श्री महालक्ष्मी चतुर्विंशतिनाम स्तोत्रम्

|| श्री महालक्ष्मी चतुर्विंशतिनाम स्तोत्रम् || देवा ऊचुः । नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमो नमः । नमस्ते पद्मनेत्रायै पद्ममुख्यै नमो नमः ॥ १ ॥ प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः । नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः ॥ २ ॥ विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमो नमः । पक्वबिल्वफलापीनतुङ्गस्तन्यै नमो नमः ॥ ३ ॥ सुरक्तपद्मपत्राभकरपादतले शुभे । सुरत्नाङ्गदकेयूरकाञ्चीनूपुरशोभिते । यक्षकर्दमसंलिप्तसर्वाङ्गे कटकोज्ज्वले…

श्री महालक्ष्मी सहस्रनाम स्तोत्रम्

|| श्री महालक्ष्मी सहस्रनाम स्तोत्रम् || अस्य श्रीमहालक्ष्मी सहस्रनामस्तोत्र महामन्त्रस्य श्रीमहाविष्णुर्भगवान् ऋषिः अनुष्टुप्छन्दः श्रीमहालक्ष्मीर्देवता श्रीं बीजं ह्रीं शक्तिः ह्रैं कीलकं श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ध्यानम् – पद्मानने पद्मकरे सर्वलोकैकपूजिते । सान्निध्यं कुरु मे चित्ते विष्णुवक्षःस्थलस्थिते ॥ १ ॥ भगवद्दक्षिणे पार्श्वे श्रियं देवीमवस्थिताम् । ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥ २ ॥ चारुस्मितां चारुदतीं चारुनेत्राननभ्रुवम् । सुकपोलां…

श्री लक्ष्मी अष्टोत्तरशतनाम स्तोत्रम् २

|| श्री लक्ष्मी अष्टोत्तरशतनाम स्तोत्रम् २ || श्रीर्लक्ष्मी कमला देवी मा पद्मा कमलालया । पद्मेस्थिता पद्मवर्णा पद्मिनी मणिपङ्कजा ॥ १ पद्मप्रिया नित्यपुष्टा ह्युदारा पद्ममालिनी । हिरण्यवर्णा हरिणी ह्यर्घ्या चन्द्रा हिरण्मयी ॥ २ आदित्यवर्णाऽश्वपूर्वा हस्तिनादप्रबोधिनी । रथमध्या देवजुष्टा सुवर्णरजतस्रजा ॥ ३ गन्धध्वारा दुराधर्षा तर्पयन्ती करीषिणी । पिङ्गला सर्वभूतानां ईश्वरी हेममालिनी ॥ ४ कांसोस्मिता पुष्करिणी ज्वलन्त्यनपगामिनी ।…

श्री लक्ष्मी स्तोत्रम् (लोपामुद्रा कृतम्)

|| श्री लक्ष्मी स्तोत्रम् (लोपामुद्रा कृतम्) || मातर्नमामि कमले पद्माऽऽयतसुलोचने । श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु ते ॥ १ ॥ क्षीरसागरसत्पुत्रि पद्मगर्भाभसुन्दरि । लक्ष्मि प्रसीद सततं विश्वमातर्नमोऽस्तु ते ॥ २ ॥ महेन्द्रसदने त्वं श्रीः रुक्मिणी कृष्णभामिनी । चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्वमातर्नमोऽस्तु ते ॥ ३ ॥ स्मितानने जगद्धात्रि शरण्ये सुखवर्धिनि । जातवेदसि दहने विश्वमातर्नमोऽस्तु ते ॥ ४ ॥…

श्री लक्ष्मी स्तोत्रम् (त्रैलोक्य मङ्गलम्)

|| श्री लक्ष्मी स्तोत्रम् (त्रैलोक्य मङ्गलम्) || नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे । नमो भक्तिप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १ ॥ नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे । सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २ ॥ महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये । वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तु ते ॥ ३ ॥ उद्यद्भानुसहस्राभे नयनत्रयभूषिते । रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तु ते…

श्री दीपलक्ष्मी स्तोत्रम्

|| श्री दीपलक्ष्मी स्तोत्रम् || दीपस्त्वमेव जगतां दयिता रुचिस्ते दीर्घं तमः प्रतिनिवृत्यमितं युवाभ्याम् । स्तव्यं स्तवप्रियमतः शरणोक्तिवश्यं स्तोतुं भवन्तमभिलष्यति जन्तुरेषः ॥ १ ॥ दीपः पापहरो नॄणां दीप आपन्निवारकः दीपो विधत्ते सुकृतिं दीपः सम्पत्प्रदायकः । देवानां तुष्टिदो दीपः पितॄणां प्रीतिदायकः दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः ॥ २ ॥ दीपो हरतु मे पापं सन्ध्यादीप नमोऽस्तु ते ॥ ३…

