|| महाकालकृता महेश्वरतुष्टिकरणस्तुतिः ||
महाकालः
हर हर दुरितानि दीनबन्धो पुरहर पाहि दयाकटाक्षलेशैः ।
सुरहरशर हारकाकोदरनद्धामरण प्रसीद शम्भो ॥ १॥
तपनदहन पद्मजातमित्र प्रतिकृतिभूतमभूतवर्ग ।
मधुमथनाक्षिपूज्यपादपद्य प्रमथसनाथ महेश पाहि शम्भो ॥ २॥
मत्तानन्दकरीन्द्रदारणपटुं पञ्चास्यपञ्चाननं
गङ्गातुङ्गतरङ्गसङ्गतमहामौली पिशङ्गायितम् ।
शृङ्गासङ्ग्रहरं कुरङ्गसङ्गविलसत्पाणिप्रभामण्डलं
तुङ्गातीरपतङ्गसोदरमहामूलस्थलिङ्गाकृतिम् ॥ ३॥
हिरण्यैकबाहुं हिरण्यैकरूपं हिरण्यैकवर्णं हिरण्यादिदेवम् ।
हिरण्याख्ययोर्हर्तृहन्तारमीशं हिरण्याचलावासकन्यासमेतम् ॥ ४॥
गम्भीरसागरनिषङ्गपिनाकपाणिं सोमाग्निविष्णुशरकृत्तपुरादिवर्गम् ।
क्ष्मास्यन्दनान्तरगतं शशिसूर्यचक्रं वेदाश्वसारथिविधिं रथिनां वरेण्यम् ॥ ५॥
नतोऽस्मीशमाद्यं सुराद्यैरपीड्यं सुगन्धिं नतोऽस्मि प्रपद्ये ह शश्वत् ।
नतोऽस्मीष्टसिद्ध्यै नतोऽस्मीश सिद्धयै नतोऽस्मीश भक्त्या प्रपद्ये प्रपद्ये ॥ ६॥
नृत्तकृत्तकरिमस्तपदाब्ज ध्वस्तदक्षमख कृत्तिसुवासः ।
मारमारक चिरन्तनदुःखान्याशु संहर विभो दुरितानि ॥ ७॥
भवोद्भव मनोन्मनीसहित दिव्यगन्धोल्लसन्मरन्दसुमशीतलस्फुरदुरुप्रकर्षाङ्गक ।
महेश्वर महाफणोच्छ्वसितभोगिभोगप्रिय प्रपञ्चरचनादर प्रवरदेव मां पालय ॥ ८॥
भव भावहृदन्तराब्जगप्रभवाभावभव स्थितिप्रद ।
गतभाव विदूर … शम्भो भवबन्धं प्रविनाशयाशु मे ॥ ९॥
भव भूतपते भवोद्भवाद्य त्वयि भक्त्या भगवन भवाब्धिपारम् ।
भसितैर्भवपाशनाशकैः परिधूल्य क्रमशस्तरन्ति भावाः ॥ १०॥
चित्तं त्रिनेत्रसुचरित्र विचित्रगाथाश्रोत्रश्रवेण निखिलं च पवित्रगात्रम् ।
वाञ्छा न मां भजति पुत्रकलत्रमित्त सत्रातिरात्र विविधेषु मखेषु शम्भो ॥ ११॥
तुरङ्गदन्त्युत्तमभूमिदानैः रत्नादिकन्यासुमहान्नदानैः ।
अर्ध्यप्रदानैरखिलैश्च धर्मैरलं महेशानपदं व्रजामि ॥ १२॥
॥ इति शिवरहस्यान्तर्गते महाकालकृता महेश्वरतुष्टिकरणस्तुतिः सम्पूर्णा ॥
Found a Mistake or Error? Report it Now