Misc

श्रीमलयराजस्तुतिः

Malayarajastutih Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीमलयराजस्तुतिः ||

यो न धियामधिगम्यस्तस्य कुतः सम्भवो गिरां वृत्तेः ।
स्तौमि तथापि भवन्तं मनोरथो यात्यभूमिमपि ॥ १॥

यामि मनोवाक्कायैः शरणं करुणाकरं जगन्नाथ ।
जन्मजरामरणार्णवतरणकरण्डं तवाङ्घ्रियुगम् ॥ २॥

सर्वत एव श्रुतिमान् सर्वगतश्चेति गीयसे सद्भिः ।
अत इदमर्हसि भगवन् स्थागो कृपणाद्वचः श्रोतुम् ॥ ३॥

शरणमसि संश्रयो ह्यसि गतिरसि नाथोऽसि सर्वभूतानाम् ।
भूतेश तेन ते मयि विज्ञायातिक्षमा कार्या ॥ ४॥

येनाष्टधा विभज्य प्रजासु हितहेतुना तनुर्धत्ता ।
कस्तादृशं न यायात्त्वामिह करुणाकरं शरणम् ॥ ५॥

प्रणतजनरक्षणेन क्षणमेकं कालकाल वामेन ।
त्रिनयन समग्रदर्शिन् दासजनं चक्षुषा पश्य ॥ ६॥

पातालं दिवमथ वा गच्छामि पलाय्य यदि दिगन्तं वा ।
तत्रापि त्राता मे मृत्योर्नान्यस्त्वयैव विना ॥ ७॥

कालव्याधो धावति भगवन्नासन्नमेव हन्तुं माम् ।
क्रन्दामि त्वामीशं पाशच्छेदाय तेनार्तः ॥ ८॥

आसन्नमरणमशरणमुन्मार्गभ्रमणखिन्नमवसन्नम् ।
त्रायस्व शिव समाश्रितमन्धमधस्तात्पतितं माम् ॥ ९॥

परिलुलितकमलदलगतजललवचलमेतदायुरपयाति ।
त्वद्भक्तिश्च न सुलभा पुनरिति मत्वा प्रसीद विभो ॥ १०॥

प्राणैर्वियोज्य जन्तुं त्यजति रिपुर्जगति पापशीलोऽपि ।
मृतमपि न विमुञ्चति यस्त्रायस्व ततोऽरिषड्वर्गात् ॥ ११॥

गायन्तं च रुदन्तं शान्तं कृपणं हसन्तं च ।
रक्ष विभो मामार्तं गृहीतमाशापिशाचिकया ॥ १२॥

भवमरुमार्गभ्रमणश्रान्तस्य शिव प्रसीद दीनस्य ।
त्वयि(त्वन्)मानसे प्रसन्ने शाम्यति तीव्रा हि मे तृष्णा ॥ १३॥

यस्मिन्निपतितमेव ग्रसते रागोरगो महाभोगः ।
देहि विभो भवकूपे त्रियम्बकालम्बनं पततः ॥ १४॥

येनैकमेव सर्वं द्वैतेन त्वां महेश पश्यामि ।
सद्दृष्टिप्रतिबन्धं छिन्धि ममाज्ञानतिमिरं तत् ॥ १५॥

भगवन्स्त्रिभुवनभयकृत्कृतान्तकृष्णाहिदंष्ट्रया दष्टः ।
तृष्णाभिधानया यस्त्वमेव तन्निर्विषीकुरुषे ॥ १६॥

मोहमहाव्याधिमिमं देव चिकित्सस्व दुश्चिकित्सं मे ।
भिषजं भैषज्यं च त्वां हि महान्तः प्रशंसन्ति ॥ १७॥

तं देवनरकहुतवहबहुलज्वालाकलापसन्तापम् ।
त्वद्दृष्टिर्वृष्टिरिव प्रशमयतु शिव प्रसीद विभो ॥ १८॥

देव महाकारुणिक प्रसीद करुणार्द्रया दृशा पश्य ।
शाम्यति यया मनो मे दुःसहदुःखानलज्वलितम् ॥ १९॥

शिव शिव भगवन् भगवन् अन्धमनाथं च रक्ष रक्ष विभो ।
तव पादपीठलग्नं हरति हठादेव मृत्युर्माम् ॥ २०॥

अतिकृपणमार्तमशरणमाक्रन्दन्तं वशीकृतं पाशैः ।
आक्रान्तमन्तकभटैर्मां शिव शरणागतं रक्ष ॥ २१॥

शरणागतानशरणान् मरणभयाभिद्रुतान् द्रुतं दयया ।
रक्षाम्यहमिति मय्यपि कुरु प्रतिज्ञां विभो सफलाम् ॥ २२॥

परमात्मन् परमेश्वर वेत्थ ममान्तस्स्थमेव देव त्वम् ।
यदि तव चरणाम्बुजयोः स्वप्नेऽप्यहमन्यथाचेताः ॥ २३॥

