|| श्रीमधुरापुरीस्तुतिः ||
श्वेतद्वीपमधिष्ठिता सुविपुला सा सत्यलोकस्थिता
चायोध्या च कुशस्थली मधुपुरीत्यत्युज्ज्वला निस्तुलाः ।
पञ्च श्रीकमितुः प्रपञ्चकुहरे पुर्यः स्फुरन्ति स्फुटं
तासां मध्यगता विभाति मधुरा सा हन्त सर्वोत्तरा ॥ १॥
काञ्ची काशिपुरी च सा पुनरयोध्या सापि चावन्तिका
मायाख्या च कुशस्थली मधुपुरीत्यत्यन्तपुण्योत्तराः ।
पुर्यः सप्त समुल्लसन्ति परितः क्षोणीतले तास्वहो
मध्यस्था मधुरा विराजति सरोमध्ये यथाम्भोरुहम् ॥ २॥
वृन्दारण्यबृहद्वनं मधुवनं तालाटवी श्रीवनं
भद्राख्यं कुमुदाटवी च बकुळारण्यञ्च लोध्राटवी ।
माण्डीराख्यवनं तथैव खदिरारण्यञ्च कात्याटवी-
त्येतैर्द्वादशभिर्वनैः परिवृता जेजेति सा भूतले ॥ ३॥
योगीन्द्रादृतपुण्यतोयमरिता भागीरथीसङ्गता
काळिन्दी परिखेव यत्र सरितामग्रेसरी भासते ।
श्रीगोवर्धनरोहितादिभिरगश्रेष्ठैश्च गोष्ठैर्वृता
सा गोपालपुरी विभाति मधुरा नाम प्रपञ्चोदरे ॥ ४॥
निर्मान्ति स्मातिरभ्यामहह दिविषदो यां पुरैवादिकाले
धर्मासक्तान्तरात्मा बहुयुगमवसद्यत्र मध्वाख्यदैत्यः ।
निर्मायैर्मानवौघैस्सततपरिगता निर्मला शर्मदात्री
सेयं निर्वाणभूमिर्जयति मधुपुरी सर्वगीर्वाणसेव्या ॥ ५॥
दिव्यां दिव्यैकभोग्यां मणिगणकिरणापूरिताशेषलोकां
मर्त्यानां दुर्विलोकां मधुसुतमथने यां पुरा कोसलेन्द्रः ।
गीर्वाणानां प्रसादादकृत निजपुरीं धिक्कृतस्वर्गलोकां
तां साक्षाद् ब्रह्मगोपालकदयितपुरीमीक्षिताहे कदा नु ॥ ६॥
यत्राविर्भूय भूयस्तरनिजकलया गूढमध्यास्त गोष्टं
यामेवाभ्येत्य भूयः क्षितिपतिमकरोदुग्रसेनं मुरारिः ।
यामग्रे शूरसेनश्चिरमनुबुभुजे वज्रमुख्यास्तथान्ते
सेयं वृष्णीश्वरस्य प्रियतमनगरी लालसीति त्रिलोक्याम् ॥
हृष्टात्मा मुष्टिकारिप्रमुखयदुवरैर्द्व्यष्टसाहस्रयोषा-
जुष्टः सम्मृष्टशक्रोपलतुलितरुचिर्यत्र चिक्रीड चक्री ।
चक्राद्यैश्शस्त्रजालैरभितनिजमहश्चक्रविद्योतिताशा-
चक्रैरापालिता सा जयति मधुपुरी शक्रमुख्यैर्निषेव्या ॥ ८॥
यस्यां यत्सन्निधौ वा क्वचिदपि विपिने यां परीत्य स्थितासु
द्वार्वत्याद्यासु वापि प्रथितहरिहरक्षेत्रतीर्थाङ्कितेषु ।
प्रेता जाताः स्थिता वा न खलु शमलवन्तोऽपि पश्यन्ति घोरान्
प्रेताधीशस्य दूतानपि बत मधुरां तां व्रजेमाशुभान्ताम् ॥ ९॥
व्युष्ट्यां दिष्ट्यापि यस्याः स्मृतिरखिलनृणां हन्त नक्तन्दिवान्त-
र्जातं सर्वाघजातं क्षपयति तरसा मङ्गळञ्चातनोति ।
सेयं श्रेयस्स्वरूपा दिनकरदुहितुः पश्चिमे तीरभागे
गाढं बाभाति पृथ्वीकुचभरकलिता चन्द्रलेखेव पृथ्वी ॥ १०॥
नित्यं यत्र परिस्फुरत्सु नितरां पुण्येष्वरण्येष्वहो
रामाद्या निवसन्ति दैवतगणोपास्या हरेर्मूर्तयः ।