श्री लक्ष्म्यष्टोत्तरशतनाम स्तोत्रम् ३

|| श्री लक्ष्म्यष्टोत्तरशतनाम स्तोत्रम् ३ || ब्रह्मज्ञा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी । सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १ ॥ सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा । संविन्मयी सदाचारा सदातुष्टा सदानता ॥ २ ॥ कौमुदी कुमुदानन्दा कुः कुत्सिततमोहरी । हृदयार्तिहरी हारशोभिनी हानिवारिणी ॥ ३ ॥ सम्भाज्या संविभज्याऽऽज्ञा ज्यायसी जनिहारिणी । महाक्रोधा महातर्षा महर्षिजनसेविता ॥ ४ ॥ कैटभारिप्रिया कीर्तिः कीर्तिता कैतवोज्झिता…

श्री इन्दिराष्टोत्तरशतनाम स्तोत्रम्

|| श्री इन्दिराष्टोत्तरशतनाम स्तोत्रम् || इन्दिरा विष्णुहृदयमन्दिरा पद्मसुन्दरा । नन्दिताऽखिलभक्तश्रीर्नन्दिकेश्वरवन्दिता ॥ १ ॥ केशवप्रियचारित्रा केवलानन्दरूपिणी । केयूरहारमञ्जीरा केतकीपुष्पधारणी ॥ २ ॥ कारुण्यकवितापाङ्गी कामितार्थप्रदायनी । कामधुक्सदृशा शक्तिः कालकर्मविधायिनी ॥ ३ ॥ जितदारिद्र्यसन्दोहा धृतपङ्केरुहद्वयी । कृतविद्ध्यण्डसंरक्षा नतापत्परिहारिणी ॥ ४ ॥ नीलाभ्राङ्गसरोनेत्रा नीलोत्पलसुचन्द्रिका । नीलकण्ठमुखाराध्या नीलाम्बरमुखस्तुता ॥ ५ ॥ सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायिता । समुद्रतनया सर्वसुरकान्तोपसेविता ॥ ६ ॥ भार्गवी भानुमत्यादिभाविता…

श्री धनलक्ष्मी स्तोत्रम्

|| श्री धनलक्ष्मी स्तोत्रम् || श्रीधनदा उवाच । देवी देवमुपागम्य नीलकण्ठं मम प्रियम् । कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥ १ ॥ श्रीदेव्युवाच । ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् । दरिद्रदलनोपायमञ्जसैव धनप्रदम् ॥ २ ॥ श्रीशिव उवाच । पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः । उचितं जगदम्बासि तव भूतानुकम्पया ॥ ३ ॥ स सीतं सानुजं रामं साञ्जनेयं सहानुगम्…

श्री महालक्ष्मी स्तुतिः

|| श्री महालक्ष्मी स्तुतिः || आदिलक्ष्मि नमस्तेऽस्तु परब्रह्मस्वरूपिणि । यशो देहि धनं देहि सर्वकामांश्च देहि मे ॥ १ ॥ सन्तानलक्ष्मि नमस्तेऽस्तु पुत्रपौत्रप्रदायिनि । पुत्रान् देहि धनं देहि सर्वकामांश्च देहि मे ॥ २ ॥ विद्यालक्ष्मि नमस्तेऽस्तु ब्रह्मविद्यास्वरूपिणि । विद्यां देहि कलान् देहि सर्वकामांश्च देहि मे ॥ ३ ॥ धनलक्ष्मि नमस्तेऽस्तु सर्वदारिद्र्यनाशिनि । धनं देहि श्रियं देहि…

श्री महालक्ष्मी कवचम् १

|| श्री महालक्ष्मी कवचम् १ || इन्द्र उवाच । समस्तकवचानां तु तेजस्वि कवचोत्तमम् । आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ १ ॥ श्रीगुरुरुवाच । महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः । चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ २ ॥ ब्रह्मोवाच । शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा । चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ॥ ३ ॥ घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी…

श्री महालक्ष्मी कवचम् २

|| श्री महालक्ष्मी कवचम् २ || शुकं प्रति ब्रह्मोवाच । महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् । सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥ १ ॥ ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् । दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥ २ ॥ पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् । चोरारिहं च जपतामखिलेप्सितदायकम् ॥ ३ ॥ सावधानमना भूत्वा शृणु त्वं शुक सत्तम । अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥ ४ ॥ धनधान्यमहाराज्यसर्वसौभाग्यकल्पकम् । सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥…