सर्वेश सर्वशक्ते सर्वग सर्वज्ञ शर्व सर्वात्मन् ।
त्यक्तस्य देव भवता भविता नान्यो मम त्राता ॥ २४॥

कमपरमधुना याचे कञ्च क्रन्दामि मन्दपुण्योऽहम् ।
कमशरणः शरणं वा व्रजामि देव त्वया त्यक्तः ॥ २५॥

दीनेषु दया कार्येत्यार्येषु कृता त्वयैव मर्यादा ।
आर्य त्वं त्वय्येव हि दैन्यं मय्येव हि पर्याप्तम् ॥ २६॥

किं त्यजसि मामनाथं नाथ कथं ते दया न मयि दीने ।
पापिनमपि शरणागतमशरणमुज्झन्ति न महान्तः ॥ २७॥

त्रातरि सर्वगते त्वयि शिवनामनि नाम परमकारुणिके ।
देव दिशः कथमेताः सञ्जातास्त्राणशून्या मे ॥ २८॥

उभयमसम्भाव्यमिदं सुखमिह दुःखं त्वदाश्रितेऽन्यत्र ।
कः श्रद्दधाति तुहिनं दहने दाहं च शीतांशौ ॥ २९॥

क्रन्दन्तमेव देव त्वमपि यदीशान संश्रितं त्यजसि ।
तदशरणं शरणागतवत्सलतां हन्त निहन्त्येव ॥ ३०॥

अभ्यर्थितः प्रसीदसि भगवन्नित्यपि ममैष कुविकल्पः ।
जगदर्थमर्थितस्त्वं कुर्वन् बहुधा तनुं केन ॥ ३१॥

सुचिरं मया न सेवितमिति शिव न त्रायसे न तद्घटते ।
किं सद्य एव पीतं नामृतमजरामरं कुरुते ॥ ३२॥

परितुष्टे किल भगवन् स्वात्मनि तुष्टिं ददासि लोकानाम् ।
तुष्टेऽपि त्वयि दुःखं न श्रुतपूर्वं कदाचिदपि ॥ ३३॥

त्वयि निखिलदुःखहन्तरि हृदयगते दुःखितुं न युक्तं मे ।
उदिते भगवति भास्वति तिमिरमनष्टं क्व वादृष्टम् ॥ ३४॥

क्षणमपि यत्र महान्तो वसन्ति तत्रापदो विनिघ्नन्ति ।
वससि सदा मम हृदये दुःखित्वं किमिदमाश्चर्यम् ॥ ३५॥

दारयति दारुणमिदं दुःखं दहतीव मे हृदयम् ।
विफलीभवति बहुफलो यद्यत्सङ्कल्पकल्पतरुः ॥ ३६॥

यस्येच्छयैव गच्छति जगदखिलं सम्भवं च नाशं च ।
तत्र त्वय्यपि शम्भो सति दुःखं हा हतोऽस्मि ततः ॥ ३७॥

तव चरणशरणगमनान्नो भग्ना नापदः सपदि यच्च ।
आत्मा तेन ममायं भगवन्निन्द्यस्त्ववन्द्यश्च ॥ ३८॥

चिन्तामणिमपि लब्ध्वा कष्टमभव्यो दरिद्र एवास्मि ।
शिवमपि शरणं गत्वा मरणभयाद्यन्न मुक्तोऽस्मि ॥ ३९॥

त्रिभुवनमप्युद्धर्तुं त्वद्भक्ताः शक्ततां गताः सर्वे ।
अहमिह पुनरवसन्नः पापी स्वयमेव संसारे ॥ ४०॥

व्यग्रः समग्रशक्ते दासजनानुग्रहः क्वासौ ।
भवतो यतो न मां प्रति सम्प्रति करुणायते चेतः ॥ ४१॥

श्वेतहिताय कृतान्तं कृतवानसि भस्मसाद्यया सहसा ।
सा तव भगवन् करुणा निष्करुणा मयि कथं जाता ॥ ४२॥

पापाः पापघ्नानां कृपणाः करुणार्द्रचेतसां सततम् ।
तरुणाः करुणाक्षेत्रं भवादृशां मादृशा एव ॥ ४३॥

दीनं दयार्द्रहृदयास्त्रायन्ते भवादृशा उपेत्य विभो ।
त्वं तु मयि याचमाने न त्राता चित्रमेतदहो ॥ ४४॥

नैषा कृपा कृपावन् परमेश विशेषवृत्तिना(ता)येयम् ।
दीनेषु दयावन्तः सन्तः साम्येन वर्तन्ते ॥ ४५॥

तव दासभावमपुनर्दास्यायैवं वदन्ति यदि सन्तः ।
लोभहतकस्य दास्यं तदिह ममाद्यापि नाथ कथम् ॥ ४६॥

