|| श्रीमलूकदासाचार्याष्टकम् ||
आनन्दभाष्यकारस्य धर्मस्य परिरक्षकम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
अर्पयित्वा भरं रामे सन्तोषामृतपायिनम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
रार्मानन्दकृतानन्दभाष्यसिद्धान्तपालकम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
भक्त्या चाथ प्रत्यत्त्या च कर्मबन्धननाशकम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रामकीर्त्तनकर्त्तारं रामभक्तिप्रचारकम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
मन्त्रमालोर्ध्वपुण्ड्रादेः शिष्येभ्यः सम्प्रदायकम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
व्याख्यातारं रहस्यानां त्रयाणां तत्त्वकोविदम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
सिद्धवादिसमूहस्य विजेतारं तपस्विनम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीमलूकदासाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now