…

श्री नृसिंह संस्तुतिः

|| श्री नृसिंह संस्तुतिः || भैरवाडम्बरं बाहुदंष्ट्रायुधं चण्डकोपं महाज्वालमेकं प्रभुम् । शङ्खचक्राब्जहस्तं स्मरात्सुन्दरं ह्युग्रमत्युष्णकान्तिं भजेऽहं मुहुः ॥ १ ॥ दिव्यसिंहं महाबाहुशौर्यान्वितं रक्तनेत्रं महादेवमाशाम्बरम् । रौद्रमव्यक्तरूपं च दैत्याम्बरं वीरमादित्यभासं भजेऽहं मुहुः ॥ २ ॥ मन्दहासं महेन्द्रेन्द्रमादिस्तुतं हर्षदं श्मश्रुवन्तं स्थिरज्ञप्तिकम् । विश्वपालैर्विवन्द्यं वरेण्याग्रजं नाशिताशेषदुःखं भजेऽहं मुहुः ॥ ३ ॥ सव्यजूटं सुरेशं वनेशायिनं घोरमर्कप्रतापं महाभद्रकम् । दुर्निरीक्ष्यं सहस्राक्षमुग्रप्रभं…

कामासिकाष्टकम्

|| कामासिकाष्टकम् || श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् । कामादधिवसन् जीयात् कश्चिदद्भुत केसरी ॥ १ ॥ तपनेन्द्वग्निनयनः तापानपचिनोतु नः । तापनीयरहस्यानां सारः कामासिका हरिः ॥ २ ॥ आकण्ठमादिपुरुषं कण्ठीरवमुपरि कुण्ठितारातिम् । वेगोपकण्ठसङ्गात् विमुक्तवैकुण्ठबहुमतिमुपासे ॥ ३ ॥ बन्धुमखिलस्य जन्तोः बन्धुरपर्यङ्कबन्धरमणीयम् । विषमविलोचनमीडे वेगवतीपुलिनकेलिनरसिंहम् ॥ ४ ॥ स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेन्द्रियः पर्यङ्कस्थिरधारणा प्रकटितप्रत्यङ्मुखावस्थितिः । प्रायेण प्रणिपेदुषः प्रभुरसौ योगं…

श्री नृसिंह पञ्चामृत स्तोत्रम् (श्रीराम कृतम्)

|| श्री नृसिंह पञ्चामृत स्तोत्रम् (श्रीराम कृतम्) || अहोबिलं नारसिंहं गत्वा रामः प्रतापवान् । नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥ गोविन्द केशव जनार्दन वासुदेव विश्वेश विश्व मधुसूदन विश्वरूप । श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमो नमस्ते ॥ २ ॥ देवाः समस्ताः खलु योगिमुख्याः गन्धर्व विद्याधर किन्नराश्च । यत्पादमूलं सततं नमन्ति तं नारसिंहं शरणं गतोऽस्मि…

श्री नृसिंह मृत्युञ्जय स्तोत्रम्

|| श्री नृसिंह मृत्युञ्जय स्तोत्रम् || मार्कण्डेय उवाच । नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ १ ॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ २ ॥ वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ३ ॥ शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि…

श्री नृसिंह द्वात्रिंशद्बीजमाला स्तोत्रम्

|| श्री नृसिंह द्वात्रिंशद्बीजमाला स्तोत्रम् || उद्गीताढ्यं महाभीमं त्रिनेत्रं चोग्रविग्रहम् । उज्ज्वलं तं श्रियाजुष्टं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १ ॥ ग्रन्थान्त वेद्यं देवेशं गगनाश्रय विग्रहम् । गर्जनात्रस्त विश्वाण्डं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २ ॥ वीथिहोत्रेक्षणं वीरं विपक्षक्षयदीक्षितम् । विश्वम्बरं विरूपाक्षं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३ ॥ रङ्गनाथं दयानाथं दीनबन्धुं…