अद्य श्वो वा मरणं त्राणं त्वत्तो न मेऽस्ति गतिरन्या ।
भ्राम्यति ताम्यति त्रुट्यति मुह्यति शुष्यति च मम चेतः ॥ ४७॥

धरणितलेन कलेवरमेतन्मे काष्ठवद्यावत् ।
तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ ४८॥

आविशति विवशमेतच्चेतो यावन्न मोहपातालम् ।
तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ ४९॥

धनिनो धनेन धन्याः सेवन्ते त्वां गुणैश्च गुणिनोऽपि ।
एतत्तु भक्तिमात्रं सर्वस्वं मे गृहाण विभो ॥ ५०॥

पापात्मकोऽयमिति मयि विजुगुप्सां मा कृथा जगन्नाथ ।
जगति न तदस्ति पापं हरति न यत्तेऽङ्घ्रिसंस्मरणम् ॥ ५१॥

हुतवहनिचयो हिमतां तुहिनं दहनत्वमेतु कदाचिदपि । (च कदाचित् ।)
न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ ५२॥

दिवमधिरोहतु धरणी तारानिकरोऽपि लुठतु भूमितले ।
न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ ५३॥

मुखकमलमभिमुखं कुरु देहि वचो जलदनादघनघोषम् ।
यत्तु सदाभयदानं भीतेवोच्चैः समुच्चरसि ॥ ५४॥

विज्ञापयामि किं वा नाथ बहु त्वां कृतान्तभयभीतः ।
नाज्ञानं ते किञ्चित् मद्भक्तेरात्मशक्तेश्च ॥ ५५॥

इति तरुणकरुणमुच्चैः कृपणस्याक्रन्दितं ममाकर्ण्य ।
नाथ तथा कुरु कृपया कृपणेषु यथोचितं त्वत्तः ॥ ५६॥

जगति तव शक्तिरतुला सकलजगद्घस्मरा रयात्सपदि ।
कामोऽपि लीलयैवं नयनानलशलभतां यातः ॥ ५७॥

कुलिशं कुसुमति दहनस्तुहिनति वारां निधिः स्थलति ।
शत्रुर्मित्रति विषमप्यमृतति शिव शिवेति प्रलपतो भक्त्या ॥ ५८॥

आर्तमनाथमशरणं दुस्तरभवभङ्गसागरे मग्नम् ।
उद्धर रक्ष विलोकय परिपालय मां जगन्नाथ ॥ ५९॥

यदिदमनुचितं दयालो नाथ मयाक्रन्दितं कृतान्तभयात् ।
एतत् क्षमस्व भगवन्नार्ततया किमपि न क्रियते ॥ ६०॥

स्वल्पाभोगा भोगा भङ्गी प्रियसङ्गमो गलत्यायुः ।
चलमखिलमित्यवेक्ष्य व्रजति जनः शङ्करं शरणम् ॥ ६१॥

आर्तेन मलयनाम्ना विज्ञप्तस्त्वं मया जगन्नाथ ।
शर्वः सर्वार्तिहरस्तेन स्यात्सर्वलोकानाम् ॥ ६२॥

शशभृदिव शीतलत्वे शिव देव शिवस्वभाव एव त्वम् ।
अभ्यर्थ्यतां प्रयातः कष्टं मन्मन्दपुण्यतया ॥ ६३॥

या कुपितकृतान्तमुखत्रस्तानां जगति भवति गतिरेका ।
तां भक्तवत्सल विभो नमामि शम्भो भवद्भक्तिम् ॥ ६४॥

त्वन्नाम यथा सुलभं भगवन् भूतेश मादृशस्यापि ।
मच्चेतः प्रार्थयते त्वामेतां दुर्लभां भक्तिम् ॥ ६५॥

विद्या यौवनमायुः प्रियस्य सङ्गो विभूतिरारोग्यम् ।
युगपदपि सुलभमेतन्न पुनरुदारा भवद्भक्तिः ॥ ६६॥

तेन त्वामेव विभो याचे तां दुर्लभां भवद्भक्तिम् ।
विफला दातरि न त्वयि वाञ्छा वल्लीव कल्पतरौ ॥ ६७॥

जातस्य दिव्यभवने तिर्यग्योनौ मनुष्ययोनौ वा ।
सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ६८॥

पड्वर्गविपिनकृन्तनसन्निशितकुठारधारया सततम् ।
सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ६९॥

या परमज्ञानाङ्कुरसम्पद्धनविमलबहुलजलधारा ।
सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ७०॥

शैवजननयनमणिनिष्यन्दनचन्द्रधारा या ।
सा मे सदैव भूयात् त्वयि भक्तिरचञ्चला भगवन् ॥ ७१॥

इति रचयति स्म भगवत इन्दुकलाशेखरस्य मलयाख्यः ।
भक्त्या भक्तिस्तोत्रं भवे भवे भक्तिरेवास्तु ॥ ७२॥

॥ इति श्रीमलयराजस्तुतिः सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download श्रीमलयराजस्तुतिः PDF

श्रीमलयराजस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App