श्री पद्मा कवचम्

|| श्री पद्मा कवचम् || नारायण उवाच । शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम् । पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके ॥ १ ॥ सम्प्राप्य कवचं ब्रह्म तत्पद्मे ससृजे जगत् । पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः ॥ २ ॥ पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः । पाद्मेन पद्मकल्पे च कवचं परमाद्भुतम् ॥ ३ ॥ दत्तं सनत्कुमाराय प्रियपुत्राय धीमते ।…

श्री लक्ष्मी द्वादशनाम स्तोत्रम्

|| श्री लक्ष्मी द्वादशनाम स्तोत्रम् || श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा । तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥ पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथा । सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥ नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका । एकादशं तु लक्ष्मीः स्यात् द्वादशं श्रीहरिप्रिया ॥ ३ ॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः…

सङ्कटनाशन गणेश स्तोत्रम् (देव कृतम्)

|| सङ्कटनाशन गणेश स्तोत्रम् (देव कृतम्) || नमो नमस्ते परमार्थरूप नमो नमस्तेऽखिलकारणाय । नमो नमस्तेऽखिलकारकाय सर्वेन्द्रियाणामधिवासिनेऽपि ॥ १ ॥ नमो नमो भूतमयाय तेऽस्तु नमो नमो भूतकृते सुरेश । नमो नमः सर्वधियां प्रबोध नमो नमो विश्वलयोद्भवाय ॥ २ ॥ नमो नमो विश्वभृतेऽखिलेश नमो नमः कारण कारणाय । नमो नमो वेदविदामदृश्य नमो नमः सर्ववरप्रदाय ॥ ३ ॥…

श्री ढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम्

|| श्री ढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् || उमाङ्गोद्भवं दन्तिवक्त्रं गणेशं भुजाकङ्कणैः शोभिनं धूम्रकेतुम् । गले हारमुक्तावलीशोभितं तं नमो ज्ञानरूपं गणेशं नमस्ते ॥ १ ॥ गणेशं वदेत्तं स्मरेत् सर्वकार्ये स्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् । मनश्चिन्तितं कार्यमेवेषु सिद्ध्ये- -न्नमो बुद्धिकान्तं गणेशं नमस्ते ॥ २ ॥ महासुन्दरं वक्त्रचिह्नं विराटं चतुर्धाभुजं चैकदन्तैकवर्णम् । इदं देवरूपं गणं सिद्धिनाथं नमो भालचन्द्रं…

पुष्टिपति स्तोत्रम् (देवर्षि कृतम्)

|| पुष्टिपति स्तोत्रम् (देवर्षि कृतम्) || देवर्षय ऊचुः । जय देव गणाधीश जय विघ्नहराव्यय । जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ १ ॥ जयानन्त गुणाधार जय सिद्धिप्रद प्रभो । जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ २ ॥ जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर । जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ ३ ॥ जय वेदान्तवादज्ञ जय वेदान्तकारण…

श्री गणेश वज्रपञ्जर स्तोत्रम्

|| श्री गणेश वज्रपञ्जर स्तोत्रम् || ध्यानम् । त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचन्द्रम् । नराकारदेहं सदा योगशान्तं गणेशं भजे सर्ववन्द्यं परेशम् ॥ १ ॥ बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः । देहांश्चतुर्विधांस्तत्त्वांस्तत्त्वाधारः सनातनः ॥ २ ॥ देहमोहयुतं ह्येकदन्तः सोऽहं स्वरूपधृक् । देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ ३ ॥ महोदरस्तथा देवो नानाबोधान् प्रतापवान् । सदा…

श्री वरदगणेश अष्टोत्तरशतनाम स्तोत्रम्

|| श्री वरदगणेश अष्टोत्तरशतनाम स्तोत्रम् || गणेशो विघ्नराजश्च विघ्नहर्ता गणाधिपः । लम्बोदरो वक्रतुण्डो विकटो गणनायकः ॥ १ ॥ गजास्यः सिद्धिदाता च खर्वो मूषकवाहनः । मूषको गणराजश्च शैलजानन्ददायकः ॥ २ ॥ गुहाग्रजो महातेजाः कुब्जो भक्तप्रियः प्रभुः । सिन्दूराभो गणाध्यक्षस्त्रिनेत्रो धनदायकः ॥ ३ ॥ वामनः शूर्पकर्णश्च धूम्रः शङ्करनन्दनः । सर्वार्तिनाशको विज्ञः कपिलो मोदकप्रियः ॥ ४ ॥ सङ्कष्टनाशनो…