श्री लक्ष्मीनृसिंहाष्टकम्

|| श्री लक्ष्मीनृसिंहाष्टकम् || यं ध्यायसे स क्व तवास्ति देव इत्युक्त ऊचे पितरं सशस्त्रम् । प्रह्लाद आस्तेखिलगो हरिः स लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ १ ॥ तदा पदाताडयदादिदैत्यः स्तम्भं ततोऽह्नाय घुरूरुशब्दम् । चकार यो लोकभयङ्करं स लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ २ ॥ स्तम्भं विनिर्भिद्य विनिर्गतो यो भयङ्कराकार उदस्तमेघः । जटानिपातैः स च तुङ्गकर्णो लक्ष्मीनृसिंहोऽवतु मां समन्तात्…

श्री नृसिंह कवचम् (त्रैलोक्यविजयम्)

|| श्री नृसिंह कवचम् (त्रैलोक्यविजयम्) || नारद उवाच । इन्द्रादिदेववृन्देश ईड्येश्वर जगत्पते । महाविष्णोर्नृसिंहस्य कवचं ब्रूहि मे प्रभो । यस्य प्रपठनाद्विद्वांस्त्रैलोक्यविजयी भवेत् ॥ १ ॥ ब्रह्मोवाच । शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोधन । कवचं नरसिंहस्य त्रैलोक्यविजयी भवेत् ॥ २ ॥ स्रष्टाऽहं जगतां वत्स पठनाद्धारणाद्यतः । लक्ष्मीर्जगत्त्रयं पाति संहर्ता च महेश्वरः ॥ ३ ॥ पठनाद्धारणाद्देवा बहवश्च…

श्री नृसिंह स्तुतिः (नारायणपण्डित कृतम्)

|| श्री नृसिंह स्तुतिः (नारायणपण्डित कृतम्) || उदयरविसहस्रद्योतितं रूक्षवीक्षं प्रलय जलधिनादं कल्पकृद्वह्निवक्त्रम् । सुरपतिरिपुवक्षश्छेद रक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि ॥ प्रलयरविकरालाकाररुक्चक्रवालं विरलयदुरुरोचीरोचिताशान्तराल । प्रतिभयतमकोपात्युत्कटोच्चाट्‍टहासिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ १ ॥ सरसरभसपादापातभाराभिराव प्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्वम् । रिपुरुधिरनिषेकेणैव शोणाङ्घ्रिशालिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ २ ॥ तव घनघनघोषो घोरमाघ्राय जङ्घा- -परिघमलघुमूरुव्याजतेजोगिरिं च । घनविघटितमागाद्दैत्यजङ्घालसङ्घो दह दह नरसिंहासह्यवीर्याहितं मे…

श्री नृसिंह नख स्तुतिः

|| श्री नृसिंह नख स्तुतिः || श्री नृसिंह नखस्तुतिः पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा- -कुम्भोच्चाद्रिविपाटनाधिकपटु प्रत्येक वज्रायिताः । श्रीमत्कण्ठीरवास्यप्रततसुनखरा दारितारातिदूर- -प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता भूरिभागैः ॥ १ ॥ लक्ष्मीकान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोपास्तं रसो योऽष्टमः । यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्नि स्फुरत् खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिता श्री नरसिंह नखस्तुतिः

श्री नृसिंह स्तुतिः (प्रह्लाद कृतम्) 2

|| श्री नृसिंह स्तुतिः (प्रह्लाद कृतम्) 2 || भगवत् स्तुतिः (प्रह्लाद कृतं) प्रह्लाद उवाच । नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन् नमस्ते तिग्मचक्रिणे ॥ १ ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ २ ॥ ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ ३ ॥ देवा…

श्री नृसिंह स्तुतिः 2

|| श्री नृसिंह स्तुतिः 2 || सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये । नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥ १ ॥ शत्रोः प्राणानिलाः पञ्च वयं दश जयोऽत्र कः । इति कोपादिवाताम्राः पान्तु वो नृहरेर्नखाः ॥ २ ॥ प्रोज्ज्वलज्ज्वलनज्वालाविकटोरुसटाच्छटः । श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी ॥ ३ ॥ व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ ४ ॥ दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र- -रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः ।…

