Shiva

याज्ञवल्क्यप्रोक्ता महादेवस्तुतिः

Mahadevastutihyajnavalkyaprokta Sanskrit

ShivaStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| याज्ञवल्क्यप्रोक्ता महादेवस्तुतिः ||

नमो नमस्ते त्रिदशाधिनाथ नमो नमस्ते प्रमथाधिनाथ ।
नमो नमो मामव मामवाव स्फुरञ्जटाजूटतटोडुनाथ ॥ २९॥

संसाररूपविविधामितदन्दशूकदंष्ट्राभिघातपरिपीडितमिन्दुमौले ।
पाहि त्वदीयमतिदीनममन्ददुःखमाधिव्यथाविषविनाशक दीनबन्धो ॥ ३०॥

श्रीविश्वनाथ शरणागतवत्सलेश त्वत्पादपद्मभजनाय मनः प्रवृत्तम् ।
पुण्यैरगण्यविभवैः तदपारपुण्यनिक्षेपलाभमनुवाञ्छति तत्प्रयच्छ ॥ ३१॥

दुर्वारदुःखपरिहारकरं भवन्तं भालेक्षणं भवभयाब्धिविशेषकं च ।
जानाति चित्तमिति मे तदपारपुण्यनिक्षेपलाभमभिवाञ्छति तत्प्रयच्छ ॥ ३२॥

ये तावदीश चरणं शरणं प्रपन्नाः ते तावतैव सुखिनो दयया तया ते ।
तत्तावदीश मम चित्तमिदं विचार्य त्वत्पादपद्मभजनाय मनः प्रवृत्तम् ॥ ३३॥

अन्यानि यानि कमलानि सरोवरेषु तेषु प्रणाशमुपयाति सुगन्धलेशः ।
इत्यादरेण बहुधैव विचार्य चित्तं त्वत्पादपद्मभजनाय मनः प्रवृत्तम् ॥ ३४॥

नान्यन्ममास्ति शरणं तरुणेन्दुखण्डदण्डायमान करमण्डलमण्डिताङ्गम् । (करमण्डितमण्डलांसम्)
त्वत्पादुके शरणमित्यनुवारमेव ज्ञात्वा भजामि भगवन्तमुमासहायम् ॥ ३५॥

चित्तं ममेशचरणस्मरणप्रवृत्तं जिह्वा महेश्वरकथासमुदीरणाय ।
कर्णौ सदाशिवकथाश्रवणप्रवृत्तौ हस्तौ शिवार्चनविधौ मम तो प्रवृत्तौ ॥ ३६॥

धन्यं मनो मम शिवस्मरणप्रवृत्तं पुण्यैरपारविभवैस्तदुपार्जिन्तं मे ।
पुण्यानि तेन पुनरप्यमितानि तानि सम्भावितान्यपि शुभान्यपि भावुकानि ॥ ३७॥

यत्कल्पकोटिसमुपार्जितपुण्यजातं तत्तावदीशचरणाम्बुजपूजनाय ।
जातं तदेव मम भाग्यमिति स्मरामि भूयः स्मरामि चिरमाशु हर स्मरारे ॥ ३८॥

भो शङ्कर स्मरहरामरवीर धीर गौरीमनोरमण पापहरप्रवीण ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारधोरविषसर्पमुखाभिलग्नम् ॥ ३९॥

कारुण्यसागरविशेषगुणाम्बुराशे काशीपते कुशलमेव मम प्रयच्छ ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४०॥

त्वं दीनवत्सल इति श्रुतिषु प्रसिद्धः सिद्धादिसेवित महेश्वर शूलपाणे ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४१॥

श्रीनीलकण्ठ गिरिराजसुतोपकण्ठ सोत्कण्ठमिन्दुकलिकाभरणार्चनादौ ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४२॥

का वा महेश्वर गतिर्मम चिन्तिताऽस्ति श्रीकालकाल शिवपूजकपूजकस्य ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४३॥

पापप्रवृत्तिरपि मास्तु भवत्पदाब्जपूजाविधाननिरतस्य शिवासहाय ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४४॥

यत्सञ्चितं विविधपापकुलं तदाशु नाशं प्रयातु शशिखण्डविमण्डिताङ्गम् ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४५॥

गर्भाधिवासजनकं दुरदृष्टमस्य यत्तावदाशु मम तद्विलयं प्रयातु ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४६॥

यो योनिमार्गविषदुर्गविनिर्गमादिहेतुः स तावदधुना विलयं प्रयातु ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४७॥

दुर्गन्धपूरपरिपूरितयोनिभागसम्भोगबुद्धिरधुना विलयं प्रयातु ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४८॥

ये ये पुरीषजलसङ्कुलगर्भवास दुर्वासनापरिवृताः प्रलयोऽस्तु तेषाम् ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४९॥

विश्वेशनामसु सुधारसपानपीना नित्यं ममास्तु रसना गिरिजासहाय ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ५०॥

श्रीबिल्वपल्लवलवैरपि पूजितस्त्वं मुक्ति प्रदातुमपि शङ्कर किं प्रवृत्तः ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ५१॥

मत्वार्थनीयमिदमेतदनन्तजन्मसञ्चीर्णपुण्यफलभूतमभूतपूर्वम् ।
सानन्दमिन्दुशकलाकलितावतंसपादारविन्दमकरन्दमधुव्रतत्त्वम् ॥ ५२॥