श्री गणेश मूलमन्त्रपदमाला स्तोत्रम्

|| श्री गणेश मूलमन्त्रपदमाला स्तोत्रम् || ओमित्येतदजस्य कण्ठविवरं भित्वा बहिर्निर्गतं चोमित्येव समस्तकर्म ऋषिभिः प्रारभ्यते मानुषैः । ओमित्येव सदा जपन्ति यतयः स्वात्मैकनिष्ठाः परं चों‍काराकृतिवक्त्रमिन्दुनिटिलं विघ्नेश्वरं भवाये ॥ १ ॥ श्रीं बीजं श्रमदुःखजन्ममरणव्याध्याधिभीनाशकं मृत्युक्रोधनशान्तिबिन्दुविलसद्वर्णाकृति श्रीप्रदम् । स्वान्तस्थात्मशरस्य लक्ष्यमजरस्वात्मावबोधप्रदं श्रीश्रीनायकसेवितेभवदनप्रेमास्पदं भावये ॥ २ ॥ ह्रीं बीजं हृदयत्रिकोणविलसन्मध्यासनस्थं सदा चाकाशानलवामलोचननिशानाथार्धवर्णात्मकम् । मायाकार्यजगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं मायातीतपदप्रदं हृदि भजे लोकेश्वराराधितम् ॥ ३…

श्री गणेश नामाष्टकम्

|| श्री गणेश नामाष्टकम् || श्रीविष्णुरुवाच । गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् । लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥ १ ॥ नामाष्टार्थं च पुत्रस्य शृणु मातर्हरप्रिये । स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ॥ २ ॥ ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः । तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ ३ ॥ एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः । बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम्…

श्री लम्बोदर स्तोत्रम् (क्रोधासुर कृतम्)

|| श्री लम्बोदर स्तोत्रम् (क्रोधासुर कृतम्) || क्रोधासुर उवाच । लम्बोदर नमस्तुभ्यं शान्तियोगस्वरूपिणे । सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १ ॥ असम्प्रज्ञातरूपेयं शुण्डा ते नात्र संशयः । सम्प्रज्ञातमयो देहो देहधारिन्नमो नमः ॥ २ ॥ स्वानन्दे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः । तेन स्वानन्दवासी त्वं नमः सम्योगधारिणे ॥ ३ ॥ समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो । ब्रह्म तद्वन्न सन्देहो…

सन्तान गणपति स्तोत्रम्

|| सन्तान गणपति स्तोत्रम् || नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च । सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ १ ॥ गुरूदराय गुरवे गोप्त्रे गुह्यासिताय ते । गोप्याय गोपिताशेषभुवनाय चिदात्मने ॥ २ ॥ विश्वमूलाय भव्याय विश्वसृष्टिकराय ते । नमो नमस्ते सत्याय सत्यपूर्णाय शुण्डिने ॥ ३ ॥ एकदन्ताय शुद्धाय सुमुखाय नमो नमः । प्रपन्नजनपालाय प्रणतार्तिविनाशिने ॥ ४ ॥ शरणं भव…

शत्रुसंहारक एकदन्त स्तोत्रम्

|| शत्रुसंहारक एकदन्त स्तोत्रम् || देवर्षय ऊचुः । नमस्ते गजवक्त्राय गणेशाय नमो नमः । अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ १ ॥ आदिमध्यान्तहीनाय चराचरमयाय ते । अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २ ॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ ३ ॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः…

मरकत श्री लक्ष्मीगणपति स्तोत्रम्

|| मरकत श्री लक्ष्मीगणपति स्तोत्रम् || वरसिद्धिसुबुद्धिमनोनिलयं निरतप्रतिभाफलदान घनं परमेश्वर मान समोदकरं प्रणमामि निरन्तरविघ्नहरम् ॥ १ ॥ अणिमां महिमां गरिमां लघिमां घनताप्ति सुकामवरेशवशान् निरतप्रदमक्षयमङ्गलदं प्रणमामि निरन्तरविघ्नहरम् ॥ २ ॥ जननीजनकात्मविनोदकरं जनताहृदयान्तरतापहरं जगदभ्युदयाकरमीप्सितदं प्रणमामि निरन्तरविघ्नहरम् ॥ ३ ॥ वरबाल्यसुखेलनभाग्यकरं स्थिरयौवनसौख्यविलासकरं घनवृद्धमनोहरशान्तिकरं प्रणमामि निरन्तरविघ्नहरम् ॥ ४ ॥ निगमागमलौकिकशास्त्रनिधि प्रददानचणं गुणगण्यमणिम् शततीर्थविराजितमूर्तिधरम् प्रणमामि निरन्तरविघ्नहरम् ॥ ५ ॥ अनुरागमयं…