श्री नृसिंह नमस्कार स्तोत्रम्

|| श्री नृसिंह नमस्कार स्तोत्रम् || वज्रकाय सुरश्रेष्ठ चक्राभयकर प्रभो । वरेण्य श्रीप्रद श्रीमन् नरसिंह नमोऽस्तु ते ॥ १ ॥ कलात्मन् कमलाकान्त कोटिसूर्यसमच्छवे । रक्तजिह्व विशालाक्ष तीक्ष्णदंष्ट्र नमोऽस्तु ते ॥ २ ॥ दीप्तरूप महाज्वाल प्रह्लादवरदायक । ऊर्ध्वकेश द्विजप्रेष्ठ शत्रुञ्जय नमोऽस्तु ते ॥ ३ ॥ विकट व्याप्तभूलोक निजभक्तसुरक्षक । मन्त्रमूर्ते सदाचारिविप्रपूज्य नमोऽस्तु ते ॥ ४ ॥…

श्री दत्तात्रेय हृदयम् २

|| श्री दत्तात्रेय हृदयम् २ || अस्य श्रीदत्तात्रेय हृदयराज महामन्त्रस्य कालाकर्षण ऋषिः जगतीच्छन्दः श्रीदत्तात्रेयो देवता आं बीजं ह्रीं शक्तिः क्रों कीलकं श्रीदत्तात्रेय प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ द्रामित्यादि षडङ्गन्यासः ॥ नमो नमः श्रीमुनिवन्दिताय नमो नमः श्रीगुरुरूपकाय । नमो नमः श्रीभवहरणाय नमो नमः श्रीमनुतल्पकाय ॥ १ ॥ विश्वेश्वरो नीलकण्ठो महादेवो महेश्वरः हरिः कृष्णो वासुदेवो माधवो मधुसूदनः ।…

दकारादि श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम्

|| दकारादि श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् || दत्तं वन्दे दशातीतं दयाब्धि दहनं दमम् । दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥ १ ॥ दातारं दारुणं दान्तं दास्यादं दानतोषणम् । दानं दानप्रियं दावं दासत्रं दारवर्जितम् ॥ २ ॥ दिक्पं दिवसपं दिक्स्थं दिव्ययोगं दिगम्बरम् । दिव्यं दिष्टं दिनं दिश्यं दिव्याङ्गं दितिजार्चितम् ॥ ३ ॥ दीनपं दीधितिं दीप्तं दीर्घं…

दकारादि श्री दत्त सहस्रनाम स्तोत्रम्

|| दकारादि श्री दत्त सहस्रनाम स्तोत्रम् || ओं दत्तात्रेयो दयापूर्णो दत्तो दत्तकधर्मकृत् । दत्ताभयो दत्तधैर्यो दत्तारामो दरार्दनः ॥ १ ॥ दवो दवघ्नो दकदो दकपो दकदाधिपः । दकवासी दकधरो दकशायी दकप्रियः ॥ २ ॥ दत्तात्मा दत्तसर्वस्वो दत्तभद्रो दयाघनः । दर्पको दर्पकरुचिर्दर्पकातिशयाकृतिः ॥ ३ ॥ दर्पकी दर्पककलाभिज्ञो दर्पकपूजितः । दर्पकोनो दर्पकोक्षवेगहृद्दर्पकार्दनः ॥ ४ ॥ दर्पकाक्षीड् दर्पकाक्षीपूजितो दर्पकाधिभूः…

श्री दत्तात्रेय पञ्जर स्तोत्रम्

|| श्री दत्तात्रेय पञ्जर स्तोत्रम् || अस्य श्रीदत्तात्रेय पञ्जर महामन्त्रस्य शबररूप महारुद्र ऋषिः, अनुष्टुप्छन्दः, श्रीदत्तात्रेयो देवता, आं बीजं, ह्रीं शक्तिः, क्रों कीलकं, श्रीदत्तात्रेय प्रसादसिद्ध्यर्थे जपे विनियोगः । द्रामित्यादि न्यासः कुर्यात् ॥ ध्यानम् – व्याख्यामुद्रां करसरसिजे दक्षिणेसन्दधानो जानुन्यस्तापरकरसरोजात्तवेत्रोन्नतांसः । ध्यानात् सुखपरवशादर्धमामीलिताक्षो दत्तात्रेयो भसित धवलः पातु नः कृत्तिवासाः ॥ अथ मन्त्रः – ओं नमो भगवते दत्तात्रेयाय, महागम्भीराय,…

Join WhatsApp Channel Download App