सापायमन्यदिति मे मतिराविरासीत्तेन त्वदीयचरणाम्बुजभक्तिरेका ।
कामान्तकास्तु मम कामद कामयेऽहं कामारिचारुचरणार्चनसाधनानि ॥ ५३॥

न ब्रह्मलोकमपि वाञ्छति मानसं मे वाणीमनोरमणतामपि किन्तु शम्भो ।
लिङ्गार्चने शिवनिवेदितभोजनेऽपि वाञ्छां करोति तदिदं वरमद्य देहि ॥ ५४॥

वैकुण्ठवासमपि नेच्छति मानसं मे शम्भो रमारमणतामपि किन्तु भक्तिम् ।
वाञ्छत्यपारविभवैः शिवलिङ्गपूजां कर्तुं प्रदोषसमयेषु विशेषतस्तु ॥ ५५॥

न स्वर्गलोकमभिवाञ्छति मानसं मे स्वर्गाधिपत्यमपि चारुशशाङ्कमौले ।
प्राणप्रयाणसमयेऽपि शिवार्चनेच्छारूपं फलं समभिवाञ्छति पुण्यपुञ्जैः ॥ ५६॥

जातं च चित्तमसकृद्गिरिश त्वया मे वीरेशलिङ्गविकटानिकटाटनेन ।
नीतं वयः शिवदिनेष्वशनं विहाय त्वल्लिङ्गपूजनरतेन न विस्मृतिस्ते ॥ ५७॥

देशान्तरस्थितगृहीतविलासिनी या तत्सङ्गमेऽपि न रतिर्मम यौवनेऽपि ।
तत्किं त्वया न विदितं गिरिशार्धजाने जाने शिवान्यमनिशं शिवपूजनेन ॥ ५८॥

वाक्पुष्पजालमसकृद्रुचिरं चिरेण कालेन दत्तमपि तुभ्यमपि त्वयापि ।
तत्तद्गृहीतमसकृत्तव विस्मृतिः का काकोदराभरण मां स्मर मां स्मराशु ॥ ५९॥

धुत्तूरपुष्पनवबिल्वदलार्कपुष्पगङ्गाजलातिसितभूतिकणा दिभिस्त्वम् ।
नाराधितोऽसि किमुमारमणातिभकत्या तद्विस्मृतं कथमपि स्मर विश्वनाथ ॥ ६०॥

एकैकबिल्वनवकोमलपल्लवेन लिङ्ग प्रदोषसमये तव वीरनाथ ।
दत्तेन तेन न चतुर्दशलोकलोकवन्द्यत्वमप्यफलमल्पफलं तदीश ॥ ६१॥

गङ्गातरङ्गविमलानिलशीतलेन तोयेन या शिरसि ते रचिता सुधारा ।
सा विस्मृता कथसुमारमणाद्य तस्याः किं वा फलं न सुरगौरिव सा प्रवृत्ता ॥ ६२॥

विश्वासबीजविलयाय कथं प्रवृत्तिः तत्तत्फलार्पणसमर्थकदर्थनेयम् ।
सह्या कथं मम तवापि न मामकत्वमद्यापि ते मयि किमत्र वदामि शम्भो ॥ ६३॥

यद्यस्ति तानि परलोकफलानि तेषां नाद्याधुना फलमिति भ्रम एव सोऽयम् ।
सर्वेप्सितार्थफल्दानि शिवार्चनानि श्रौतानि सफलानि सदापि शम्भो ॥ ६४॥

कृत्यं किमस्ति मरणोत्तरमौषधानां सञ्जीवनीफलमपि श्रुतमेव किं न ।
सा जीवनं जनयतीति निकृष्टवस्तु वस्तु प्रकृष्टमिदमीश शिवार्चनं हि ॥ ६५॥

आमुष्मिकान्यपि फलान्यमितानि शम्भो तावद्भवन्तु भगवन् अधुनापि तानि ।
सम्भावितानि न फलानि कथं बहूनि यैः कीर्तिरत्र बहुधा गिरिशप्रसादात् ॥ ६६॥

एतावदीश सहमान मया यदुक्तं तन्नापराध इति मामव दीनबन्धो ।
यो निष्ठुरं बदति कोऽपि शिशुः कुमारः तत्पालनाय जनकः खलु सम्प्रवृत्तः ॥ ६७॥

स्नेहस्तवास्ति मयि सन्ततमित्यवैमि तेनेव जीवनमपीश ससन्ततेर्मे ।
दूरीकुरु प्रतिभवेऽपि भयानि शम्भो त्वय्यस्तु भक्तिरनिशं मुहुरिन्दुमौले ॥ ६८॥

अद्यप्रभृत्यमितपातकराशिभीतिर्नास्तीति मे हर विभात्यनुवारमस्य ।
कल्याणराशिरुपपन्न इति स्मरामि सम्पत्समूहसहितोऽपि पदे पदे मे ॥ ६९॥

॥ इति शिवरहस्यान्तर्गते याज्ञवल्क्यप्रोक्ता महादेवस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download याज्ञवल्क्यप्रोक्ता महादेवस्तुतिः PDF

याज्ञवल्क्यप्रोक्ता महादेवस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App