श्री महागणपति मूलमन्त्रः

|| श्री महागणपति मूलमन्त्रः || अस्य श्रीमहागणपति महामन्त्रस्य गणक ऋषिः निचृद्गायत्री छन्दः महागणपतिर्देवता ओं गं बीजं स्वाहा शक्तिः ग्लौं कीलकं महागणपतिप्रीत्यर्थे जपे विनियोगः । करन्यासः – ओं गां अङ्गुष्ठाभ्यां नमः । श्रीं गीं तर्जनीभ्यां नमः । ह्रीं गूं मध्यमाभ्यां नमः । क्लीं गैं अनामिकाभ्यां नमः । ग्लौं गौं कनिष्ठिकाभ्यां नमः । गं गः करतलकरपृष्ठाभ्यां नमः…

श्री गणेश स्तोत्रम् (अग्नि कृतम्)

|| श्री गणेश स्तोत्रम् (अग्नि कृतम्) || अग्निरुवाच । नमस्ते विघ्ननाशाय भक्तानां हितकारक । नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥ १ ॥ नमो मूषकवाहाय गजवक्त्राय धीमते । आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ २ ॥ चतुर्भुजधरायैव चतुर्वर्गप्रदायिने । एकदन्ताय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३ ॥ लम्बोदराय देवाय गजकर्णाय ढुण्ढये । योगशान्तिस्वरूपाय योगशान्तिप्रदायिने ॥ ४ ॥ योगिभ्यो योगदात्रे…

श्री गणपति स्तोत्रम् – ३ (दारिद्र्यदहनम्)

|| श्री गणपति स्तोत्रम् – ३ (दारिद्र्यदहनम्) || सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाऽभयप्रदम् । चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ १ ॥ किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकङ्कणं प्रशोभिताङ्घ्रियष्टिकम् । प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरलहेमनूपुरं प्रशोभिताङ्घ्रिपङ्कजम् ॥ २ ॥ सुवर्णदण्डमण्डितप्रचण्डचारुचामरं गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् । कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं षडक्षरस्वरूपिणं भजेद्गजेन्द्ररूपिणम् ॥ ३ ॥ विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतिं गिरीशदर्शनेच्छया समर्पितं पराशया । निरन्तरं सुरासुरैः सपुत्रवामलोचनैः महामखेष्टमिष्टकर्मसु…

श्री मयूरेश स्तुतिः

|| श्री मयूरेश स्तुतिः || देवर्षय ऊचुः । नमस्ते शिखिवाहाय मयूरध्वजधारिणे । मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥ १ ॥ अनाथानां प्रणाथाय गताहङ्कारिणां पते । मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥ २ ॥ सर्वानन्दप्रदात्रे ते सदा स्वानन्दवासिने । स्वस्वधर्मरतानां च पालकाय नमो नमः ॥ ३ ॥ अनादये परेशाय दैत्यदानवमर्दिने । विधर्मस्थस्वभावानां हर्त्रे विकट ते नमः ॥…

श्री गणनाथ स्तोत्रम्

|| श्री गणनाथ स्तोत्रम् || गर्भ उवाच । नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे । अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ १ ॥ ज्येष्ठराजाय देवाय देवदेवेशमूर्तये । अनादये परेशाय चादिपूज्याय ते नमः ॥ २ ॥ सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः । सर्वादये परब्रह्मन् सर्वेशाय नमो नमः ॥ ३ ॥ गजाकारस्वरूपाय गजाकारमयाय ते । गजमस्तकधाराय गजेशाय नमो नमः…

श्री षिर्डीसायि अष्टोत्तरशतनामावलिः

|| श्री षिर्डीसायि अष्टोत्तरशतनामावलिः || ओं श्री सायिनाथाय नमः । ओं लक्ष्मीनारायणाय नमः । ओं कृष्णरामशिवमारुत्यादिरूपाय नमः । ओं शेषशायिने नमः । ओं गोदावरीतटशिरडीवासिने नमः । ओं भक्तहृदालयाय नमः । ओं सर्वहृन्निलयाय नमः । ओं भूतावासाय नमः । ओं भूतभविष्यद्भाववर्जिताय नमः । ओं कालातीताय नमः ॥ १० ॥ ओं कालाय नमः । ओं कालकालाय नमः…

श्री सायि सकार अष्टोत्तरशतनामावलिः

|| श्री सायि सकार अष्टोत्तरशतनामावलिः || ओं श्रीसायि सद्गुरुवे नमः ओं श्रीसायि साकोरिवासिने नमः ओं श्रीसायि साधननिष्ठाय नमः ओं श्रीसायि सन्मार्गदर्शिने नमः ओं श्रीसायि सकलदेवता स्वरूपाय़ नमः ओं श्रीसायि सुवर्णाय नमः ओं श्रीसायि सम्मोहनाय नमः ओं श्रीसायि समाश्रित निम्बवृक्षाय नमः ओं श्रीसायि समुद्धार्त्रे नमः ओं श्रीसायि सत्पुरुषाय नमः ॥ १० ॥ ओं श्रीसायि सत्परायणाय नमः…