नृत्यन्त्यप्सरसः सहामरगणैरत्यन्तहर्षोदया-
दित्थम्भूतमहोदया मधुपुरी जेजेति सा भूतले ॥ ११॥
दृश्या विष्णुपदोज्ज्वला सुविमला निश्शेषतापार्दिनी
शश्वद्विश्वजनेषु चिद्रससुधानिष्यन्दसन्दोहिनी ।
काळिन्दीसरिदम्बुबिम्बितकलानाथार्थबिम्बोपमा
मौकुन्दो परिलालसीति नगरी सेयं धरित्रीतले ॥ १२॥
या गुप्ता मधुना पुरा मधुपुरीत्याख्यामवाप स्फुटां
सद्यः पापनिमन्थनेन मथुरेत्याख्यायते या बुधैः ।
यां लोके मधुरेति चाभिदधते माधुर्यसर्वङ्कषां
वृष्णीनां नियता पुरी विजयते सेयं धरामण्डले ॥ १३॥
उद्याद्विऋमशालिनां निजयशःप्रद्योतशौर्योष्मभिः
खद्योतीकृतलोकपालमहसां चक्रायुधालम्बिनाम् ।
आवासात्किल शूरसेननृपतीनां शौरसेनीति सा
विख्याता भुवने विकुण्ठभवनप्रख्या विजेजीयते ॥ १४॥
यस्यां ध्यातुर्मुकुन्दः प्रदिशति भगवानाशु मुक्ति विशेषा-
द्यस्यामष्टच्छदाढ्या विकसति विलसच्चित्तपद्मं त्रिलोक्याः ।
यस्यां तिष्ठन्ति हृष्टास्सततमपि हरिं द्रष्टुमष्टौ दिगीशा
विश्वोत्कृष्टा सुपुष्टा विलसति मधुरा नाम सा राजधानी ॥ १५॥
अश्रान्तानन्तशक्तेः पशुपकुलशिशोर्नित्यलीलानिकेतै-
र्विश्रान्त्याद्यैः पवित्रैर्हरिहरगिरिजामन्दिरैरङ्कितायाम् ।
अश्रान्तं हन्त विश्वेश्वरमहितमहाविष्णुपुर्याममुष्यां
विश्रान्तिं स्वान्त! कुर्यास्त्वमिह भवपथे मा वृथैव व्यथेथाः ॥ १६॥
यस्यां भीमोर्मिचक्राहतिमतिपरुषां दूरतो वारयन्त्यां
श्रीमद्वैकुण्ठनामा पशुपकुलशिशुः कोऽपि सत्कर्णधारः ।
काळिन्दीतीरनिष्ठां यदुपतिनगरीनामधेयां गरिष्ठां
संसाराब्धेस्तरीं तामतुलसुखकरीं गाढमद्यावलम्बे ॥ १७॥
यस्यां हा हन्त विश्वाद्भुतमनुजकिशोराकृतेश्चक्रपाणे-
र्लीलावंशीरवास्वादनपरमचिदानन्दसिद्धा निमग्नाः ।
योगीन्द्रास्ताद्विकुण्ठास्पदमभिलषितं नाधिरोढुं क्षमन्ते
तस्यौँ गोपालपुर्याः शिव शिव ! महिमोद्रेकसीम्ने नमोऽस्तु ॥ १८॥
गाढोद्भासिकुशस्थलीमुखजगन्नाथाधिवासस्थली
मध्यस्थं निजरोचिषैव हरितामापूरयन्मण्डलम् ।
श्रीमन्माधुरमण्डलं विजयते मध्येधरामण्डलं
ज्योतिर्मण्डलमध्यगं दिवि यथा तारापतेर्मण्डलम् ॥ १९॥
श्रीगोपालकमलमूर्तिरमला सारा सलीलोत्सुका
तारुण्योदयरामणीयकहठाकृष्टत्रिलोकीमनाः ।
यस्मिन् खेलति वेणुनादलहरी निर्मज्जिताशामुखा
तस्मिन् माधुरमण्डले भवतु मे गुल्मादिजन्मापि वा ॥ २०॥
इत्येतां मधुरापुरीस्तुतिकथां श्रुत्यन्तसारोदितां
प्रत्यूषे प्रतिबुध्य शुद्धमनसा नित्यं पठन् मानवः ।
मृत्योर्मस्ततटार्पिताङघ्रिरखिलान् भुक्त्वेह भोगोत्करा
नत्युत्कृष्टमकुण्ठधाम तदहो वैकुण्ठधाम व्रजेत् ॥ २१॥
इति श्रीमधुरापुरीस्तुतिः समाप्ता ।
Found a Mistake or Error? Report it Now