श्री राम स्तुतिः (नारद कृतम्)

|| श्री राम स्तुतिः (नारद कृतम्) || श्रीरामं मुनिविश्रामं जनसद्धामं हृदयारामं सीतारञ्जन सत्यसनातन राजारामं घनश्यामम् । नारीसंस्तुत कालिन्दीनत निद्राप्रार्थित भूपालं रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ १ ॥ नानाराक्षसहन्तारं शरधर्तारं जनताधारं वालीमर्दन सागरबन्धन नानाकौतुककर्तारम् । पौरानन्दद नारीतोषक कस्तूरीयुत सत्फालं रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ २ ॥ श्रीकान्तं जगतीकान्तं स्तुतसद्भक्तं बहुसद्भक्तं…

श्री सीता कवचम्

|| श्री सीता कवचम् || अगस्तिरुवाच । या सीताऽवनिसम्भवाऽथ मिथिलापालेन संवर्धिता पद्माक्षावनिभुक्सुताऽनलगता या मातुलुङ्गोद्भवा । या रत्ने लयमागता जलनिधौ या वेदपारं गता लङ्कां सा मृगलोचना शशिमुखी मां पातु रामप्रिया ॥ १ ॥ अस्य श्रीसीताकवचमन्त्रस्य अगस्तिरृषिः श्रीसीता देवता अनुष्टुप् छन्दः रमेति बीजं जनकजेति शक्तिः अवनिजेति कीलकं पद्माक्षसुतेत्यस्त्रं मातुलुङ्गीति कवचं मूलकासुरघातिनीति मन्त्रः श्रीसीतारामचन्द्रप्रीत्यर्थं सकलकामना सिद्ध्यर्थं च जपे…

श्री जानकी जीवनाष्टकम्

|| श्री जानकी जीवनाष्टकम् || आलोक्य यस्यातिललामलीलां सद्भाग्यभाजौ पितरौ कृतार्थौ । तमर्भकं दर्पणदर्पचौरं श्रीजानकीजीवनमानतोऽस्मि ॥ १ ॥ श्रुत्वैव यो भूपतिमात्तवाचं वनं गतस्तेन न नोदितोऽपि । तं लीलयाह्लादविषादशून्यं श्रीजानकीजीवनमानतोऽस्मि ॥ २ ॥ जटायुषो दीनदशां विलोक्य प्रियावियोगप्रभवं च शोकम् । यो वै विसस्मार तमार्द्रचित्तं श्रीजानकीजीवनमानतोऽस्मि ॥ ३ ॥ यो वालिना ध्वस्तबलं सुकण्ठं न्ययोजयद्राजपदे कपीनाम् । तं स्वीयसन्तापसुतप्तचित्तं…

श्री शत्रुघ्न कवचम्

|| श्री शत्रुघ्न कवचम् || अगस्त्य उवाच । अथ शत्रुघ्नकवचं सुतीक्ष्ण शृणु सादरम् । सर्वकामप्रदं रम्यं रामसद्भक्तिवर्धनम् ॥ १ ॥ शत्रुघ्नं धृतकार्मुकं धृतमहातूणीरबाणोत्तमं पार्श्वे श्रीरघुनन्दनस्य विनयाद्वामेस्थितं सुन्दरम् । रामं स्वीयकरेण तालदलजं धृत्वाऽतिचित्रं वरं सूर्याभं व्यजनं सभास्थितमहं तं वीजयन्तं भजे ॥ २ ॥ अस्य श्रीशत्रुघ्नकवचमन्त्रस्य अगस्तिरृषिः श्रीशत्रुघ्नो देवता अनुष्टुप् छन्दः सुदर्शन इति बीजं कैकेयीनन्दन इति शक्तिः…

श्री भरत कवचम्

|| श्री भरत कवचम् || अगस्त्य उवाच । अतः परं भरतस्य कवचं ते वदाम्यहम् । सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदम् ॥ १ ॥ कैकेयीतनयं सदा रघुवरन्यस्तेक्षणं श्यामलं सप्तद्वीपपतेर्विदेहतनयाकान्तस्य वाक्ये रतम् । श्रीसीताधवसव्यपार्श्वनिकटे स्थित्वा वरं चामरं धृत्वा दक्षिणसत्करेण भरतं तं वीजयन्तं भजे ॥ २ ॥ अस्य श्रीभरतकवचमन्त्रस्य अगस्त्य ऋषिः श्रीभरतो देवता अनुष्टुप् छन्दः शङ्ख इति बीजं कैकेयीनन्दन…

श्री लक्ष्मण कवचम्

|| श्री लक्ष्मण कवचम् || अगस्त्य उवाच । सौमित्रिं रघुनायकस्य चरणद्वन्द्वेक्षणं श्यामलं बिभ्रन्तं स्वकरेण रामशिरसि च्छत्रं विचित्राम्बरम् । बिभ्रन्तं रघुनायकस्य सुमहत्कोदण्डबाणासने तं वन्दे कमलेक्षणं जनकजावाक्ये सदा तत्परम् ॥ १ ॥ ओं अस्य श्रीलक्ष्मणकवचमन्त्रस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः श्रीलक्ष्मणो देवता शेष इति बीजं सुमित्रानन्दन इति शक्तिः रामानुज इति कीलकं रामदास इत्यस्त्रं रघुवंशज इति कवचं सौमित्रिरिति मन्त्रः…

श्री राम कवचम्

|| श्री राम कवचम् || अगस्तिरुवाच । आजानुबाहुमरविन्ददलायताक्ष- -माजन्मशुद्धरसहासमुखप्रसादम् । श्यामं गृहीत शरचापमुदाररूपं रामं सराममभिराममनुस्मरामि ॥ १ ॥ अस्य श्रीरामकवचस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः । अथ ध्यानम् । नीलजीमूतसङ्काशं विद्युद्वर्णाम्बरावृतम् । कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ॥ १ ॥ सीतासौमित्रिसहितं जटामुकुटधारिणम् । सासितूणधनुर्बाणपाणिं दानवमर्दनम् ॥ २ ॥ यदा चोरभये राजभये शत्रुभये…

श्री रामचन्द्र स्तुतिः

|| श्री रामचन्द्र स्तुतिः || नमामि भक्तवत्सलं कृपालु शीलकोमलं भजामि ते पदाम्बुजं ह्यकामिनां स्वधामदम् । निकामश्यामसुन्दरं भवाम्बुवार्धिमन्दरं प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम् ॥ १ ॥ प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं निषङ्गचापसायकं धरं त्रिलोकनायकम् । दिनेशवंशमण्डनं महेशचापखण्डनं मुनीन्द्रचित्तरञ्जनं सुरारिबृन्दभञ्जनम् ॥ २ ॥ मनोजवैरिवन्दितं ह्यजादिदेवसेवितं विशुद्धबोधविग्रहं समस्तदूषणापहम् । नमामि जानकीपतिं सुखाकरं सतां गतिं भजे सशक्तिसानुजं शचीपतिप्रियानुजम् ॥ ३ ॥ त्वदङ्घ्रिसीम ये नरा भजन्ति…

श्री राम स्तोत्रम् (इन्द्र कृतम्)

|| श्री राम स्तोत्रम् (इन्द्र कृतम्) || इन्द्र उवाच । भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् । भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥ १ ॥ सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम् । परेशं परानन्दरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥ २ ॥ प्रपन्नाखिलानन्ददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् । तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥ ३ ॥ सदा भोगभाजां सुदूरे विभान्तं सदा योगभाजामदूरे विभान्तम् ।…

श्री राम स्तवराज स्तोत्रम्

|| श्री राम स्तवराज स्तोत्रम् || अस्य श्रीरामचन्द्र स्तवराजस्तोत्रमन्त्रस्य सनत्कुमारऋषिः । श्रीरामो देवता । अनुष्टुप् छन्दः । सीता बीजम् । हनुमान् शक्तिः । श्रीरामप्रीत्यर्थे जपे विनियोगः ॥ सूत उवाच । सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतम् । धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ॥ १ ॥ युधिष्ठिर उवाच । भगवन्योगिनां श्रेष्ठ सर्वशास्त्रविशारद । किं तत्त्वं किं परं जाप्यं किं ध्यानम्…

श्री रामानुस्मृति स्तोत्रम्

|| श्री रामानुस्मृति स्तोत्रम् || ब्रह्मोवाच । वन्दे रामं जगद्वन्द्यं सुन्दरास्यं शुचिस्मितम् । कन्दर्पकोटिलावण्यं कामितार्थप्रदायकम् ॥ १ ॥ भास्वत्किरीटकटककटिसूत्रोपशोभितम् । विशाललोचनं भ्राजत्तरुणारुणकुण्डलम् ॥ २ ॥ श्रीवत्सकौस्तुभलसद्वक्षसं वनमालिनम् । मुक्ताहारसुशोभाढ्यं मुद्रिकारत्नभासुरम् ॥ ३ ॥ सर्वाङ्गसुन्दरं हृद्यं द्विभुजं रघुनन्दनम् । नीलजीमूतसङ्काशं नीलालकवृताननम् ॥ ४ ॥ ज्ञानमुद्रालसद्वक्षोबाहुं ज्ञानमयं हरिम् । वामजानूपरिन्यस्तवामहस्ताम्बुजं प्रभुम् ॥ ५ ॥ वीरासने समासीनं विद्युत्पुञ्जनिभाम्बरम्…

श्री सीता सहस्रनाम स्तोत्रम्

|| श्री सीता सहस्रनाम स्तोत्रम् || ध्यानम् । सकलकुशलदात्रीं भक्तिमुक्तिप्रदात्रीं त्रिभुवनजनयित्रीं दुष्टधीनाशयित्रीम् । जनकधरणिपुत्रीं दर्पिदर्पप्रहन्त्रीं हरिहरविधिकर्त्रीं नौमि सद्भक्तभर्त्रीम् ॥ ब्रह्मणो वचनं श्रुत्वा रामः कमललोचनः । प्रोन्मील्य शनकैरक्षी वेपमानो महाभुजः ॥ १ ॥ प्रणम्य शिरसा भूमौ तेजसा चापि विह्वलः । भीतः कृताञ्जलिपुटः प्रोवाच परमेश्वरीम् ॥ २ ॥ का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वां…

श्री राघव स्तोत्रम्

|| श्री राघव स्तोत्रम् || इन्द्रनीलाचलश्याममिन्दीवरदृगुज्ज्वलम् । इन्द्रादिदैवतैः सेव्यमीडे राघवनन्दनम् ॥ १ ॥ पालिताखिलदेवौघं पद्मगर्भं सनातनम् । पीनवक्षःस्थलं वन्दे पूर्णं राघवनन्दनम् ॥ २ ॥ दशग्रीवरिपुं भद्रं दावतुल्यं सुरद्विषाम् । दण्डकामुनिमुख्यानां दत्ताभयमुपास्महे ॥ ३ ॥ कस्तूरीतिलकाभासं कर्पूरनिकराकृतिम् । कातरीकृतदैत्यौघं कलये रघुनन्दनम् ॥ ४ ॥ खरदूषणहन्तारं खरवीर्यभुजोज्ज्वलम् । खरकोदण्डहस्तं च खस्वरूपमुपास्महे ॥ ५ ॥ गजविक्रान्तगमनं गजार्तिहरतेजसम् ।…

श्री राघवाष्टकम्

|| श्री राघवाष्टकम् || राघवं करुणाकरं मुनिसेवितं सुरवन्दितं जानकीवदनारविन्ददिवाकरं गुणभाजनम् । वालिसूनुहितैषिणं हनुमत्प्रियं कमलेक्षणं यातुधानभयङ्करं प्रणमामि राघवकुञ्जरम् ॥ १ ॥ मैथिलीकुचभूषणामल नीलमौक्तिकमीश्वरं रावणानुजपालनं रघुपुङ्गवं मम दैवतम् । नागरीवनिताननाम्बुजबोधनीयकलेवरं सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ २ ॥ हेमकुण्डलमण्डितामलकण्ठदेशमरिन्दमं शातकुम्भ मयूरनेत्रविभूषणेन विभूषितम् । चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं भानुवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ ३ ॥ दण्डकाख्यवने रतामरसिद्धयोगिगणाश्रयं शिष्टपालनतत्परं धृतिशालिपार्थकृतस्तुतिम् । कुम्भकर्णभुजाभुजङ्गविकर्तने सुविशारदं लक्ष्मणानुजवत्सलं प्रणमामि…

श्री राम माला मन्त्रः

|| श्री राम माला मन्त्रः || ओं नमो भगवते श्रीरामचन्द्राय, स्मरणमात्र सन्तुष्टाय, महा भय निवारणाय, अयोध्यापुरवासिने, श्रीरामाय, महा मुनि परिवेष्टिताय, सकल देवता परिवृताय, कपिसेना शोभिताय, भक्तजनाऽज्ञान तमः पटल भञ्जनाय, ह्रां असाध्यसाधनाय, ह्रीं सर्वभूतोच्चाटनाय, ऐं सर्वविद्या प्रदाय, क्लीं जगत्त्रय वशीकरणाय, सौः भूमण्डलाधिपतये, रां चिरञ्जीवि श्रीरामाय, सर्वभूत प्रेत पिशाच राक्षस दानव मर्दन रामाय, रां रीं रूं रैं…

अष्टाक्षर श्रीराम मन्त्र स्तोत्रम्

|| अष्टाक्षर श्रीराम मन्त्र स्तोत्रम्  || स सर्वं सिद्धिमासाद्य ह्यन्ते रामपदं व्रजेत् । चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ १ ॥ विश्वस्य चात्मनो नित्यं पारतन्त्र्यं विचिन्त्य च । चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ २ ॥ अचिन्त्योऽपि शरीरादेः स्वातन्त्र्येणैव विद्यते । चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ ३ ॥ आत्माधारं स्वतन्त्रं च सर्वशक्तिं विचिन्त्य च…

Join WhatsApp Channel Download App